पूर्वम्: १।४।२२
अनन्तरम्: १।४।२४
 
प्रथमावृत्तिः

सूत्रम्॥ कारके॥ १।४।२३

पदच्छेदः॥ कारके ७।१ ५५

अर्थः॥

{तत्प्रयोजको हेतुश्च (१।४।५५)} इति यावद् यदितः ऊर्ध्वम् अनुक्रमिष्यामः कारके इत्येवं तद् वेदितव्यम्। यथा -- {ध्रुवमपायेऽपादानम्, इत्यत्र कारके इति अनुवर्तते}॥ क्रियायाः निर्वर्त्तकं कारकं, क्रियायाम् इति वा (क्रियानिमित्ते सति) कारकं, तच्च विवक्षाधीनम् इति वेदितव्यम्॥
काशिका-वृत्तिः
कारके १।४।२३

कारके इति वशेषणम् अपादानादिसंज्ञाविषयम् अधिक्रियते। कारके इत्यधिकारो वेदितव्यः। यदित ऊर्ध्वम् अनुक्रमिष्यामः कारके इत्येवं तद् वेदितव्यम्। कारकशब्दश्च निमित्तपर्यायः। करकम् हेतुः इत्यनर्थान्तरम्। कस्य हेतुः? क्रियायाः। वक्ष्यति, घ्रुवमपाये ऽपादानम् १।४।२४ ग्रामादागच्छति। पर्वतादवरोहति। कारके इति किम्? वृक्षस्य पर्णं पतति। कुड्यस्य पिण्डः पतति। अकथितं च १।३।५१, अकथितं च कारकं कर्मसंज्ञं भवति माणवकं पन्थानं पृच्छति। करके इति किम्? माणवकस्य पितरं पन्थानं पृच्छति। कारकसंशब्दनेषु च अनेन एव विशेषणेन व्यवहारो विज्ञायते।
न्यासः
कारके। , १।४।२३

"कारक इति विशेषणमपादानादिसंज्ञाविषयम्" इति। अपादानदयः संज्ञा विषयो यस्य तत्तथोक्तम्। आदिशब्देन सम्प्रदानादीनां ग्रहणम्। अथ वक्ष्यमाणानां ध्रुवादीनाभियं संज्ञा कस्मान्न भवति? एवं मन्यते-- यदीयं संज्ञाशब्दा निर्दिश्यन्ते; अयं तु सप्तम्या निर्दिष्टः, तस्मान्नेयं ध्रुवादीनां संज्ञेति। "कारके" इति निर्धारणे सप्तमी, निर्धारणं तु बहुनां सम्भवति, तत्कथमेकवचनेन निर्देशः? सामान्यपेक्षया त्वेकवचनम्। अथ वा-- "छन्दोवत् सूत्राणि भवन्ति" (म।भा।१।१।१) ततो "व्यतयो बहुलम्" ३।१।८५ इति बहुवचने प्राप्त एकवचम् कारकेषु मध्ये यद् ध्रुवं कारकं तदपादानसंज्ञं भवति। एवमन्यत्रापि वेदितव्यमिति। कारकशब्दोऽयमस्त्येव व्युत्पन्नः-- ण्वुलन्तः कर्तृपय्र्याय इति, अस्ति च संज्ञाशब्दः-- अव्युत्पन्नो पय्र्याय इति। तत्रेह यदि पूर्वोक्तस्य ग्रहणं स्यात तदापादानादिषु कारकशब्दो न वत्र्तते, यथा-- कर्तृशब्दः "ण्वुल्तृचौ" ३।१।१३३ इति कर्तरि व्युत्पादितः, तथा कारकशब्दोऽपि; कत्र्ता च स्वतन्त्रः, अपादानादयश्चास्वतन्त्राः, तत्कथं तेषु कारकव्यपदेशः स्यात्? असति हि कारकव्यपदेशे कारकसंशब्देषु तेषां ग्रहणं न स्यात्। अथ तेषामपि कथञ्चित् स्वतन्त्रताभ्युपेयेत, एवञ्च तत्र कर्तृसंज्ञा प्रसज्येत, ततश्च ग्रामादागच्छति, उपाध्यायाय गां ददातीत्यादौ ग्रामादिभ्यस्तृतीया प्रसज्येत, इतरेतराश्रयश्चापि दोषः स्यात्। तथा हि-- कर्तृसंज्ञोत्तरकालं कारकशब्दस्य व्युत्पत्तिः, तस्यां सत्यां कारकशब्दोपक्रमेण कर्त्तृसंज्ञा स्यात् बह्वेवं प्रतिविधेयं स्यात्, प्रतिविधाने च प्रतिपत्तिगौरवं स्यात्। निमित्तपर्यायस्य तु कारकशब्दस्य ग्रहणे न दोषः स्यात्, ततः स एव गृह्रत इति मत्वाह--"कारकशब्दोऽयं निमित्तपर्यायः" इति। "ग्रामादागच्छति" इति। ग्रामस्य ध्रुस्यागमनक्रियां प्रति निमित्तभावोऽस्ति। यदीह ग्रामोऽवधिभावेन नावतिष्ठेततत आगमनं न निष्पद्येत,तस्माद्()ग्रामः कारकम्। "वृक्षस्य पर्णं पतति" इति। वृक्षः सम्बन्धित्वेनात्र विवक्षितः न तु निमित्तत्वेन। अपायस्य कारकग्रहणान्निमित्तत्वेनाविवक्षितस्यापादानसंज्ञा न भवति। नैतत् कारकग्रहणस्य प्रत्युदाहरणं युक्तम्; ध्रुग्रहणेनैवात्रापादानसंज्ञाया निवर्तितत्वा#आत्, ध्रुवं हि तद्यदवधिभूतमपाये साध्ये। तथा हि वृत्तिकारो वक्ष्यति-- "अपाये साध्ये यदवधिभूतम्" (का।१।४।२४) इति। न चेह वृक्षोऽवधित्वेन विवक्षितः, किं तर्हि? सम्बन्धत्वेन, नैतदस्ति; विवक्षितावधिभावस्यैव वृक्षस्य सम्बन्धिभावेन विवक्षित्वात्। अवधिभूतस्य वृक्षस्य सम्बन्धिनः पर्ण पततीत्यर्थः। न हि सम्बन्धित्वेन विवक्षाऽवधिभावविक्षाया विरुध्यते। तस्माद्विवक्षितावधिभावस्यैव वृक्ष्सय सम्बन्धित्वमात्रं विवक्षितम्, न तु विद्यमानमप्यपायं प्रति निमित्तत्वमिति काऽत्रायुक्तता ! "माणवकस्य पितरं पन्थानं पृच्छति"इति। "अकथितञ्च" १।४।५१ इत्यकथितस्य कर्मसंज्ञा विधीयमाना "कारके " १।४।८१ इत्येतस्मिन्नसति माणवकस्यापि स्यात्, कथम्? अकथितशब्दोऽयमकीर्त्तित पर्यायः। स च कस्याचिद्विशेषस्याप्रकृतत्वद्विशेषानुपादाने सति प्रयुज्यमानः सर्वत्राविशेषएणाकीर्त्तितमात्रे स्यात्। ततश्च "अकथितम्" इत्युच्यमाने कारकञ्चाकारकञ्च सर्वमकथितमिति सर्वकथितमिति गम्यते। यथा पिताऽपादानादिभिर्विशेषकथाभिर्न कथितः, तथा माणवकोऽपि, अत्स्तस्यापि कर्मसंज्ञा स्यात्। "कारके" इत्य()स्मस्तु सति प्रश्नक्रियानिमित्तस्य पितुरेव भवति; न तु माणवकस्य। न ह्रसौ प्रश्नक्रियां प्रति निमित्तभावेन विवक्षितः, किं तर्हि? पितुः सम्बन्धित्वेन। यदि विशेषणमिदं ध्रुवादीनाम्; न संज्ञा, ततश्च "कारकादत्तश्रुतयोरेवाशिषि" ६।२।१४७ इत्येवमादिषु प्रदेशेषु यत्र कारकशब्दः संशब्द्यते तदा तत्रापादानादीनां कारकग्रहणेन ग्रहणं न स्यात्। संज्ञापक्षे तु न दोषः, संज्ञा ह्रावर्तमाना संज्ञिनं प्रत्यायतीत्यत आह-- कारकसंशब्दनेषु"इत्यादि। यत्र कारकशब्दस्य संशब्दनं तत्राप्यनेनैव विशेषणेन विवक्षितार्थप्रत्यायनलक्षणो व्यवहारोऽयं विज्ञायते; प्रदेशान्तरेऽपि कारकशब्दस्य निमित्तपर्यायस्यैवोपादानात्। तच्च् निमित्तमपादाननाद्येव, न हि ततोऽन्यत्क्रियानिमित्तं भवति। तस्मात् कारकग्रहमेनापादानादीनां ग्रहणं भवति। अन्ये त्वाहुः-- साहचर्यात् कारकविशेषणसहचरिता अपादानादयः कारकशब्देनोच्यन्त इति तद्ग्रहणेनैव तेषां ग्रहणम्। कारकग्रहमं वा स्वरयितव्यम्। तेन "स्वरितेनाधिकारः" १।३।११ इत्येष विधिर्भवति। तस्मात् कारकग्रहणेनापादानादीनां ग्रहणं भविष्यति।