पूर्वम्: १।४।७०
अनन्तरम्: १।४।७२
 
प्रथमावृत्तिः

सूत्रम्॥ विभाषा कृञि॥ १।४।७१

पदच्छेदः॥ विभाषा १।१ ७५ कृञि ७।१ ७८ तिरः ७० अन्तर्द्धौ ७।१ ७० गतिः १।१ ५९ क्रियायोगे ७।१ ५८ निपाताः १।३ ४६

काशिका-वृत्तिः
विभाषा कृञि १।४।७२

अन्तर्धौ इति वर्तते। प्राप्तविभाषेयम्। तिरःशब्दः करोतौ परतो विभाषा गतिसंज्ञो भवति। तरः कृत्य, तिरस्कृत्य। तिरस्कृतम्। यत् तिरस्करोति। तिरः कृत्वा, तिरस्कृत्वा। अन्तर्धौ इत्येव, तिरःकृत्वा काष्ठं तिष्ठति।
न्यासः
विभाषा कृञि , १।४।७१

"तिरस्कृत्य"इति। "तरिसोऽनयतरस्याम्" ८।३।४२ इति विसर्जनीयस्य सत्त्वम्।
न्यासः
उपाजेऽन्वाजे। , १।४।७१

बाल-मनोरमा
विभाषा कृञि ७६३, १।४।७१

विभाषा कृञि। कृञि प्रयुज्यमाने तिरसित्यव्ययं गतिसंज्ञं वा स्यादित्यर्थः। तिरस्कृत्य तिरः कृत्येति। गतिसंज्ञापक्षे गतिसमासे क्त्वो ल्यप्। "तिरसोऽन्यतरस्या"मिति सत्वविकल्पः। तिरः कृत्वेति। गतित्वाऽभावपक्षे सत्वमपि न भवति, तद्विधौ गतिग्रहणानुवृत्तेरित्याहुः। केचित्तु तिरस्कार इति परिभवे प्रयोगदर्शनात्सत्वविधौ गतिग्रहणं नानुवर्तयन्ति।

तत्त्व-बोधिनी
विभाषा कृञि ६७४, १।४।७१

विभाषा कृञि। तिरः कृत्वेति। गतित्वाऽभावपक्षे "तिरसोऽन्यतरस्या"मिति सत्वमपि न भवति, तद्विधौ गतिग्रहणानुवृत्तेः। माधवस्तु--पराभवे "तिरस्कार"इति प्रयोगदर्शनात्सत्वविधौ गतिग्रहणानुवृतिं()त केचिन्नेच्छन्तीत्याह। (६७३) उपाजेऽन्वाजे।१।४।७३।

उपाजेऽन्वाजे। एतौ विभक्तिप्रतिरूपकौ निपातौ दुर्बलस्य सामथ्र्यधाने वर्तेते। तदाह--दुर्बसल्येति। साक्षात्प्भृतीनि। साक्षात्। मिथ्या। आम्। अद्धा। लवणम्। उष्णम्। शीतम्। उदकम्। आद्र्रम्। गतिसंज्ञासंनियोगेन लवणादीनां पञ्चानां मकारान्तत्वं निपात्यते। प्रादुस्। नमस्। आविस् इत्यादि। आकृतिगणोऽयम्।