पूर्वम्: १।४।३
अनन्तरम्: १।४।५
 
प्रथमावृत्तिः

सूत्रम्॥ नेयङुवङ्स्थानावस्त्री॥ १।४।४

पदच्छेदः॥ इयङुवङ्स्थानौ १।२ अस्त्री १।१ यू स्त्र्याख्यौ १।२ नदी १।१

काशिका-वृत्तिः
नैयङुवङ्स्थानावस्त्री १।४।४

पूर्वणातिप्रसक्ता नदीसंज्ञा प्रतिषिध्यते। स्थितिः स्थानम्। इयङुवङोः इति इयङुवङ्स्थानौ, तौ यू नदीसंज्ञौ न भवतः, स्त्रीशब्दम् वर्जयित्वा। हे श्रीः। हे भ्रूः। अस्त्री इति किम्? हे स्त्रि।
लघु-सिद्धान्त-कौमुदी
नेयङुवङ्स्थानावस्त्री २३०, १।४।४

इयङुवङोः स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्तो न तु स्त्री। हे श्रीः। श्रियै, श्रिये। श्रियाः, श्रियः॥
न्यासः
नेयङुस्थानावस्त्री। , १।४।४

"इयङुवङस्थानौ यौ यू तौ नदीसंज्ञकौ न भवतः" इति। यूद्वारेण य्वन्तस्यायं प्रतिषेधो विज्ञायते, न केवलयोः; प्राप्त्यभावात्। न हि यू केवलावियङुस्तानौ स्त्र्याख्यौ विद्येते। "हि श्रीः, हे भ्रूः" इति। अत्र नदीसंज्ञाया अभावात् तन्निबन्धनः "अ म्बार्थनद्योह्र्यस्वः" ७।३।१०७ इति ह्यस्वो न भवति। "श्रिञ् सेवायाम्" (धा।पा।८९७) "क्विब्वचिप्रच्छिश्रिरुआउद्रुप्रुज्वां दीर्घौऽसम्प्रासारणञ्च"(वा। २८८) इति क्विपि दीर्घत्वे कृते श्रीरिति भवति। "भ्रमु अनवस्थाने" (धा।पा।१२०५) इत्यस्मात् "भ्रमेर्डूः" (द।उ।१।१७७) इति डूप्रत्यये टिलोपे भ्रुरिति भवति। उभयोः "अचि श्नुधातु" ६।४।७७ इत्यादिनेयडुवङोर्विधानादियङुवङस्थानौ यू भवतः। "हे स्त्रि" इति। "ष्ट()ऐ स्त्यै शब्दसंधातयोः" (धा।पा।९११,९१०)। "आदेच उपदेशेऽशितित ६।१।४४ इत्यात्त्वम्; स्त्यायतेर्ड्रट, "टेः"६।४।१५५ इति टिभागलोपः; "लोपो व्योर्वलि" ६।१।६४ इति वाकरस्य लोपः, "टिट्ढा" ४।१।१५ इत्यादिना ङीप्। अत्र नदीसंज्ञायाः प्रतिषेधाभावात् ह्यस्वत्वं भवत्येव। स्त्रीशब्दस्य "स्त्रियाः" ६।४।७९ इतीयङविधानादियङस्थान ईकारः। अथ स्थानग्रहणं किमर्थम्? इयङुवङस्थानयोः प्रतिषेधो यथा स्यादिति चेत्? न; यद्येतत् प्रयोजनमभिमतं स्यात् "इयङुवङोः" इत्येवं वाच्यम्। एवमप्ययमेवार्थः--- ईयङुवङोः सम्बन्धौ यौ यू तयोर्नदीसंज्ञा न भवतीति। कौ च तयोः सम्बन्धिनौ यू? यौ तयोः प्रकृतिभुतावियङुवङरस्थानाविति, अन्तरेणापि स्थानग्रहणमियङुवङस्थानयोः प्रतिषेधो विज्ञास्यते। इदं तर्हि स्थानग्रहणस्य प्रयोजनम्-- यत्रेयङ्वङोः स्थितिरभिनिवृत्तिस्तत्र प्रतिषेधो यथा स्यात्। यत्र त्वपवादेन तयोर्बाधस्तत्र मा भूदिति-- आध्यै, वर्षाभ्वै इति। "ध्यै चिन्तायाम्" (धा।पा।९०८) "अन्यभ्योऽपि दृश्यते" ३।२।१७८ इति क्विप्; सम्प्रसारणञ्च। सम्प्रसारणन्तु दृशिग्रहणाल्लभ्यते। तथा हि तत्रैव दृशिग्रहणं विध्यन्तरोपसंग्रहार्थम्। क्वचिद्दीर्घः, क्वचिद्द्विर्वचनमित्युक्त्वा "ध्यायतेः सम्प्रसारणञ्च" (वा।२९२) इति वक्ष्यति। कृतसम्प्रसारणस्यैव चतुर्थ्येकवचने "एरनेकाचः" ६।४।८२ इत्यादिना यणादेशः। वर्षाभूशब्दस्यापि "वर्षाभ्वश्च" ६।४।८४ इति।
बाल-मनोरमा
नेयङुवङ्स्थानावस्त्री ३०१, १।४।४

नेयङुवङ्स्थानावित्यतोऽस्त्रीत्यस्यानुवृत्तिर्वक्तव्या। ततश्च इयङुवङ्स्थानाविति यत्रान्वेति तत्रैव तत्संबद्धस्याऽस्त्रीत्यस्यानुवृत्तिरुचिता। एवं च ह्यस्वादिवाक्ये इयङुवङ्स्थानावित्यस्याऽनुवृत्त्यभावादस्त्रीत्यस्यापि तत्र नानुवृत्तिरिति भावः। अतिस्त्रियै इति। नदीत्वपक्षे आट् वृद्धिः। अतिस्त्रये इति। नदीत्वाऽभावे घित्वात् "घेर्ङिती"ति गुणेऽयादेशः। अतिस्त्रियाः अतिस्त्रेरिति। नदीत्वे आट्। तदभावे गुणः। "ङसिङसोश्चे"ति पूर्वरूपम्। अतिस्त्रियामिति। नदीत्वपक्षे ङेराम्, आट्। अतिस्त्राविति। नदीत्वाऽभावपक्षे "अच्च घेः"। श्रीरिति। श्रयन्त्येतामिति श्रीः। "क्विब्बचिप्रच्छिश्रिस्नुद्रुप्रुज्वां दीर्घोऽसंप्रसारणं चे"ति क्विप्, प्रकृतेदीर्घश्च। श्री शब्दात्सुः। अङ्यन्तत्वान्न सुलोपः। श्रियौ श्रिय इति। "दीर्घाज्जसि चे"ति पूर्वसवर्णदीर्घनिषेधौ "इको यणची"ति यणि प्राप्ते धात्वयवेवर्णान्तत्वादचि श्नुधात्वितीयङ्। एकाच्त्वात्संयोगपूर्वकत्वाच्च यण् न। "यू स्त्र्याख्यौ" इति नदीत्वात् "अम्बार्थे"ति ह्यस्वेप्राप्ते--नेयङुवङ्। "यू स्त्र्याख्यौ नदी" इत्यतो "यू" "नदी"त्यनुवर्तते। "स्थान" शब्दो भावे ल्युङन्तः। इयङुवङोः स्थानं स्थितिर्ययोरिति बहुव्रीहिः। इयङुवङ्योग्याविति यावत्। तदाह--इयङुवङोरित्यादिना। हे श्रीरिति। अजादाबियङ्योग्यत्वान्नदीत्वनिषेधादम्बार्थनद्यौ"रिति ह्यस्वो नेति भावः। श्रियमिति। अमि पूर्वरूपं बाधित्वा इयङ्। श्रियौ श्रिय इति। औट्शसोः पूर्ववत्। टा-श्रिया। श्रियै इति। "ङिति ह्यस्वश्चे"ति ङिति नदीत्वपक्षे आट्, वृद्धिः। श्रिये इति। नदीत्वाऽभावे इयङ्। श्रिया इति। ङसिङसोर्नदीत्वे आट्, वृद्धिः। श्रिय इति। नदीत्वाऽभावपक्षे इयङेव। ङित्त्वाऽभावादामि "ङिति ह्यस्वश्चे"ति अप्राप्ते।

तत्त्व-बोधिनी
नेयङुवङ्?स्थानावस्त्री २६३, १।४।४

नेयङ्वङ्स्तानावस्त्री। तिष्ठतो ययोरिति "स्थानौ"। अधिकरणे ल्युट्। इयङुवङोः स्थानाविति षष्ठीसमासः। तथाच फलितार्थमाह---इयङुवङोः स्थितिर्ययोरिति। स्थानग्रहणं किम्? प्रकृष्टा धीः--प्रधीः। हे प्रधि!। अत्र "एरनेकाच" इति यणा इयङो बादानान्नेयङुवङ्स्थानाविति निषेधो न प्रवर्तते। "यत्रेयडुवङौ निष्पद्येते तत्रैव नदीसंज्ञाया निषेधः। यत्र त्वपवादेन बाध्यते तत्र न निषेध"इत्येतदर्थं हि "स्थान"ग्रहणं कृतम्। अन्यथा "नेयङुवङा"रित्येव ब्राऊयात्। "इवङुवङोनिमित्तभूतौ यू नदीसंज्ञकौ ने "त्यर्थलाभात्। अस्त्रीति किम्? हे स्त्री।