पूर्वम्: १।४।७३
अनन्तरम्: १।४।७५
 
प्रथमावृत्तिः

सूत्रम्॥ अनत्याधान उरसिमनसी॥ १।४।७४

पदच्छेदः॥ अनत्याधाने ७।१ ७५ उरसिमनसी १।२ विभाषा १।१ ७१ कृञि ७।१ ७१ गतिः १।१ ५९ क्रियायोगे ७।१ ५८ निपाताः १।३ ४६

काशिका-वृत्तिः
अनत्याधान उरसिमनसी १।४।७५

विभाषा कृञि इति वर्तते। अत्याधानम् उपश्लेषणम्, तदभावे ऽनत्याधाने उरसिमनसी शब्दौ विभाषा कृञि गतिसंज्ञौ भवतः। उरसिकृत्य, उरसि कृत्वा। मनसिकृत्य, मनसि कृत्वा। अनत्यावाने इति किम्? उरसि कृत्वा पाणिं शेते।
बाल-मनोरमा
अनत्याधान उरसिमनसी ७६६, १।४।७४

अनत्याधाने। "उपसि" "मनसि" इति विभक्तिप्रतिरूपके अव्यये गतिसंज्ञे वा स्तोऽनत्याधाने। उरसिकृत्येति। गतित्वपक्षे कत्वो ल्यप्। इह अत्याधानं न गम्यत इत्याह -अभ्युपगम्येत्यर्थ इति। मनसिकृत्येति। गतित्वपक्षे क्त्वो ल्यप्। इहापि नाऽत्याधानं गम्यत इत्याह--निश्चित्येत्यर्थ इति। अत्याधानशब्दं विवृण्वंस्तस्य प्रयोजनमाह--उपश्लेषणमिति। संयोग इत्यर्थः। उरसि कृत्वेति। उरसि पाणिं निधाय शेत इत्यर्थः। अत्र पाणिसंश्लेषणावगमान्न गतिसंज्ञेति भावः। मध्येपदे। गतित्वे तदभावे च त्रयाणामेदन्तत्वं निपात्यते।

तत्त्व-बोधिनी
अनत्याधान उरसि मनसी ६७६, १।४।७४

अनत्या। उरसिमनसी विभक्तिप्रतिरूपकौ।