पूर्वम्: १।४।९७
अनन्तरम्: १।४।९९
 
प्रथमावृत्तिः

सूत्रम्॥ लः परस्मैपदम्॥ १।४।९८

पदच्छेदः॥ लः ६।१ परस्मैपदम् १।१

अर्थः॥

लादेशाः परस्मैपदसंज्ञकाः भवति।

उदाहरणम्॥

तिप्, तस्, झि। सिप्, थस्, थ। मिप्, वस्, मस्। शतृ, क्वसु।
काशिका-वृत्तिः
लः परस्मैपदम् १।४।९९

लः इति षष्ठी आदेशापेक्षा। लाऽदेशाः परस्मैपदसंज्ञा भवन्ति। तप्, तस्, झ। सिप्, थस्, थ। मिप्, वस्, मस्। शतृक्वसू च परस्मैपदप्रदेशाः सिचि वृद्धिः प्रस्मैपदेषु ७।२।१ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
लः परस्मैपदम् ३७८, १।४।९८

लादेशाः परस्मैपद संज्ञाः स्युः॥
न्यासः
लः परस्मैपदम्। , १।४।९८

ल इति प्रथमा वा स्यात्? षष्ठी वा? तत्र यदि प्रथमा स्याल्लकारस्यैव परस्मैपदसंज्ञा स्यात्, न तदादेशानां तिबादीनाम्। कामम्, तेषममपि स्थानिवद्भावेन स्यात्। "तङानावात्मनेपदम्" १।४।९९इत्यत्र तु "लः" इत्यनेन तङानयोः सम्बन्धो नोपपद्येत, न हि तङानौ लौ भवतः। अत्र तङानभावो लकार एव तङानावित्येवमभिहितः। साहचर्याद्वा लादेशौ तङानावव "ल" इत्युक्ताविति व्याख्येयम्। तथा च व्याख्यानद्वारेणेष्टार्थप्रतिप्त्तौ साध्यायां प्रतिपत्तिगौरवं स्यात्। षष्ठीपक्षे त्वेष दोषो नास्ति, अतस्तमाश्रित्याह-- "लः" इति षष्ठी" इत्यादि। नन्वयमपि पक्षो दोषवानेव, लादेशस्य हि परस्मैपदसंज्ञा विधीयमाना तिङां न स्यात्, तेषां परत्वात् "तिङस्त्रीणि त्रीणि" १।४।१०० इत्यादिना प्रथमपुरुषादिसंज्ञया भवितव्यम्। परस्मैपदसंज्ञायास्तु शतृक्वस्वोश्चावकासः? नैष दोषः; यदयं "सिचि वृद्धिः परस्मैपदेषु" (७।२।१।) इत्याह तज्ज्ञापयति-- भवति च तिङां परस्मेपदसंज्ञेति। स हि परस्मैपदे परे सिचि विधीयते, न हि सिज्विषये शतृक्वसू सम्भवतः। "तिप्तस्झि" इत्यादि रूपोदाहरणमात्रम्॥ "कतीह निघ्नानाः" इति। निपूर्वोद्धन्तेः "ताच्छील्यवयोवचनशक्तिषु चानश्" ३।२।१२९ इति चानश्प्रत्ययः। "गमहन" ६।४।९८ इत्यादिनोपधालोपः। "होहन्तेर्ञ्णिन्नेषु" ७।३।५४ इति कुत्वम्। यद्यनादेशोऽपि चानशात्मनपदसंज्ञकः स्यात् परस्मैपदिनो हन्तर्न स्यात्॥ तिङ इति प्रथमाबहुवचनम्। तिङः संज्ञिनः किंभुताः? त्रीणि त्रीणित्येवम्भूता इत्यर्थः। वचनापेक्षया नपुंसकलिङ्गेन निर्देशः। वीप्सायाञ्चैतद्()द्विर्जनम्। यदि तिङस्त्रीणि त्रीणि वचनानि प्रथममध्यमोत्तमपुरुषसंज्ञकानि भवन्ति, एवं सति षट्()त्रिकाः संज्ञिनः संज्ञास्तित्र इति यथासंख्यं न प्राप्नोति; वैषम्यात्। तत्र यद्येकस्यानेकसंज्ञाविधानवैयथ्र्यादेका संज्ञा भवेत्, न त्वेकैकस्य तिरुआः, तथापि सैवैकैका भवन्तीत्यव्यवस्था वा स्यात्; नैष दोषः;इह हि परस्मैपदग्रहणमात्मनेपदगर्हणञ्चानुवर्तते। तदनुवृत्तौ च द्वौ राशी भवतः- नवानां तिङां परस्मैपदसंज्ञकानामेको राशिः, तथा नावानामात्मनेपदसंज्ञकानां द्वितीयः। तत्र प्रथमे राशौ ये त्रयस्त्रिकाः, ये च द्वितीये राशौ त्रयस्त्रिकास्तैरिदं सूत्रं प्रत्येकमभिसम्बध्यते-- परस्मैपदेषु तिङस्त्रीणि त्रीणि प्थममध्यमोत्तमाः, तथात्मनेपदेषु तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमा इति। एवं हि सति न भवति संख्यातानुदेशाभावप्रसङ्गः। तमेवार्थं दर्शयितुमाह-- "तिङोऽष्टादश प्रत्ययाः" इति। "नव" इत्यादिना राशिद्वयं दर्शयति। "तत्र" इत्यादिना प्रथमे राशौ ये त्रयस्त्रिकास्तैरस्य सूत्रस्य सम्बन्ध#ं करोति। "आत्मनेपदेषु" इत्यादिनापि द्वितीये राशौ ये त्रयस्त्रिकास्तैश्च॥ "तानि" इति बहुवचनं संज्ञासमावेशार्थम्; अन्यथा ह्रेकसंज्ञाधिकारे सति वचन्परामाण्यात् पुरुषवचनसंज्ञाः पर्यायेण प्रवर्तेरन्। एवञ्च तत्र "आडुत्तमस्य पिच्च" ३।४।९२ इत्यादिना विधीयमानमाडादिकार्यं पाक्षिकं स्यात्। अ()स्मस्तु सति भवति संज्ञासमावेशः। तच्छब्देन हि त्रीणि त्रीणि लब्धपुरुषसंज्ञकानि तान्येकवचनादिसंज्ञकानि भवन्तीति प्रत्यवमृश्यन्ते, तेन यानि लब्धप्रथमपुरुषादिसंज्ञकानि तान्येवैकवचनादिसंज्ञकानि भवन्ति। ननु च त्रिकाणां प्रथमादिसंज्ञैकैकस्य चैकवचनादिसंज्ञा, तत्र विषयबेदादेकसंज्ञाधिकारेऽपि विरोधो नास्त्येवेति; नैष दोषः; तदस्ति पुरुषादिसंज्ञापि हि प्रत्येकमेव, न हि समुदायो नामान्यस्त्रिकेभ्योऽस्ति; तस्मात् तिबादयस्त्रका एव संज्ञिनः। त्रिग्रहणन्तु मर्यादार्थम्। त्रत्वसंख्यापरिच्छिन्नास्तिङः प्रत्येकं पुरुषसंज्ञाः प्रतिपाद्यन्ते। तस्मात् प्रथमादिसंज्ञानामेकवचनादिसंज्ञानाञ्चैकविषयतैवेति संज्ञासमावेशार्थं तानीत्युक्तम्॥
बाल-मनोरमा
लः परस्मैपदम् ६, १।४।९८

लः पर। "ल" इति स्थानषष्ठी। "आदेश" इत्यध्याहार्यम्। तदाह-- लादेशा इति।