पूर्वम्: २।१।१३
अनन्तरम्: २।१।१५
 
प्रथमावृत्तिः

सूत्रम्॥ अनुर्यत्समया॥ २।१।१४

पदच्छेदः॥ अनुः १।१ १५ यत्समया लक्षणेन ३।१ १३ विभाषा १।१ ११ अव्ययीभावः १।१ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
अनुर् यत्समया २।१।१५

समया समीपम्। अनुर्यस्य समीपवाची तेन लक्षणभूतेन सह विभाषा समस्यते, अव्ययीभावश्च समासो भवति। अनुवनमशनिर्गतः। अनुः इति किम्? वनं समया। यत्समया इति किम्? वृक्षमनु विद्योतते विद्युत्। अव्ययं विभक्तिसमीप २।१।६ इत्येव सिद्धे पुनर्वचनम् विभाषार्थम्।
बाल-मनोरमा
अनुर्यत्समया ६६१, २।१।१४

अनुर्यत्समया। लक्षणेनेत्यनुवत्र्तते। "य"दिति समयायोगे "अभितःपरितः" इति द्वितीयान्तम्। सामान्ये नपुंसकम्। तदाह--पदार्थमिति। अनुवनमिति। अत्र वनशब्दः वनसमीपदेशे लाक्षणिकः। वनसमीपस्य लक्षणत्वं वस्तुसदेव निमित्तम्। तदाह--वनस्य समीपं गत इत्यर्थ इति। वस्तुतो लक्षणीभूतस्य वनस्य समीपंगत इति यावत्। "अव्ययं विभक्ती"त्यादिना सिद्धे विभाषार्थमिदं सूत्रम्। ततश्च "वनस्यानु" इति लौकिकविग्रहवाक्यमुदाहार्यम्। नात्र कर्मप्रवचनीयसंज्ञा शङ्क्या, वस्तुसत एवात्र लक्षणत्वस्य निमित्तत्वाश्रयणात्। लक्षणत्वस्य ज्ञातस्य निमित्तत्वे तु "वनमनु" इत्येववाक्यमुदाहार्यम्।

तत्त्व-बोधिनी
अनुर्यत्समया ५८५, २।१।१४

अनुर्यत्,। यदिसि समयायोगे द्वितीयेति ध्वनयति-यं पदार्थमिति। यस्य पदार्थस्य समीपमित्यर्थः। लक्षणेनेत्यनुवर्तत इत्याह--लक्षणभूतेनेति। चिह्नवाचिनेत्यर्थः। "अव्यय विभक्ती" त्यनेन सिद्धे विभाषार्थं सूत्रम्। तेन पक्षे "वनस्यानु"इत्युदाहार्यमिति मनोरमायां स्थितम्। अत्र वदन्ति--वनस्येति षष्ठीह दुर्लभा, कर्मप्रवचनीययुक्ते द्वितीयाया दुर्वारत्वात्, तत्सामथ्र्यात्समया लङ्कामितिवत्समासबाधे प्रसक्ते अस्य विध्यर्थत्वात्। न चायमनुः सामीप्यमात्रद्योतको, न लक्ष्यलक्षमभावस्येति वाच्यम्। लक्षणेनेत्यवृत्तिवैयथ्र्यात्। न चैवमपि लक्षणमात्रद्योतकत्वं नास्तीति वाच्यम्। "लक्षणेत्थ"मित्यत्र मात्रपदाऽभावात्। अग्निमभि, अ()ग्न प्रतीति पूर्वसूत्रस्थोदाहरणा[प्रत्युदाहरण]वाक्यविरोधाच्च। अतोऽत्र पक्षे "वनमनु"इत्युदाहार्यम्। "वनस्य समीपं गत" इति मूलस्थं विवरणवाक्यं तु "लक्षण भूतस्य वनस्य समीपं गत" इति व्याख्येयमिति। अन्विति किम्()। ग्रामं समया। यत्समयेति किम्()। वृक्षमनुविद्योतते विद्युत्। लक्षणेन किम्()। अनुव[च]नम्। उपकृष्णमितिवदत्र नित्यमव्ययीभावः।