पूर्वम्: १।४।५
अनन्तरम्: १।४।७
 
प्रथमावृत्तिः

सूत्रम्॥ ङिति ह्रस्वश्च॥ १।४।६

पदच्छेदः॥ ङिति ह्रस्वः वा इयङुवङ्स्थानौ १।२ अस्त्री १।१ यू स्त्र्याख्यौ १।२ नदी १।१

काशिका-वृत्तिः
ङिति ह्रस्वश् च १।४।६

दीर्घस्य नदीसंज्ञा विहिता, ह्रस्वस्य न प्राप्नोति, इयङुवङ्स्थानयोश्च प्रतिषिद्धा। तस्मान् ङिति व विधीयते। ङिति परतो ह्रस्वश्च य्वोः सम्बन्धी यः स्त्र्याख्यः, स्त्र्याख्यौ इयङुवङ्स्थानौ च यू वा नदी संज्ञौ भवतः। कृत्यै, कृतये। धेन्वै, धेनवे। श्रियै, श्रिये। भ्रुवै, भ्रुवे। अस्त्री इत्येव, स्त्रियै। स्त्र्याख्यौ इत्येव, अग्नये। वाय्वे। भनवे।
लघु-सिद्धान्त-कौमुदी
ङिति ह्रस्वश्च २२३, १।४।६

इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ, ह्रस्वौ चेवर्णोवर्णौ, स्त्रियां वा नदीसंज्ञौ स्तो ङिति। मत्यै, मतये। मत्याः २। मतेः २॥
न्यासः
ङिति ह्यस्वश्च। , १।४।६

यद्यत्र ह्यस्वविशेषणार्थ "यू" इति नानुवत्र्तते इति नानुवत्र्तते, तदेहापि स्यात्-- मात्रे दुहित्र इति; तस्मात् तदिहानुवत्र्तते। अनुवत्र्तमानमपि यदि प्रथमान्तमनुवर्तते, तदा प्रथमान्तयोह्र्यस्वत्वं प्रति विशेषणविशेष्यभावो नोपपद्यते। तस्मात् तदिहार्थात् षष्ठ()न्तमुपजायत इत्यत आह-- "ह्यस्वश्च य्वोः सम्बन्धी" इति। कः पुनस्तयोः सम्बन्धी ह्यस्वः? यस्तयोह्र्यस्वः सवर्णः; तेन सामथ्र्यादिकारोकारयोग्र्रहणम्, न हि ताभ्यामन्यो ह्यस्व ईदुतोः सवर्णः सम्भवति। "कृत्यै, कृतये" इति। यदा नदीसंज्ञा तदा पूर्ववदाट्, अन्यथा तु "शेषो ध्यसखि" १।४।७ इति धिसंज्ञकत्वात् "घेर्ङिति"७।३।१११ गुणः। अत्रापि यत्र विभक्तिसम्बन्धिनः शब्दरूपस्यावयवः स्त्र्याख्यस्तत्र पूर्वोक्तया रीत्या नदीसंज्ञा न प्राप्नोति-- अतिकृतये ब्राआहृणाय, अतिश्रियेति॥
बाल-मनोरमा
ङिति ह्यस्वश्च २९४, १।४।६

इदन्तत्वाद्यूस्त्र्याख्याविति नदीत्वेऽप्राप्ते ङित्सु तद्विकल्पं दर्शयितुमाह--ङिति ह्यस्वश्च। अत्र चकाराद्वाक्यद्वयं, तथा हि "यूस्त्र्याख्यौ नदी"त्यनुवर्तते। ईश्च ऊश्च यू। "दीर्घाज्जसि चे"ति पूर्वसवर्णदीर्घनिषेधाऽभावश्छान्दसः। स्त्रियमेवाचक्षाते स्त्र्याख्यौ। नित्यस्त्रीलिङ्गाविति यावत्। "नेयङ्वङ्स्थानावस्त्री"ति सूत्रं नञ्वर्जमनुवर्तते। इयङुवङोः स्थानं स्थितिर्ययोस्ताविति विग्रहः। इयङुवङ्प्राप्तियोग्यावित्यर्थः। "वामी"त्यतो "वे"त्यनुवर्तते। ततश्च "इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ नदीसंज्ञौ वा स्तो ङिति परे" इति वाक्यमेकं संपद्यते। पुनरपि "यू" इत्यनुवर्तते। इश्च उश्च यू। "ह्यस्व" इति तत्र प्रत्येकमन्वेति। स्त्र्याख्याविति चानुवर्तते। तस्य च स्त्रीलिङ्गावित्येतावदेव विवक्षितं, नतु नित्यस्त्रीलिङ्गवीदूतौ नदीसंज्ञौ वा स्तो ङिति परे" इति वाक्यमेकं संपद्यते। पुनरपि "यू" इत्यनुवर्तते। इश्च उश्च यू। "ह्यस्व" इति तत्र प्रत्येकमन्वेति। स्त्र्याख्याविति चानुवर्तते। तस्य च स्त्रीलिङ्गावित्येतावदेव विवक्षितं, नतु नित्यस्त्रीलिङ्गाविति , व्याख्यानात्। "वामी"त्यतो वेति चानुवर्तते। ततश्च "स्त्रीलिङ्गौह्यस्वौ चेवर्णोवर्णौ नदीसंज्ञौ वा स्तो ङिति परे" इति वाक्यमेकं संपद्यते।तदाह--इयङुवङ्स्थानाविति। द्वितीयवाक्येऽपि स्त्रीलिङ्गे नित्यत्वविशेषणे तु इष्वशन्यरणिप्रभृतीनामुभयलिङ्गानां, पटुमृदुप्रभृतीना त्रिलिङ्गानां च ङिति नदीत्वविकल्पो न स्यादिति बोध्यम्। तत्र ह्यस्वयोकप्राप्ते दीर्घयोस्तु "नेयङुवङ्स्थाना"विति निषेधादप्राप्ते नदीत्वे विभाषेयम्। नदीत्वपक्षे आह--आण्नद्या इति। मति-ए इति स्थिते आटि वृद्धौ यणि च सिद्धं रूपमाह--मत्यै इति। मतये इति। नदीत्वाऽभावपक्षे "शेषो घ्यसखी"ति घित्वाद्धेर्ङितीति गुणेऽयादेशे हरिशब्दवद्रूपम्। नदीत्वपक्षे ङसिङसोरटि वृद्धिराकारः, यण्। मत्याः। नदीत्वाऽभावे-मतेः। आमि नदीत्वाभावेऽपि हस्वान्तत्वान्नुटि दीर्घः। मतीनाम्। ङौ विशेषमाह--नदीत्वपक्षे इति। नदीत्वपक्षे घित्वाऽभावात् "अच्च घेः" इत्यत्वसंनियोगशिष्टमौत्वं न भवति। किंतु ङेरामिति प्राप्तं, तद्बाधित्वा औदिति केवलमौत्वे परत्वात्प्राप्ते सतीत्यर्थः।

तत्त्व-बोधिनी
ङिति ह्यस्वश्च २५६, १।४।६

ङिति ह्यस्वश्च। "वामी"ति सूत्राद्वेत्यनुवर्तते। अप्राप्तविभेषेयं। ह्यस्वयोरप्राप्तावितरयोस्तु "नेयङुवाङ्स्थाना"विति निषेधप्राप्तावारम्भात्। इहे"इयङुवङ्स्थानौ""स्त्रीशब्दभिन्नौ""नित्यस्त्रीलिङ्गा"विति त्रीणि ईदुतोर्विशेषणानि, ह्यस्वयोस्तु "स्त्रिया"मित्येव विशेषणं, नत्तु नित्यस्त्रीत्वपर्यन्तम्, अन्यथा इष्वशनिप्रभ-तीनामुभयलिङ्गानां पटुमृदुप्रभृतीनां सर्वलिङ्गानां च स्त्रीत्वेऽपि नदीत्वं न स्यात्। कैयटमते हि तेषां नित्यस्त्रीत्वाऽभावात्, ह्यस्वांशे नित्यग्रहमव्यावर्त्त्याऽलाभाच्च। अतएवाऽ‌ऽख्याग्रहणं विहाय स्त्रीशब्दमात्रं निष्कृष्य संबध्यते, तदेतदाह----ह्यस्वौ च इउवर्णो स्त्रियामिति।