पूर्वम्: १।४।४६
अनन्तरम्: १।४।४८
 
प्रथमावृत्तिः

सूत्रम्॥ अभिनिविशश्च॥ १।४।४७

पदच्छेदः॥ अभिनिविशः ६।१ कर्म १।१ ४६ आधारः १।१ ४५ कारके ७।१ २३

समासः॥

अभिश्च निश्च अभिनी, ताभ्यां विश् अभिनिविश्, तस्य ॰ द्वन्द्वगर्भपञ्चमीतत्पुरुषः।

अर्थः॥

अभिनिपूर्वात् विशधातोः प्रयोगे आधारः यत्कारकं, तत्कर्मसंज्ञं भवति॥

उदाहरणम्॥

ग्रामं अभिनिविशते (ग्रामे प्रविशति इत्यर्थः)।
काशिका-वृत्तिः
अभिनिविशश् च १।४।४७

अभिनिपूर्वस्य विशतेराधारो यः, तत् कारकम् कर्मसंज्ञं भवति। ग्रामम् अभिनिविशते। कथं कल्याणे ऽभिनिवेशः, पापे ऽभिनिवेशः, या या संज्ञा यस्मिन् यस्मिन् संज्ञिन्यभिनिविशते इति? अन्यतरस्याम् इति वर्तते, परिक्रयणे सम्प्रदानम् अन्यतरस्याम् १।४।४४ इत्यतः। सा च व्यवस्थितविभाषा विज्ञायते।
न्यासः
अभिनिवशश्च , १।४।४७

बाल-मनोरमा
अभिनिविशश्च ५३५, १।४।४७

अभिनिविशश्च। आधार इति कर्मेति चानुवर्तते। अभिनीति सङ्घातग्रहणम्। तदाह--अभिनीत्येतदिति। अभिनिविशते सन्मार्गमिति। आग्रहवानित्यर्थः। अप्रतिहतप्रवृत्तिमानिति यावत्। नन्वेवं सति "पापेऽभिनिवेश" इत्यत्रापि कर्मत्वाद्द्वितीया स्यादित्यत आह--परिक्रयणे इति। "परिक्रयणे" इति सूत्रादन्यतरस्याङ्ग्रहणमनुवर्त्त्य व्यवस्थितविभाषाश्रयणात्क्वचिन्नेत्यन्वयः। तर्हि "अभिनिविशते सन्मार्ग"मित्यत्रापि विकल्पः स्यादित्यत आह--व्यवस्थितेति।

ननु "परिक्रयणे संप्रदानमन्यतरस्याम्", "आधारोऽधिकरणम्",धिशीङ्स्थासां कर्म", "अभिनिविशश्च" इति सूत्रक्रमः। तत्र "अभिनिविशश्चे"त्यत्र कथमन्यतरस्याङ्ग्रहणानुवृत्तिः, "आधारोऽधिकरणम्" "अधिशीङ्स्थासां कर्म" इत्यत्र च तदनुवृत्तेरभावादित्यत आह--मण्डूकप्लुत्येति। "तुल्य"मिति शेषः। मण्डूका यतामध्ये पदानि सन्ततमप्रक्षिपन्त एव उत्प्लुत्य गच्छन्ति तद्वदनुवत्र्येत्यर्थः। "एष्वर्थेष्वभिनिविष्टाना"मिति समर्थसूत्रे भाष्यप्रयोगोऽत्र मानम्।

तत्त्व-बोधिनी
अभिनिविशश्च ४८१, १।४।४७

अभिनिवि। नेरल्पाच्तरत्वेन पूर्वनिपाते कर्तव्ये विपरीतोच्चारणमीदृशशसङ्घातविवक्षार्थमित्याह--सङ्घातपूर्वस्येति। तेनेह--"निविशते यदि शूकशिखा पदे"इति। क्विचिन्नेति। "एष्वर्थेष्वभिनिविष्टाना"मिति समर्थसूत्रस्थभाष्यप्रयोगोऽत्र मानमिति भावः।