पूर्वम्: २।१।११
अनन्तरम्: २।१।१३
 
प्रथमावृत्तिः

सूत्रम्॥ आङ् मर्यादाभिविध्योः॥ २।१।१२

पदच्छेदः॥ आङ् मर्यादाभिविध्योः ७।२ विभाषा १।१ ११ पञ्चम्या ३।१ ११ अव्ययीभावः १।१ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
आङ् मर्यादाऽभिविध्योः २।१।१३

आङित्येतन् मर्यादायाम् अभिविधौ च वर्तमानम् पज्चम्यन्तेन सह विभाषा संस्यते, अव्ययीभावश्च समासो भवति। आपाटलिपुत्रं वृष्टो देवः, आ पाटलिपुत्रात्। अभिविधौ आकुमारं यशः पाणिनेः, आ कुमारेभ्यः।
न्यासः
आङ् मर्यादाभिविध्योः। , २।१।१२

अथ मर्यादाभिविधिग्रहणं किमर्थम्? यावता पञ्चमीत्यनुवत्र्तते, आङा च कर्मप्रवचनीयेनैव योगे पञ्चमी विधीयते-- एतयोरेवार्थयोः "आङ मर्यादावचने" १।४।८८ इत्याङः कर्मप्रवचनीयसंज्ञा४, नान्यत्र; तत्रान्तरेणापि मर्यादाविधिग्रहणं तयोरेवार्थयो समासो भविष्यति, नान्यत्रेति? सत्यमेतत्; तथापि मन्दधियां सुखावबोधनार्थं मर्यादाभिविधिग्रहणम्॥
बाल-मनोरमा
आङ्मर्यादाभिविध्योः ६५९, २।१।१२

आङ्मर्यादाभिविध्योः। एतयोरिति। मर्यादाभिविध्योर्विद्यमानादित्यर्थः। मर्यादायामुदाहरति-आमुक्तीति। मुक्तेः प्रागित्यर्थः। अमिविधावुदाहरति-आबलमिति। बालानारभ्येत्यर्थः। "आङ्मर्यादावचने" इत्युभयत्रापि कर्मप्रवचनीयत्वात् "पञ्चम्यपाङ्परिभि"रिति पञ्चमी।

तत्त्व-बोधिनी
आङ्वर्यादाभिविध्योः ५८३, २।१।१२

आबालमिति। "आ परमणोरा च भूगोलक" मिति किरणावलीप्रयोगस्तु प्रामादिकः, समासमध्ये च शब्द प्रयोगाऽसंभवात्। "आ च भूगोलकात्िति पास्तूचितः।