पूर्वम्: २।१।२८
अनन्तरम्: २।१।३०
 
प्रथमावृत्तिः

सूत्रम्॥ तृतीया तत्कृतार्थेन गुणवचनेन॥ २।१।२९

पदच्छेदः॥ तृतीया १।१ ३४ तत्कृत अर्थेन ३।१ गुणवचनेन ३।१ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
तृतीया तत्कृतार्थेन गुणवचनेन २।१।३०

सुप् सुपा इति वर्तते। तस्य विशेषणम् एतत्। तृतीयान्तम् गुणवचनेन अर्थशब्देन च सह संस्यते, तत्पुरुषश्च समासो भवति। कीदृशेन गुणवचनेन? तत्कृतेन तदर्थकृतेन, तृतीयान्तार्थकृतेन इति यावत्। शङ्कुलया खण्डः शङ्कुलाखण्डः। किरिणा काणः किरिकाणः। अर्थशब्देन धान्येन अर्थः धान्यार्थः। तत्कृतेन इति इम्? अक्ष्णा काणः। गुणवचनेन इति किम्? गोभिर्वपावान्।
लघु-सिद्धान्त-कौमुदी
तृतीया तत्कृतार्थेन गुणवचनेन ९२८, २।१।२९

तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थेन च सह वा प्राग्वत्। शङ्कुलया खण्डः। धान्येनार्थो धान्यार्थः। तत्कृतेति किम्? अक्ष्णा काणः॥
न्यासः
तृतीया तत्कृतार्थेन गुणवचनेन। , २।१।२९

"तत्कृत" इति। एतदर्थशब्देनासमस्तमेव, अविभक्तिञ्च। तृतीयाविभक्तेः "सुपां सुलुक्" ७।१।३९ इति लुप्तत्वात्। एतच्च गुणवचनेनेत्यस्य समानाधिकरणं विशेषणम्। अत एव कीदृशेनेति पृष्टः सन्नाह-- "तत्कृतेन" इति। तदिति सर्वनाम्ना प्रकृतस्य तृतीयान्तस्य प्रत्यवमर्श इति तृतीयान्तकृतेनेति दर्शयति। तृतीयान्तेन गुणवचनस्य करणत्वं न सम्भवतीत्यतः सामथ्र्यात् तदर्थकृतेनेति विज्ञायत इत्यत आह-- "तृतीयान्तार्थकृतेनेति यावत्" इति। अर्थद्वारेण चेदं गुणवचनस्य विशेषणं वेदितव्यम्- तृतीयान्तार्थकृतो गुणवचनार्थ इति। सोऽपि तथोच्यते। एतदुक्तं भवति-- तृतीयान्तार्थकृतेन गुणवचनार्थेनेति। अर्थ एव हि तृतीयान्तार्थेन क्रियते, न च गुणवचनशब्दः। गुणमुक्तवान् = गुणवचनः। " कृत्यल्युटो बहुलम्" ३।३।१३ इति कत्र्तरि ल्युट्। अथ वा-- करणे, गुण उक्तोऽनेनेति गुणवचनः। यश्च पूर्व गुणे वर्तित्वा पश्चात् तद्वति द्रव्ये वत्र्तते स गुणवचनः। गुणेनेत्युच्यमाने घृतेन पाटवमित्यादौ प्रसङ्गः, अतस्तन्निवृत्त्यर्थं वचनग्रहणम्। त()स्मश्च सति गुणे वर्तित्वा तद्वति द्रव्ये यो वत्र्तते तेनैव समासो भवति, न तु गुण एव यो वत्र्तते तेन सह। न च पाटवादयः शब्दाः पूर्वं गुणे वर्तित्वा पश्चात् तद्वति द्रव्ये वत्र्तन्ते, अपि तु गुण एव। वचनग्रहणात् तैः सह समासो न भवति। "शङ्कुलाखण्डः, गिरिकाणः" इति। खण्डकाणशब्दावत्र खण्डनेन निमीलने च क्रियारूपापन्ने गुणे वर्तित्वा पश्चान्मतुब्लोपादभेदोपचाराद्वा तद्वति द्रव्ये वर्तते इति गुणवचनौ भवतः। "धान्यार्थः" इति। भवुत्ययमर्थशब्दस्तत्कृतः, तथा हि स गोभिर्वपावान् कृतः। न तु वपावानित्ययं शब्दो गुणमुक्तवामिति न गुणवचनः, ततस्तेन सह समासो न भवति॥
बाल-मनोरमा
तृतीया तत्कृतार्थेन गुणवचनेन ६८३, २।१।२९

तृतीया तत्कृत। तत्कृतेत्यस्याऽव्यवहितमप्यर्थेनेति परित्यज्य गुणवचनेनेत्यत्रान्वयं वक्तुमाह--तत्कृतेति लुप्ततृतीयाकमिति। तत्र "तृतीये"त्यनेन तृतीयान्तं विवक्षितम्। "तत्कृते"ति लुप्ततृतीयाकं भिन्नं पदम्। तच्छब्देन तृतीयान्तपरामर्शिना तदर्थो लक्ष्यते। तत्कृतेत्येतच्च गुणद्वारा गुणवचनेऽन्वेति। ततश्च "तृतीयान्तं तृतीयान्तार्थकृतो यो गुणस्तद्वाचिना समस्यते" "अर्थशब्देन च तृतीयान्तं समस्येति" इति वाक्यद्वयं संपद्यत इति भाष्ये स्थितत्। तदाह--तृतीयान्तमित्यादिना। "गुणे"त्यस्य तत्कृतत्वसापेक्षत्वेऽपि सौत्रः समासः। इदं सूत्रं कृतशब्दार्थद्वारक एव सामर्थ्ये प्रवर्तते न तु साक्षात्परस्परान्वये इति भाष्ये स्पष्टम्। नच "घृतेन पाटव"मित्यत्रातिप्रसङ्गः शङ्क्यः। गुणेनेति सिद्धे वचनग्रहणाद्गुणोपसर्जनद्रव्यवाचिशब्दो गृह्रत" इति व्याख्यानात्। शङ्कुलाखण्ड इति। "देवदत्त" इति शेषः। "शह्कुलाखण्डो देवदत्तः" इत्येव भाष्ये उदाह्मतम्। "खडि भेदने"भावे घञ्। खण्डनं खण्डः। मत्वर्थीयोऽर्वाअद्यच्। शङ्कुलयेति करणे तृतीया। शङ्कुलाकृतखण्डनक्रियावानित्यर्थः। यत्त्वाकडारादिति सूत्रभाष्ये "समासकृदन्ततद्धितान्ताव्ययसर्वनामजातिसंख्यासंज्ञाशब्दभिन्नमर्थवच्छब्दस्वरूपं गुणवचनसंज्ञं भवती"त्युक्त, तदेतत्प्रकृते न प्रवर्तते। "गुणमुक्तवता गुणवचनेने"ति भाष्येण यौगिकत्वावगमात्। अतोऽत्र गुणशब्देन धर्ममात्रं विवक्षितम्। एवञ्च खण्डशब्दस्य क्रियावचनत्वेऽपि न क्षतिः। तत्त्वबोधिन्यां तदु "वोतो गुणवचना"दित्यत्र "सत्त्वे निविशतेऽपैती"त्यादिलक्षणलक्षितो गुणोऽत्र गृह्रत इत्युक्तम्। तद्व्याख्यावसरे क्रियाया गुणत्वं नास्तीत्यप्युक्तम्। इह तु खण्डशब्दस्य क्रियावाचिनोऽपि गुणवचनत्वमास्थितम्। तत्तु प्रकृतसूत्रस्थभाष्यविरुद्धत्वात्पूर्वोत्तरविरुद्धत्वाच्चोपेक्ष्यम्। अर्थशब्देन समासमुदाहरति--धान्येनेति। अर्थशब्दो धनपरः। हेतौ तृतीया। धान्यहेतुकं धनमित्यर्थः। अत्र धनस्य धान्यहेतुकत्वेऽपि तत्करणकत्वाऽभावदप्राप्तौ पृथगुक्तिः। "धान्येनेति प्रकृत्यादित्वात्तृतीया, धान्याऽभिन्नं धनमित्यर्थ" इति केचित्। ननु "शङ्कुलया खण्ड" इत्यत्र "कर्तृकरणे कृता बहुल"मित्येव सिद्धे तत्कृतेति व्यर्थमिति पृच्छति-तत्कृतेति किमिति। "गुणवचनेन चेत्तत्कृतेनैवे"ति नियमार्थं तत्कृतग्रहणमित्यभिप्रेत्य प्रत्युदाहरति--अक्ष्णा काण इति। नह्रक्ष्णा काणत्वं कृतं, किन्तु रोगादिनेति भावः। गुणवचनेनेति किम्?। गोभिर्वपावान्। गोसम्बन्धिक्षीरादिभोजनेन देवदत्तस्य वपावत्त्वमित्यस्ति तत्कृतत्वम्। किन्तु न गुणवचनोऽसौ।

तत्त्व-बोधिनी
तृतीया तत्कृतार्थेन गुणवचनेन ६०५, २।१।२९

तृतीया तत्कृत। लुप्तेति। सौत्रत्वादिति भावः। तच्छब्देन तृतीयान्तपरामर्शिना तदर्थो लक्ष्यते। तदर्थकृतत्वं च गुणवाचकस्यार्थद्वारा विशेषणं--तृतीयान्तार्थकृतो यो गुणस्तद्वचनेनेति। तदेतव्द्याचष्टे--तृतीयान्तार्थेत्यादिनाष। अर्थशब्देन चेति। सोऽपि स्वतन्त्रं निमित्तमिति भावः। नन्वर्थेन समासाऽसंभवात्तद्वाची शब्दो ग्रहीष्यते किमत्र वचनग्रहणेन()। अत्राहुः--गुणमुत्तवान्गुणवचनः। "कृत्यल्युटो बहुल" मिति भूते कर्तरि ल्युट्। गुणमुक्त्वा यो द्रव्यमुक्तवान्स गुणवचनस्तेन घृतेन पाटवमिति गुणमात्रनिष्टेन शब्देन समासो न भवति। गुणश्चात्र "सत्त्वे निविशतेऽपैति" इत्यादिलक्षतो गृह्रते न तु प्रवृत्तिनिमित्तं घटत्वादिः, त।]तस्य तत्त्वाऽसंभवादिति। शङ्कुलया खण्ड इति। करणेऽत्र तृतीया। "खडि भेदने" इत्यस्माद्भावे घञि व्युत्पादितः खण्डश्बधः क्रियारुपापन्ने गुणे वतित्वा पश्चान्मत्वर्थलक्षणया तद्वति द्रव्ये वर्तत इति गुणवचनो भवति। धान्येनेति। करणे तृतीया। अथ्र्यते इत्यर्थः--प्रयोजनम्। कर्मणि घञ्। अर्थनमर्थः--अभिलाषो वा। भावे घञ्। अर्थशब्दस्य रूढत्वे तु धान्येनेति हेतौ तृतीया। "कर्तृकरणे कृता---"इति सिद्धमिति प्रश्नः। इतरो "गुणवचनेन चेत्तत्कृतेनैवे"ति नियमार्थमिदमित्याशयेन प्रत्युदाहरति--अक्ष्णेति। न ह्रक्ष्णा काणत्वं कृतं किंतु कर्मादिनैवेति भावः। तृतीया त्विह "येनाङ्गविकारः" इत्यनेन। काण इति। "कण निमीलने"इत्यस्माद्धञ्। गुमवचनत्वं कृक्तरीत्मा खण्डशब्दस्येवास्यापि बोध्यम्। गुणवचनेनेति किम्()। गोभिर्वपावान्। गोसंबन्धिदध्यादिभोजनेन देवदत्तस्य वपावत्त्वमित्यस्ति तत्कृतत्वं, न त्वसौ गुणवचनः।