पूर्वम्: १।४।२७
अनन्तरम्: १।४।२९
 
प्रथमावृत्तिः

सूत्रम्॥ अन्तर्द्धौ येनादर्शनमिच्छति॥ १।४।२८

पदच्छेदः॥ अन्तर्द्धौ ७।१ येन ३।१ अदर्शनम् १।१ इच्छति लट् १।१ अपादानम् १।१ २४ कारके ७।१ २३

समासः॥

अदर्शनम् इत्यत्र, नञ्तत्पुरूषः।

अर्थः॥

अन्तर्द्धौ = व्यवधाननिमित्ते येन अदर्शनम् इच्छति, तत् कारकम् अपादानसंज्ञकं भवति।

उदाहरणम्॥

उपाध्यायाद् अन्तर्धत्ते। उपाध्यायाद् निलीयते।
काशिका-वृत्तिः
अन्तर्धौ येन अदर्शनम् इच्छति १।४।२८

व्यव्धानम् अन्तर्धिः। अन्तर्धिनिमित्तं येन अदर्शनम् आत्मन इच्छति तत् कारकम् अपादानसंज्ञं भवति। उपाध्यायादन्तर्धत्ते। उपाध्यायान् निलीयते। मा मामुपाध्यायो द्राक्षीतिति निलीयते। अन्तर्धौ इति किम्? चौरान् न दिदृक्षते। इच्छतिग्रहणं किम्? अदर्शनेच्छायां सत्यां सत्यपि दर्शने यथा स्यात्।
न्यासः
अन्तर्द्धौ येनादर्शनमिच्छति। , १।४।२८

"अन्तर्द्धौ" इति निमित्तसप्तमीयम्। "निमित्तात् कर्मयोगे" (वा।१३८) इति सप्तमी, यथा-- चर्मणि द्वीपिनं हन्तीति। एतदेव ज्ञापकम्-- निमित्तात् कर्मसंयोगेऽस्ति सप्तमीति। अस्त ह्रत्रादर्शनेन कर्मणा संयोगः। "येन" इति। कत्र्तरि तृतीया। ननु च "कर्त्तृकर्मणोः कृति" (२।३।६५) इति षष्ठ()आ भवितव्यमिति? नैतदस्ति; "उभयप्राप्तौ कर्मणि" २।३।६६ इति नियमात् कर्मण्येव, न कर्तरि। कर्म त्वत्रादर्शनस्यात्मा, तस्यान्तरङ्त्वात् स एव कर्म विज्ञायते। "तत् कारकम्" इति। यद्यप्यत्र सूत्रे तच्छब्दो नोपात्तः, तथापि स यत्तदोर्नित्याभिसम्बन्धाल्लभ्यते। "उपाध्यायादन्तर्धत्ते" इत्यत्रोपाध्यायेन कर्ता शिष्य आत्मनः कर्मभूतस्यादर्शनमिच्छति। अन्तर्द्धिनिमित्तम्। अन्तद्र्धते इति दधातेर्लट्,"स्वरितञितः" १।३।७२ इत्यात्मनेपदम्, शपः श्लुः, क"श्लौ" ६।१।१० इति द्विर्वचनम्, "श्नाभ्यसत्योरातः" ६।४।११२ इत्याकारलोपः, अभ्यासस्य जश्त्वम्, "दधस्तथोश्च" ८।२।३८ इति दकारस्य धकारः, परस्य धकारस्य "खरि च" ८।४।५४ इति चत्र्वम् = तकारः। "निलीयते" इति। "लीङ श्लेषणे" (धा।पा।११३९) वैवादिकः। "चौरान्न दिदृक्षते" इति। अत्र यश्चौरान् न दिदृशत इति स तैरात्मनोऽदर्शनमिच्छति, न त्वन्तर्द्धिनिमित्तम्; किन्तूपघातनिवृत्त्यर्थम्। विस्पष्टार्थञ्चान्तार्द्धिग्रहण्। परत्वात् कर्मसंज्ञैव बाधितत्वाच्चौराणामिहापादानसंज्ञा न भविष्यति। प्रपञ्चार्थोऽयं योगः, न च प्रपञ्चे गुरुलाघवं चिन्त्यत इत्युक्तम्। उपाध्यायादन्तर्धते शिष्य इति शिष्यस्यान्तद्र्धातुर्मा भूत्, नैतदस्ति; ध्रुवमित्यनुवर्तते, ध्रुवञ्चावधिभूतमित्युक्तम्; न चान्तद्र्धातावधिभूतः। एवं तह्र्रसति येनेत्येतस्मिन् वचने, सत्यामपि ध्रुवमित्यस्यानुवृत्तौ सूत्रस्यावाचकत्वं स्यात्। अतस्तन्माभूदिति येनेत्युक्तम्॥
बाल-मनोरमा
अन्तर्द्धौ येनाऽदर्शनमिच्छति ५८३, १।४।२८

अन्तर्धौ। अन्तर्धावित्येतद्व्याचष्टे--व्यवधाने सतीति। व्यवधानेनेति यावत्। यत्कर्तृकस्येति। येनेति कर्तृतृतीयेति भावः। आत्मनो दर्शनस्येति। "आत्मन" इति दर्शनशब्दयोगे कर्मणि षष्ठी। "आत्मन" इत्यध्याहारलभ्यम्। अत एव येनेति कर्तरि तृतीया सङ्गच्छते। अन्यथा कृद्योगषष्ठीप्रसङ्गात्। "आत्मन" इत्यध्याहारे तु उभयप्राप्तौ कर्मण्येवेति नियमान्न कृद्योग९षष्ठी। आत्मशब्देन इच्छतिकर्ता विवक्षितः। व्यवदानेन स्वविषये यत्कर्तृकदर्शनस्य अभावमिच्छतीति यावत्। मातुर्निलीयते कृष्म इति। "लीङ्श्लेषणे"श्यन्विकरणः। इह तूपसर्गवशाद्व्यवधानेन परकर्तृकस्वविषयकदर्शनविरहानुकूलव्यापारे वर्तते। ततश्च कृष्णो मातृकर्तृकस्वविषयकदर्शनविरहाय कुड()आदिना प्रच्छन्नो भवतीत्यर्थः। अत्र व्यवधानमाश्रित्य मातृकर्तृकस्वविषयकदर्शनविरहस्य कृष्णेनेष्यमाणतया मातुरपादानत्वात्पञ्चमी। कर्तृतृतीयापवादोऽयं , षष्ठ()पवादो वा। भाष्ये तु बुद्धिकृतमपादानत्वमाश्रित्य इदमपि प्रत्याख्यातम्।

तत्त्व-बोधिनी
अन्तर्द्धौ येनाऽदर्शनमिच्छति ५२३, १।४।२८

अन्तर्धौ। येनेति कर्तरि तृतीया। न च कृद्योगषष्ठीप्रसङ्गः, "उभयप्राप्तौ कर्मण्येवे ति नियमात्। अत्र ह्रात्मन इति गम्यमानत्वादस्त्युभयोः प्राप्तिः। निलीयत इति। "लिङ् श्लेषणे" दैवादिकः। नन्वन्तद्र्धाविति व्यर्थं, "न दिदृक्षते चोरो नित्यत्र परत्वात्कर्मसंज्ञासिद्धेः। अत्राहुः--चोराः आत्मानं मा द्राक्षुरिति बुद्द्या चोरन्न दिदृक्षत इत्ययमर्थोऽत्र विवक्षितस्तत्र कर्मणः शेषत्वविवक्षायामिदं पूर्ववत्प्रत्युदाहरणमिति। शब्दकौस्तुभे तु "अन्तर्धौ" इत्येतच्चिन्त्यप्रयोजनमिति स्थितम्।