पूर्वम्: २।३।६५
अनन्तरम्: २।३।६७
 
प्रथमावृत्तिः

सूत्रम्॥ उभयप्राप्तौ कर्मणि॥ २।३।६६

पदच्छेदः॥ उभयप्राप्तौ ७।१ कर्मणि ७।१ कृति ७।१ ६५ षष्ठी १।१ ५० अनभिहिते ७।१

काशिका-वृत्तिः
उभयप्राप्तौ कर्मणि २।३।६६

पूर्वण षष्ठी प्राप्ता नियम्यते। उभयप्राप्तौ इति बहुव्रीहिः। उभयोः प्राप्तिर् यस्मिन् कृति, सो ऽयम् उभयप्राप्तिः। तत्र कर्मण्येव षष्थी विभक्तिर् भवति, न कर्तरि। आश्चर्यो गवां दोहो ऽगोपालकेन। रोचते मे ओदनस्य भोजनं देवदत्तेन। साधु खलु पयसः पानं यज्ञदत्तेन। बहुव्रीहिविज्ञानादिह नियमो न भवति, आश्चर्यम् इदम् ओदनस्य नाम पाको ब्राह्मणानं च प्रादुर्भावः इति। अकाकारयोः स्त्रीप्रत्यययोः प्रयोगे न इति वक्तव्यम्। भेदिका देवदत्तस्य काष्ठानाम्। चिकिर्षा देवदत्तस्य कटस्य। शेषे विभाषा। अकाकारयोः स्त्रीप्रत्यययोर्ग्रहनात् तदपेक्षया शेषः स्त्रीप्रत्यय एव गृह्यते। शोभना हि सूत्रस्य कृतिः पाणिनेः पाणिनिना वा। केचिदविशेषेणैव विभाषाम् इच्छन्ति, शब्दानाम् अनुशासनम् आचार्यण आचार्यस्य इति वा।
न्यासः
उभयप्राप्तौ कर्मणि। , २।३।६६

"उभयप्राप्ताविति बहुव्रीहिः" इति। तेन तत्पुरुषशङ्कां निरस्यति। बहुव्रीहेराश्रयणस्य प्रयोजनं वक्ष्यति। उभयग्रहणमेन प्रकृतत्वात् कर्त्तृकर्मणी सम्बध्येते। "उभयोः प्राप्तिर्यस्मिन् कृति"इत्यनेनैकस्मिन्नेवेत्यभिप्रायः। "कर्मण्येव" इति नियमस्य स्वरूपं दर्शयति। उभयप्राप्तावेव कर्मणीत्येष तु विपरीतनियमो न भवति। मा भूत् पूर्वसूत्रेण कर्मणि षष्ठीविधानस्य वैयथ्र्यमिति। "आश्चर्यो गवां दोहोऽगोपालकेन" इति। दुहेर्भावे घञ्। तत्रोभयोप्राप्तौ कर्मण्येव गोषु षष्ठी भवति; नाऽगोपालके कत्र्तरि। अत्र च "कृत्वोऽर्थप्रयोगे" २।३।६४ इत्यतः प्रयोगग्रहणं नानुवत्र्तते। तेन गम्यमानेऽपि कर्मणि षष्ठी भवति, यथा-- "अन्तर्धौ येनादर्शनमिच्छति" १।४।२८ इत्यत्र ह्रप्रयुज्यमानस्यात्मनः कर्मत्वं गम्यते। "पानम्" इति। "ल्युट् च" ३।३।११५ इति भावे ल्युट्। इह तु न भवति-- आश्चर्यमिदमोदनस्य च पाको ब्राआहृणानाञ्च पादुर्भाव इति। न ह्रत्रैकस्मिन् कृत्युभयोः प्राप्तिः। तथा ह्रोदनस्य पाक इत्यत्र कर्मण्येवौदने प्राप्तिः, न तु ब्राआहृणेषु कर्त्तुषु। न हि पाकस्य कर्त्तृत्वेन विवक्षिता ब्राआहृणाः, किं तर्हि? प्रादुर्भावस्य कर्त्तृत्वेन। ब्राआहृणानां नच प्रादुर्भाव इत्यत्रापि प्रादुर्भाव इत्येतस्मिन् कृति कर्त्तृष्वेव ब्राआहृणेषु प्राप्तिः, न कर्मण्योदने। न हि प्रादुर्भावस्योदनः कर्म; भवतेरकर्मकत्वात्। पाकस्यैव त्वोदनः कर्मत्वेन विवक्षितः। "अकाकारयोः"इत्यादि। नियमस्यायं प्रतिषेधः। अकाकारयोः प्रयोगे नियमो न भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- "चतुथ्र्यर्थे बहुलं छन्दसि" २।३।६२ इत्यतो बहुलग्रहणमनुवत्र्तते, तेनाकाकारयोः प्रयोगे नियमो न भविष्यतीति। "शेषे विभाषा" इति। अस्याप्यर्थो बहुलग्रहणसमाश्रयणेन व्याख्यातव्यः। "भेदिका" इति। पूर्ववद्भावे ण्वुच्। "चिकीर्षा" इति। "अ प्रत्ययात्" ३।३।१०२ इत्यकारप्रत्ययः॥
बाल-मनोरमा
उभयप्राप्तौ कर्मणि ६१६, २।३।६६

उभयप्राप्तौ कर्मणि। पूर्वसूत्रात्कृतीत्यनुवर्तते। उभयप्राप्ताविति बहुव्रीहिः। अन्यपदार्थः कृत्। तदाहः-उभयोः प्राप्तिर्यस्मिन्कृतीति। एकस्मिन्कृति उभयोः=कर्तृकर्मणोः षष्ठीप्रसक्तौ कर्मण्येव षष्ठी स्यात्, नतु कर्तरीति यावत्। आश्चर्य इति। अगोपकर्तृको गोकर्मको यो दोहः सोऽद्भुत इत्यर्थः। उभयोः प्राप्ताविति षष्ठीसमासाश्रयणे तु ओदनस्य पाको ब्राआहृणानां च प्रादुर्भाव इत्यत्रापि कर्मण्येव षष्ठी स्यान्न तु कर्तरि बहुव्रीह्राश्रयणे तु एकस्यैव कृतो निमित्तत्वलाभाद्भिन्नक्रियानिरूपितकर्तृकर्मणोः षष्ठीप्राप्तौ नायं नियम इति फलति।

स्त्रीप्रत्यययोरिति। वार्तिकमेतत्। "स्त्रियां क्ति"न्नित्यधिकारविहितयोरकाऽकारप्रत्यययोः कृतोः प्रयोगे "कर्मण्येवे" त्युक्तनियमो नास्तीत्यर्थः। कर्तर्यपि षष्ठी भवतीति फलितम्। भेदिकेति। धात्वर्थनिर्देशे ण्वुल्। अकादेशः, टाप्, "प्रत्ययस्थादि"तीत्त्वम्। विभित्सेति। भिदेः सन्नान्तात् "अ प्रत्यया"दित्यकारप्रत्ययष्टाप्। रुद्द्रकर्तृकं जगत्कर्मकं भेदनं, भेदनेच्छा वेत्यर्थः।

शेषे विभाषेति। इदमपि वार्तिकम्। अकाऽकारप्रत्ययव्यतिरिक्तप्रत्ययोगे "उभयप्राप्तौ" इति नियमो विकल्प्य इत्यर्थः। स्त्रीप्रत्यये इत्येके इति। उक्तो विकल्पः स्त्रीप्रत्यययोगे सत्येव भवतीति केचिन्मन्यन्ते इत्यर्थः। विचित्रेति। हरिकर्तृका जगत्कर्मिका कृतिरित्यर्थः। केचिदविशेषेणेति। अकाऽकारभिन्नस्त्रीप्रत्यये इत्यर्थः। विचित्रेति। हरिकर्तृका जगत्कर्मिका कृतिरित्यर्थः। केचिदविशेषेणेति। अकाऽकारभिन्नस्त्रीप्रत्यये अस्त्रीप्रत्यये च कृति प्रयुज्यमाने उक्तविकल्प इत्यर्थः। शब्दानामिति। आचार्यकर्तृकं शब्दक्रमकमनुशासनमित्यर्थः। अनुशासनमसाधुभ्यो विवेचनम्।

तत्त्व-बोधिनी
उभयप्राप्तौ कर्मणि ५५१, २।३।६६

उभयप्राप्तौ। कृतीत्यनुवर्तते। तेनान्यपदार्थत्वाद्बहुव्रीहिरित्याह--उभयोः प्राप्तिर्यस्मिन्निति। उभयशब्देन कर्तृकर्मणी परामृश्येते। तेनैकस्मिन् कृति कर्तृकर्मणोः प्राप्तिलाभादाश्चर्यमिदमोदनस्य पाको ब्राआहृणानां च प्रादुर्भाव इत्यत्र नायं नियमः प्रवर्तते। तत्पुरुषे तु स्यादेवाऽत्रातिप्रसङ्ग इति भावः। पूर्वसूत्रेणैव सिद्धे नियमार्थमिदमिति ध्वनयति---कर्मण्येवेति। एवं च कर्तरि षष्ठी प्रतिषेदोऽस्य सूत्रस्य फलं, न तु कर्मणि षष्ठीविधानमिति स्थितम्।

स्त्रीप्रत्यययोरकाऽकारयोर्नायं नियमः। स्त्रीप्रत्यययोरिति। "स्त्रियां क्तिन्" इत्यधिकारे विहितयोरित्यर्थः। नायं नियम इति। "अकाऽकारयोः प्रयोगे कर्मण्येव षष्ठी न तु कर्तरी"ति यो नियम उक्तः स न प्रवर्तते, किन्तु कर्तर्यपि षष्ठी प्रवर्तत इति। फलितोऽर्थः। कथं तर्हि "सुट्()तिथोः" इति सूत्रे "सुटासीयुटो बाधोन" इति वृत्तिः()। अत्राहुः--कर्तुः करणत्वविवक्षया तृतीया बोध्येति। भेदिकेति। भेदनं भेदिका। "पर्यायार्हणोत्पत्तिषु"इति ण्वुच्। "धात्वर्थनिर्देशे ण्वुल् वक्तव्यः" इत्यनेन ण्वुलित्येके। "युवोरनाकौ"। स्त्रियां टापि "प्रत्ययस्थात्---"इति इत्वम्। बिभित्सेति। भेत्तुमिच्छा। भिदेः सनि "हलन्ताच्च इति कित्त्वाद्गुणाऽभावः। "अ प्रत्ययात्" इत्यकारप्रत्यये टाप्।

शेषे विभाषा। शेषे इति। अकाऽकाराभ्यामन्यस्मिन् क्तिनादावित्यर्थः। कर्तरि षष्ठीनिषेधफलकस्य "उभयप्राप्तौ" इति सूत्रस्य, तत्रैव कर्तरि षष्ठीसम्पादनफलकस्य "स्त्रीप्रत्यययोरकाऽकारयोः" इति वचनस्य च प्राक् स्थितत्वात्कर्तर्येव विभाषा अनेन शेषवचनेन क्रियते, न तु कर्मणीत्याशयेनोदाहरति--जगतः कृतिर्हरेर्हरिणा वेति। अविशेषेणेति। अकाऽकारभिन्ने कृन्मात्रे इत्यर्थः। अनुशासनमिति। अनुशासनमिति। अनुशिष्यन्ते असाधुशब्देभ्यः प्रविभज्य बोध्यन्ते येनेति करणे ल्युट्।