पूर्वम्: १।४।५४
अनन्तरम्: १।४।५६
 
प्रथमावृत्तिः

सूत्रम्॥ तत्प्रयोजको हेतुश्च॥ १।४।५५

पदच्छेदः॥ तत्प्रयोजकः १।१ हेतुः १।१ कर्त्ता १।१ ५४ कारके ७।१ २३

समासः॥

तस्य प्रयोजकः, तत्प्रयोजकः, षष्ठीतत्पुरुषः। निपातनात् समासः॥

अर्थः॥

तस्य स्वतन्त्रकर्त्तुः यः प्रयोजकः = प्रेरकः, तस्य हेतुसंज्ञा भवति, चकारात् कर्त्तृसंज्ञा च॥

उदाहरणम्॥

देवदत्तः कटं करोति, तं यज्ञदत्तः प्रयुङ्क्ते -- यज्ञदत्तो देवदत्तेन कटं कारयति॥
काशिका-वृत्तिः
तत्प्रयोजको हेतुश् च १।४।५५

ततिति अनन्तरः कर्ता परामृश्यते। तस्य प्रयोजकस् तत्प्रयोजकः। निपातनात् समासः। स्वतन्त्रस्य प्रयोजको यो ऽर्थः, तत्कारकं हेतुसंज्ञं भवति। चकारात् कर्तृसंज्ञं च। संज्ञासमावेशार्थश्चकारः। कुर्वाणं प्रयुङ्क्ते, कारयति। हारयति। हेतुत्वद् णिचो निमित्तं कर्तृत्वाच् च कर्तृप्रत्ययेन उच्यते। हेतुप्रदेशाः हेतुमति च ३।१।२६ इत्येवम् अदयः।
लघु-सिद्धान्त-कौमुदी
तत्प्रयोजको हेतुश्च ७०२, १।४।५५

कर्तुः प्रयोजको हेतुसंज्ञः कर्तृसंज्ञश्च स्यात्॥
न्यासः
तत्प्रयोजको हेतुश्च। , १।४।५५

"तस्य प्रयोजकस्तत्प्रयोजकः" इति। ननु च "कत्र्तरि च" २।२।१६ इत्यनेन षष्ठीसमासप्रतिषेधे नात्र भवितव्यमित्याह-- "निपातनात्समासः" इति। "प्रयोजकः" इति प्रेरकः = उपदेशकः, व्यापारक इत्यर्थः। न चान्येन प्रयुज्यमानस्य स्वव्यापारे स्वातन्त्रयं हीयते; अन्यथा ह्रकुर्वत्यपि कारयीति स्यात्। प्रयोजकत्वं द्विविधम्-- मुख्यम्, इतरच्व। देवदत्तः कटं कारयीत्यत्र देवदत्तस्य मुख्यम्। भिक्षा वासयतीत्यत्र भिक्षाणां वासहेतुत्वात् प्रयोजनत्वमुपचरितम्, न मुख्यम्। न हि भिक्षा यूयं वसथेत्येवं प्रयुञ्जते। इह च कारकाधिकारे तमब्ग्रहणव्यतिरेकेणातिशयो न विवक्षित इति "साधकतमं करण म्" १।४।४२ इत्यत्र तमब्ग्रहणेन ज्ञापितमेतत्। तेन यस्यापि प्रयोजगत्वमुपचरितम्, न मुख्यम्, तस्यापि हेतुसंज्ञा भवत्येव। "संज्ञासमावेशार्थश्चकारः" इति। असति तस्मिन्नेकसंज्ञाधिकारादत्र कर्तृसंज्ञा न स्यात्। अतः संज्ञासमावेशार्थश्चकारः क्रियते। "हेतुत्वात्" इत्यादिना संज्ञाद्वयस्य प्रयोजनं दर्शयति। प्रयोजकव्यापारे हि "हेतुमति च" ३।१।२६ इति णिच् विधीयते। तस्य हेतुत्वं प्रयोजकस्य हेतुत्वे सत्युपपद्यते। हेतुत्वात्प्रयोजको णिचो निमित्तं भवति। कर्तृप्रत्येन न लकारेणाभिधानं कर्त्तृसंज्ञायां सत्यां भवतीति कर्त्तृत्वत् कर्त्तृप्रत्ययेन लकारेणोच्यत इति॥
बाल-मनोरमा
तत्प्रयोजको हेतुश्च ४०३, १।४।५५

अथ "हेतुमति चे"ति णिज्विधिं वक्ष्यन् हेतुसंज्ञामाह -- तत्प्रयोजको हेतुश्च। "स्वतन्त्रः कर्ते"ति पूर्वसूत्रोपात्तः कर्ता तच्छब्देन परामृश्यते। तस्य कर्तुः प्रयोजकः प्रवर्तयिता - तत्प्रयोजकः। तदाह -- कर्तुः प्रयोजको हेतुसंज्ञ इति। चकारः पूर्वसूत्रोपात्तां कर्तृसंज्ञां समुच्चिनोति। तदाह -- कर्तृसंज्ञश्चेति।देवदत्तः पचति, तं प्रेरयति यज्ञदत्त इत्यत्र देवदत्तस्यैव पाकानुकूलव्यापारात्मकपचधात्वर्थाश्रयत्वरूपक्रतृत्वसत्त्वात्प्रयोजकस्य तदभावादिह कर्तृसंज्ञाविधिः। प्रयोजकस्य प्रयोज्यकत्र्रा अन्यथासिद्धत्वाद्धेतुत्वाऽप्राप्तौ हेतुसंज्ञाविधिः।

तत्त्व-बोधिनी
तत्प्रयोजको हेतुश्च ३५२, १।४।५५

तत्प्रयोजको हेतुश्च। तच्छब्देन "स्वतन्त्रः कर्ते"ति पूर्वसूत्रोपात्तः कर्ता कपरामृश्यते।तस्य = कर्तुः प्रयोजकः = प्रेरकः, तद्व्यापारानुकूलव्यापारवानित्यर्थः। चकार एकसंज्ञाधिकारबाधनार्थस्तदाह-- हेतुसंज्ञः कर्तृसंज्ञश्चेति। हेतुसंज्ञायाः प्रयोजनं "भीस्म्योर्हेतुभये", "भियो हेतुभये षु" गित्यादौ प्रयोजकस्य हेतुत्वेन व्यवहारः। कर्तृसंज्ञायास्तु "लः कर्मणि च भावे चे"ति सूत्रेण प्रयोजके वाच्ये लकारादयः।