पूर्वम्: १।४।५७
अनन्तरम्: १।४।५९
 
प्रथमावृत्तिः

सूत्रम्॥ प्रादय उपसर्गाः क्रियायोगे॥ १।४।५८

पदच्छेदः॥ प्रादयः १।३ ५९ उपसर्गाः १।२ क्रियायोगे ७।१ ७८ असत्त्वे ७।१ ५७ निपाताः १।३ ४६

समासः॥

प्र आदिर्येषां ते प्रादयः, बहुव्रीहिः।
क्रियाया योगः क्रियायोगः तस्मिन्, षष्ठीतत्पुरुषः।

अर्थः॥

असत्त्ववाचिनः प्रादयो निपातसंज्ञका भवन्ति, ते च प्रादयः क्रियायोगे उपसर्गसंज्ञकाश्च भवन्ति।

उदाहरणम्॥

प्र, परा, अप, सम्, अनु, अव, निस्, निर्, दुस्, दुर्, वि, आङ्, नि, अधि, अपि, अति, सु, उत्, अभि, प्रति, परि, उप॥ क्रियायोगे - प्रणयति, परिणयति, प्रणायकः।
काशिका-वृत्तिः
प्राऽदयः १।४।५८

प्राऽदयो ऽसत्त्वे निपतसंज्ञा भवन्ति। प्र। परा। अप। सम्। अनु। अव। निस्। निर्। रुस्। दुर्। वि। आङ्। नि। अधि। अपि। अति। सु। उतभि। प्रति। परि। उप्। पृतग्योगकरनम् उत्तरसंज्ञाविशेषणार्थम्। उपसर्गाः क्रियायोगे १।४।५८ इति चाऽदीनाम् उपसर्गसंज्ञा मा भूत्। असत्त्वे इत्येव, परा जयति सेना।
काशिका-वृत्तिः
उपसर्गाः क्रियायोगे १।४।५९

प्राऽदयः क्रियायोगे उपसर्गसंज्ञा भवन्ति। प्रणयति। परिणयति। प्रणायकः। परिणायकः। क्रियायोगे इति किम्? प्रगतो नायको ऽस्माद् देशात्, प्रनायको देशः। मरुच्छाब्दस्य च उपसङ्ख्यानम् कर्तव्यम्। मरुद्भिर् दत्तो मरुतः। संज्ञाविधानसामर्थ्यादनजन्तत्वे ऽपि अच उपसर्गात् तः ७।४।४७ इति तत्त्वं भवति। श्रच्छब्दस्य उपसङ्ख्यानम्। आतश्चौपसर्गे ३।३।१०६ इति अङ् भवति श्रद्धा। उपसर्ग। प्रदेशाः उपसर्गे घोः किः ३।३।९३ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
प्रादयः ५४, १।४।५८

एतेऽपि तथा॥
लघु-सिद्धान्त-कौमुदी
उपसर्गाः क्रियायोगे ३५, १।४।५८

प्रादयः क्रियायोगे उपसर्गसंज्ञाः स्युः। प्र परा अप सम् अनु अव निस् निर दुस् दुर वि आङ् नि अधि अपि अति सु उत् अभि प्रति पर उपि - एते प्रादयः॥
न्यासः
उपसर्गाः क्रियायोगे। , १।४।५८

"प्रणयति" इति। प्रशब्दस्योपसर्गत्वात् "उपसर्गादसमासेऽपि णोपदेशस्य" ८।४।१४ इति णत्वम्। "प्रनायको देशः" इति। अत्रनयनक्रियया प्रशब्दस्य योगो नास्तीत्युपसर्गसंज्ञा न भवति। ननु चात्रापि गमिक्रियया योगोऽस्त्येवेति स्यादेव तस्योपसर्गसंज्ञा, नेतदस्ति; क्रियायोगग्रहणं ह्रेवमनर्थकं स्यात्। कथम्? प्रादीनां क्रियायोगाव्यभिचारात्; तस्मात् क्रियायोगग्रहणसामथ्र्याद्यं प्रति क्रियायुक्ताः प्रादयस्तं प्रति गत्ुयपसर्गसंज्ञका भवन्ति, नान्यं प्रति। न चेह नयनक्रियया युक्तः प्रशब्दः, किं तर्हि? गमिक्रिययेति नयतिं प्रत्युपसर्गसंज्ञको न भवति। "मरुच्छब्दस्योपसंख्यानम्" इति। तत्वविधाविति। शेषः; अन्यथा हि "निपाता आद्युदात्ताः" (फि।सू।४।८०) "उपसर्गाश्चाभिवर्जम्" (फि।सू।४।८१) इत्याद्युदात्तत्वमपि स्यात्। अन्तोदात्तश्चेष्यते मरुच्छब्दः। उपसंख्यानशब्दस्य प्रतिपादनमर्थः; मरुच्छब्दस्योपसर्गसंज्ञायाः प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम्-- "उपसर्गाः" इति योगविभागः क्रियते। अत्र च "प्रादयः" इति नाभिसम्बध्यते। तेन मरुच्छब्दस्य तत्वविधावुपसर्गसंज्ञा भवतीति। अत एव योगविभागात् श्रच्छब्दस्याङविधावन्तः शब्दस्याङ्गिविधिणत्वेषूपसर्गसंज्ञा भवतीति वेदितव्यम्। योगविभागस्येदं लिङ्गम् "प्रज्ञाश्रद्धार्चावृत्तिभ्यो णः" ५।२।१००, "तिरोऽन्तर्धौ" १।४।७० इति च निर्देशः। ततः "क्रियायोगे" इति द्वितीयो योगः। अत्र च "प्रादयः" इति सम्बध्यते। किमर्थमिदम्? पूर्वेणैव सिद्धमिति पूर्वयोगस्यासर्वविषयत्वाज्ञापनार्थम्, तेन नातिप्रसङगः। प्रादीनामक्रियायोग उपसर्गसंज्ञा मा भूदित्येवमर्थञ्च। "मरुत्तः" इति। "अच उपसर्गात्तः" ७।४।४७ इति क्तप्रत्यये कृते द्वितकारनिर्देशाद्दवातेः सर्वादेशः। ननु चसत्यामुपसर्गसंज्ञयां करुच्छब्दस्यानजन्तत्वात् तत्वेन न भवितव्यमित्यत आह-- "संज्ञाविधान सामथ्र्यात्" इत्यादि। यथा ह्रुपसरज इत्यत्र डित्करणसामथ्र्यादभस्यापि टिलोपो भवति, तथेहाप्यनजन्तादपि तत्वं भविष्यति; अन्यथा हीदं वचनमपार्थकं स्यात्। मरुच्छब्दस्योपसर्गसंज्ञाया अन्यकार्याभावादिति भावः। "श्रच्छब्दस्योपसंख्यानम्" इति। अत्राप्युपसंख्यानशब्दस्य स एवार्थः। प्रतिपादनमपि तदेव। ननु च भिदादिपाठादेव हि श्रद्धेति सिद्धम्;तत्कथं तत्सिद्धये श्रच्छब्दस्योपसर्गसंज्ञा क्रियते? एवं मन्यते- अनार्षस्तत्र पाठ इति॥
बाल-मनोरमा
प्रादयः २३, १।४।५८

प्रादयः। असत्त्व इत्यनुवर्तते, निपाता इति च। तदाह--अद्रव्येति। तथेति। निपातसंज्ञका इत्यर्थः।

बाल-मनोरमा
उपसर्गाः क्रियायोगे २४, १।४।५८