पूर्वम्: १।४।९२
अनन्तरम्: १।४।९४
 
प्रथमावृत्तिः

सूत्रम्॥ सुः पूजायाम्॥ १।४।९३

पदच्छेदः॥ सुः १।१ पूजायाम् ७।१ ९४ कर्मप्रवचनीयाः १।३ ८२ निपाताः १।३ ४६

काशिका-वृत्तिः
सुः पूजायाम् १।४।९४

सुशब्दः पूजायाम् अर्थे कर्मप्रवचनीयसंज्ञो भवति। सु सिक्तं भवता। सु स्तुतं भवता। धात्वर्थः स्तूयते। उपसर्गसंज्ञाऽश्रयं षत्वं न भवति। पूजायाम् इति किम्? सुषिक्तं किं तवात्र।
न्यासः
सुः पुजायाम् , १।४।९३

"सुसिक्तं भवता" इति। भवच्छब्दात् कत्र्तरि तृतीया। द्वितीया तु पूर्ववदेव न भवति। "धात्वर्थः स्तूयते" इति। शोभनोद्भावनं स्तुतिः, सैव तस्य पुजा। "उपसर्गाश्रयं षत्वं न भवति" इति। कर्मप्रवचनीयसंज्ञयोपसर्गसंज्ञाया बाधितत्वादिति भावः। "सुषिक्तं किं तवात्र" इति। क्षेपोऽयम्,न पूजा॥
बाल-मनोरमा
सुः पूजायाम् ५४७, १।४।९३

सुः पूजायाम्। "कर्मप्रवचनीय" इति शेषः। सु सिक्तं सु स्तुतमिति। अत्र सोः कर्मप्रवचनीयत्वे प्रयोजनमाह--अनुपसर्गत्वान्न ष इति। "उपसर्गात्सुनोतीत्यनेने"ति शेषः। पूजायां किमिति। सुना पूजाया नित्यं प्रतीतेः प्रश्नः। सुषिक्तं किं [स्यात्]तवात्रेति। त्वया सम्यक् सिक्तं, किन्त्वत्रास्मिन् सुसेके कृते सति सेक्तुस्तव किं, न किञ्चिदपीत्यर्थः। क्षेपोऽयमिति। निन्दाऽत्र गम्यत इत्यर्थः। सेकक्रियाकर्तुः पूज्यत्वे गम्य एवात्र कर्मप्रवचनीयत्वम्। तदभावात् "उपसर्गात्सुनोती"ति षत्वमिति भावः।