पूर्वम्: १।४।२५
अनन्तरम्: १।४।२७
 
प्रथमावृत्तिः

सूत्रम्॥ पराजेरसोढः॥ १।४।२६

पदच्छेदः॥ पराजेः ६।१ असोढः १।१ अपादानम् १।१ २४ कारके ७।१ २३

समासः॥

सोढुं शक्यते इति सोढः, न सोढः असोढः, नञ्तत्पुरुषः।

अर्थः॥

परा इत्येवं पूर्वात् {जयतेः} धातोः प्रयोगे असोढः यः अर्थः, तत् कारकम् अपादानसंज्ञं भवति॥

उदाहरणम्॥

अध्ययनात् पराजयते (अध्ययनं नहि सहते इत्यर्थः)।
काशिका-वृत्तिः
पराजेरसोढः १।४।२६

परापूर्वस्य जयतेः प्रयोगे ऽसोढो, यो ऽर्थः सोढुं न शक्यते, तत् कारकम् अपादानसंज्ञं भवति। अध्ययनात् पराजयते। असोढः इति किम्? शत्रून् पराजयते।
न्यासः
पराजेरसोढः। , १।४।२६

"सोढुं न शक्यते" इति। अनुभवितुं न शक्यत इत्यर्थः। "अध्ययनात् पराजयते" इत्यध्ययनमभिभवितुं न शक्नोति, न पारयतीत्यर्थः। "विपराभ्यां जेः" १।३।१९ इत्यात्मनेपदम्। "शत्रून् पराजयते" इति। अभिभवतीत्यर्थः। ननु च परत्वात् कर्मसंज्ञयैवात्र बाधितत्वादपादानसंज्ञा न भविष्यति, तत् किमेतन्निवृत्त्यर्थेनासोढग्रहणेन? सत्यमेतत्; प्रपञ्चे गुरुलाघवं न हि चिन्त्यते, प्रपञ्चश्चायम्। अस्ति ह्रत्राध्ययनाद् बुद्धिसंसर्ग पूर्वकोऽपायः। तथा हि-- यएव पुरुषोऽलसो भवति, स एवं मन्यते-- दुःखायैवैतदध्ययनमिति, पश्यन् बुद्ध्या तत्प्राप्नोति, प्राप्य च ततो निवर्तते; तस्मात् पूर्वेणैव सिद्धम्॥
बाल-मनोरमा
पराजेरसोढः ५८१, १।४।२६

पराजेरसोढः। सहधातोः क्तप्रत्यये धत्वढत्वष्टुत्वढलोपेषु कृतेषु "सहिवहोरोदवर्णस्ये"त्योत्त्वे सोढ इति रूपम्। तत्र क्तार्थो भूतकालो न विवक्षितः। तदाह--असह्रोऽर्थ इति। सोढुमशक्य इत्यर्थः। हेतुतृतीयाऽपवादोऽयम्। ग्लायतीत्यर्थ इति। "असहना"दिति शेषः। यदा तु असहनान्निवर्तत इत्यर्थः आश्रीयते, तदा ध्रुवमित्यपादानत्वादेव सिद्धमिति भाष्यम्। अभिभवतीति। तिरस्करोतीत्यर्थः। अत्र शत्रूणामभिभवनीयतया?सह्रत्वाऽभावान्नापादानता।

तत्त्व-बोधिनी
पराजेरसोढः ५२१, १।४।२६

पराजेः। अध्ययनादिति। अध्ययनसंबन्धिनी ग्लानिरित्यर्थः। कारकशेषत्वेन षष्ठ()आं प्राप्तायामि दम्। पराजयत इति। "विपराभ्यां जेः" इति तङ्। "असोढ"इति क्तार्थो भूतकालो न विवक्षितः। तेनाऽध्ययनात् पराजेष्यत इत्यादि सिद्धम्। नन्वसोढग्रहणं व्यर्थं, शत्रून् पराजयत इत्यत्र परत्वात् कर्मसंज्ञासिद्धेः। अत्रापि वदन्ति---कर्मत्वाऽविवक्षायां शेषषष्ठीं बाधित्वा पञ्चमी स्यात्, सा मा भूदिति कर्तव्यमेवाऽसोढग्रहणमिति।