प्रथमावृत्तिः
सूत्रम्॥
अन्यपदार्थे च संज्ञायाम्॥ २।१।२०
पदच्छेदः॥
अन्यपदार्थे ७।१ च ० संज्ञायाम् ७।१ नदीभिः ३।१ १९ विभाषा १।१ ११ अव्ययीभावः १।१ ५ सह ० ४ सुपा ३।१ ४ समासः १।१ ३ सुप् १।१ २
काशिका-वृत्तिः
अन्यपदर्थे च संज्ञायाम् २।१।२१
सङ्ख्या इति निवृत्तम्। नदीग्रहनम् अनुवर्तते। नदीभिः सह सुबन्तम् अन्यपदार्थे वर्तमानं संज्ञायां विष्ये समस्यते, अव्ययीभावश्च समासो भवति। विभाषा ऽधिकारे ऽपि नित्यसमास एव अयम्। न हि वाक्येन संज्ञा गम्यते। उन्मत्तगङ्गम् नाम देशः। लोहितगङ्गम्। शनैर्गङ्गम्। कृष्णगङ्गम्। अन्यपदार्थे इति किम्? कृष्णवेण्णा। संज्ञायाम् इति किम्? शीघ्रगङ्गो देशः।
न्यासः
अन्यपदार्थे च संज्ञायाम्। , २।१।२०
"कृष्णवेण्णा" इति। कृष्णा चासौ वेण्णा चेति विशेषणसमासः। "शीघ्रगङ्गः" इति। बहुव्रीहिः।