पूर्वम्: २।१।३
अनन्तरम्: २।१।५
 
प्रथमावृत्तिः

सूत्रम्॥ सह सुपा॥ २।१।४

पदच्छेदः॥ सह २१ सुपा ३।१ २१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
सह सुपा २।१।४

सुपिति वर्तते। सुपिति सह इति सुपा इति च त्रयम् अपि अधिकृतं वेदितव्यम्। यदित ऊर्ध्वम् अनुक्रमिष्यामः, तत्र इदम् उपस्थितं द्रष्टव्यम्। वक्ष्यति द्वितीया श्रितातीतपतितगतात्यस्तप्राप्ताऽपन्नैः २।१।२३ इति। द्वितीयान्तं श्रितादिभिः सह समस्यते, कष्टं श्रितः कष्टश्रितः। सहग्रहणं योगविभागार्थम्, तिङापि सह यथा स्यात्। अनुव्यचलत्। अनुप्रावर्षत्।
लघु-सिद्धान्त-कौमुदी
सह सुपा ९०९, २।१।४

सुप् सुपा सह वा समस्यते॥ समासत्वात्प्रातिपदिकत्वेन सुपो लुक्। परार्थाभिधानं वृत्तिः। कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः। वृत्त्यर्थावबोधकं वाक्यं विग्रहः। सच लौकिकोऽलौकिकश्चेति द्विधा। तत्र पूर्वं भूत इति लौकिकः []पूर्व अम् भूत सु’ इत्यलौकिकः। भूतपूर्वः। भूतपूर्वे चरडिति निर्देशात्पूर्वनिपातः। (इवेन समासो विभक्त्यलोपश्च)। वागर्थौ इव वागर्थाविव॥
लघु-सिद्धान्त-कौमुदी
इति केवलसमासः १ ९०९, २।१।४

लघु-सिद्धान्त-कौमुदी
अथाव्ययीभावः ९०९, २।१।४

न्यासः
सह सुपा। , २।१।४

"सहग्रहणं योगविभागार्थम्" इति; ननु चासति तस्मिन्नेकैकस्य संज्ञा स्यात्, ततश्च ऋक्पाद इत्यत्र "ऋक्पूरब्धूः पथामानक्षे" ५।४।७४ इत्यत्राकारः समासान्तः स्यात्; इह च "राजा()आः" इत्यत्र "समासस्य" ६।१।२१७ इति द्वौ स्वरौ स्याताम्, सहभूतयोरेव समाससंज्ञा यथा स्यादेकैकस्य मा भूदित्येवमर्थ सहग्रहणं कस्मान्न विज्ञायते? एवं मन्यते-- सुपेति तृतीयैव सहार्थ गमयति, यथा "वृद्धो यूना" १।२।६५ इति। समासट इति च महती संज्ञा क्रियते-- अन्वर्थसंज्ञा यथा विज्ञायेतेति। कथं नामान्वर्थसंज्ञा क्रियते? समसनम् = समासः, संक्षेप इत्यर्थः। संक्षेपश्चानेकवस्तुविषयः। तेनासत्यपि सहेतस्मिन् सहभूतयोरेव समाससंज्ञा भविष्यति। "न प्रत्येकम्" इति। "अनुव्यचलत्" इति। तिङन्तेनात्र समासः। अत्र "तिङङतिङः" ८।१।२८ इति निघाते कृते समाससंज्ञायां सत्यां तन्निबन्धनमन्तोदात्तत्वं भवति॥
न्यासः
अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूव्र्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु। , २।१।४

"स्त्रीष्वधिकृत्य कथा प्रवत्र्ततेऽधिस्त्रि" इति। "अनभिहिते" २।३।१ इति सूत्रे "तिङकृत्तद्धितसमासैः परिसंख्यानम्" (म।भा।१।४४१) इति परिगणनं कृतम्, तेनाधिशब्देन द्योतिते सप्तम्यर्थे स्त्रीशब्दात् सप्तमी भवति। तेन तदन्त एव समस्यते। अधिशब्दस्तु प्रथमान्तः। "अव्ययीभावश्च" २।४।१८ इति नपुंसकत्वम्। "ह्यस्वो नपुंसके" १।२।४७ इति ह्यस्वः। विभक्तिशब्देनेह कारकमुच्यते-- विभज्यते प्रातिपदिकार्थोऽनयेति कृत्वा। तच्चेहाधिकरणं विवक्षितमित्याह-- "सप्तम्यर्थे यदव्ययम्" इति। "उपकुम्भम्" इति। समीपार्थेनोपशब्देनोपजनिते व्यतिरेके कुम्भशब्दात् षष्ठी भवतीति षष्ठ()न्तं एव समस्यते। "समुद्रम्" इति। यदा मद्रैर्विशिष्यमाणत्वात् समृद्धेः प्राधान्यं भवति तदायं समासः। मद्राणामाधिक्येन ऋद्धिर्वत्र्तत इत्यर्थः। यदा तु मद्राः समृद्ध्या विशिष्यमाणाः प्रधानभावमनुभवन्ति तदा "कुगतिप्रादयः" २।२।१८ इत तत्पुरुषो भवति-- सुमदर्ा इति। समृद्धिमन्तो मद्रा इत्यर्थः। "दुर्गवदिकम्" इति। गवादिकानामृद्धिविगमो वत्र्तत इत्यर्थः। ननु चार्थाभाव इत्यनेनैव तत्सिद्धम्, तथा ह्रर्थाभावो वस्त्वभावो भवत्येव, तत्कोऽत्र विशेषो येनार्थाभावात् ऋद्धिविगमस्य पृथगभिधानं क्रियते? अयमस्ति विशेषः; उत्तरपदार्थाभावो हि द्रव्याभावः, यथा-- निर्मक्षिकमिति, मक्षिकाणामभाव उच्यते; न तु दुर्गवदिकमित्यत्र गवादिकानामभावः, किं तर्हि? तदीयाया ऋद्धेर्विगमः। "अर्थाभावः" इति। अर्थार्थग्रहणं किमर्थम्? धर्माभावे प्रसज्यप्रतिषेधो मा भूत्, यथा-- न भवति ब्राआहृणोऽब्राआहृण इति। ब्राआहृणत्वं धर्मोऽत्र प्रतिषिध्यते, न तु वस्त्वभावः। किञ्च-- इतरेतराभावेच मा भूत्, गौर()आओ न भवतीति। अत्राप्यर्थान्तरत्वं प्रतिध्यते, न तु वस्त्वभावः। "अत्ययोऽभूतत्वम् इति। अस्यैव प्रयायोऽतिक्रमः। अतिक्रमः इत्युत्पत्त्यभावः, प्रध्वंसाभाव इत्यर्थः। अर्थाभावस्तु क्वचिद्देशे सर्वदैव वस्तुनोऽभावः, न तूत्पन्नस्य पश्चादभाव इत्यत्ययोऽर्थाभावाद्भिद्यते। "उपभोगस्य" इत्यादिनाऽर्थाभावाद्भेदं दर्शयति। अर्थाभावो हि क्वचिद्देशे कालत्रयेप्यभावः, असम्प्रति पुनरुपभोगस्य यो वत्र्तमानः कालस्तस्यैव प्रतिषेध इति भिद्यते; असम्प्रत्यर्थाभावात्। "अतितैसृकम्" इति। तिसृका नाम ग्रामः "तत्र भवः" ४।३।५३ "तत आगतः" ४।३।७४ इति वाऽण्, तैसृकम्, न तैसृकस्य वत्र्तमानः काल उपभोगस्येत्यर्थेऽतितैसृकमिति भवति। "अनुरूपम्" इत्यत्र योग्यतायामनुशब्दः। योग्यं रूपं वहतीत्यर्थः। "प्रत्यर्थम्" इति। प्रतिशब्दोऽव्ययमत्र वीप्सायाम्, अर्थमर्थ प्रति प्रत्यर्थम्। ननु चात्र नित्यसमासत्वात् वाक्येन न भवितव्यम्? नैतदस्ति; प्रतिशब्दस्य वीप्सायामर्थे कर्मप्रवचनीयसंज्ञा विहिता, तद्योगे द्वितीया यथा स्यादित्येवर्थम्। तस्याश्च वाक्य एव प्रयोगो नान्यत्रेति तेन सत्यपि नित्यसमासत्वे वाक्यमपि भवति। "यथाशक्ति" इति। पदार्थानतिवृत्तौ यथाशब्दः। पदमत्र शक्तशब्दस्तस्यार्थः शक्तरेव; तस्या अनतिवृत्तिरनतिक्रमः। यथाशक्ति करोतीति शक्यनतिक्रमेण करोतीत्यर्थः। "ज्येष्ठानुपूव्र्येण" इति। ज्ेयष्ठानुक्रमेणेत्यर्थः। "सचक्रम्" इति। "अव्ययीभावे चाकाले" ६।३।८० इति सहशब्दस्य सभावः। एवं "सकिखि" इत्यादावपि सभावो वदितव्यः। "गुणभूतेऽपि" इत्यादि। यदि सादृश्य इति नोच्येत तदा पूर्वपदार्थप्रधानोऽव्ययीभाव इति यदा सादृश्यं विशेष्यत्वात् प्रधानं भवति तदैव स्यात्, सादृश्यं किख्याः सकिखीति गुणभूते तु न स्यात्, अस्माद्वचनाद्भवति। "सदृशः किख्या" इति। सादृश्यवतः प्राधान्यप्रदर्शनेन सादृश्यस्य गुणभावं प्रदर्शयितुं सदृशः किख्या इत्युक्तम्()। सादृश्यप्राधान्ये विवक्षिते हि सादृश्यमिति भावप्रत्ययेन युक्तो निर्देशः स्यात्। "सकिखि" इति। पूर्ववद् ह्यस्वः। ननु च सम्पत्तिः समृद्धिरेव, तत्कथं पृथगुच्यत इत्यत आह-- "सम्पत्तिरनुरूपम्" इत्यादि। "सब्राहृवाभ्रवाणाम्" इति। तेषामनुरूप आत्मभाव इत्यर्थः। "अधिकार्थवचनेन " इति। तृणानामभ्यवहारोऽधिकार्यस्तद्वचनेन। न किञ्चिदित्यादिना वाक्येनाधिकार्थतां दर्शयति। यो हि तृणान्यभ्यवहरति स कथमन्यदभ्यवहाय्र्य परित्यज्यति ! ननु चान्तशब्दः परिसमाप्तौ वत्र्तते, तत्र च साकल्यमस्त्येव तत्कथमन्तवचनं साकल्यात्पृथगुच्यत इत्यत आह-- "{अन्तः-- काशिका} अन्तशब्दः"इत्यादि। यावतोऽध्ययनस्य परिग्रहः-- एतावन्मयाऽध्येतव्यमिति-- तदपेक्षया या समाप्तिः सोऽन्तः, स चासाकल्येऽप्यध्ययनस्य भवतीति साकल्यात् पृथगुच्यते। "साग्न्यधीते" इति। अग्निपर्यन्तमधीत इत्यर्थः। अग्नर्थो ग्रन्थस्तादथ्र्यादग्निशब्देनोच्यते। यावतोऽध्ययनस्य परिग्रहस्तस्याग्निरन्तः; न तु ततः परेणाध्ययनमेव नास्तीति। तत्तु नाधीयत इत्यसाकल्यमत्रेत्याह-- "इयम्" इत्यादि। सुबोधम्॥
बाल-मनोरमा
सह सुपा ६४१, २।१।४

सह सुपा। "सुबामन्त्रिते" इत्यतः "सु"बित्यनुवर्तते। सुबन्तं सुबन्तेन सहोच्चारितं समाससंज्ञं भवतीति फलति। एवं सति "पर्यभूषय"दित्यादौ सुबन्तस्य तिङन्तेन समासो न स्यात्। तत्राह--सहेति योगो विभज्यत इति। समाससंज्ञायां अन्वर्थत्वादेकस्याऽप्रसङ्गात्सुपेत्येतावतैव सहेति सिद्धे तद्ग्रहणं योगविभागार्थमिति भावः। "सहे"त्यत्र "सुबामन्त्रिते" इत्यतः सुबित्यनुवर्तते। प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम्। "समर्थः पदविधिः" इत्यतः समर्थग्रहणमनुवृत्तं तृतीयया विपरिणम्यते। तदाह--सुबन्तमित्यादिना। समस्यत इति। एकीक्रियते प्रयोक्तृभिरित्यर्थः। समाससंज्ञां लभत इति यावत्। केचित्तु सुबन्तं कर्तृ समर्थेन समस्यते, एकीभवतीत्यर्थः। कर्तरि लट्। "उपसर्गादस्यत्यूह्रो"रित्यात्मनेपदम्। समासशब्दोऽपि कर्तरि बाहुलकाद्घञन्तएव, कर्मणि घञन्तो वा। तथा सति समस्यत इति कर्तरि तिङन्तं फलितार्थकथनपरमित्याहुः। ननु "घटो भवती"त्यत्र समासे घट-भवतीत्यपि लोके प्रयोगः स्यादित्यत आह--योगविभागस्येति। कतिपयेति। कतिपयानि तिङन्तानि उत्तरपदानि यस्येति विग्रहः।पर्यभूषयदिति। समासान्तोदात्तत्वे शेषनिघात इति "कुगति" इति सूत्र#ए कैयटः। "देवो देवान् क्रतुना पर्यभूषय"दित्यत्र तु स्वरव्यत्ययो बोध्यः। अनुव्यचलदिति। "अचल"दित्यनेन वेः पूर्वं समासे सति तेन अनोः समासः। नत्वनुव्योर्युगपत्समासः, सुबित्येकत्वस्य विवक्षित्वात्। अत एव "महिष्या अजायाश्च क्षीर"मित्यत्र क्षीरशब्देन सुबन्तयोर्न समास इति कैयटः। सुपा। "सुबामन्त्रिते" इत्यतः सुबित्यनुवर्तते। "समास" इत्यधिकृतम्। तदाह--सुप्सुपेति। सुबन्तं सुबन्तेनेत्यर्थः। ततश्च पूर्वं भूत इति विग्रहे समाससंज्ञा स्थिता। समासत्वात्प्रातिपदिकसंज्ञेति। "कृत्तद्धितसमासाश्च इत्यनेने"ति शेषः।

तत्त्व-बोधिनी
सह सुपा ५६९, २।१।४

योगो विभज्यत इति। "सुबामन्त्रितो---" इत्यतः सुबित्यनुवर्तते, तदाह---सुबन्तमिति। समस्यत इति। सपूर्वादस्यतेः कर्णि तङ्। आचार्येणेति शेषः। समर्थेनेति तु सहयोगे तृतीया। समसनक्रियां प्रति सुबन्तं कर्म, न तु कर्तृ। यद्यपि सुबन्तस्य कर्तृत्वाभ्युपगमेऽपि "उपसर्गादस्यत्यूह्योः" इति वार्तिकेन समस्यत इत्यत्रात्मनेपदं लभ्यते, तथापि समास इति व्याख्येयग्रन्थे कर्तरि घञ् दुर्लभः। बाहुलकं तु अगतिकगतिरिति कर्मत्वाभ्युपगम एव ज्यायान्। स चेति। एतदपि योगविभागस्येष्टसिद्ध्यर्थत्वादेव लभ्ते। छन्दस्येवेति। यदि लोकेऽपि स्यात्तर्हि यत्प्रकुरुते इत्यादौ स्वाद्युत्पत्तिः स्यात्। लिङ्गसर्वनामनपुंसकतामभ्युपेत्य "स्वमोर्नपुंसकात्" इति लुकि कृतेऽपि "ह्यस्वो नपुंसके---"इति ह्यस्वः स्यादित्यादि दूषणं "कर्मणा यमभिप्रैती"ति सूत्रेऽस्माभिरुद्भावितम्। अनुव्यचलदिति। सुबित्येकत्वस्य विवक्षितत्वात्पर्यायेण समासो बोध्यः। समासान्तोदात्तत्वे शेषनिघात इति "कुगति---" इति सूत्रे कैयटः।