पूर्वम्: २।१।३०
अनन्तरम्: २।१।३२
 
प्रथमावृत्तिः

सूत्रम्॥ कर्तृकरणे कृता बहुलम्॥ २।१।३१

पदच्छेदः॥ कर्तृकरणे ७।१ ३२ कृता ३।१ बहुलम् १।१ तृतीया १।१ २९ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
कर्तृकर्णे दृता बहुलम् २।१।३२

तृतीया इति वर्तते। कर्तरि करणे च या तृतीया तदन्तं कृदन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति। सर्वोपाधिव्यभिचारार्थं बहुलग्रहनम्। कर्तरि अहिना हतः अहिहतः। करणे नखैर्निर्भिन्नः नखनिर्भिन्नः। परशुना छिन्नः। कर्तृकरणे इति किम्? भिक्षाभिरुषितः। बहुलग्रहनम् किम्? दात्रेण लूनवान्, परशुना छिन्नवान्, इह समासो न भवति। पादहारकः, गले चोपकः इति च भवति।
लघु-सिद्धान्त-कौमुदी
कर्तृकरणे कृता बहुलम् ९२९, २।१।३१

कर्तरि करणे च तृतीया कृदन्तेन बहुलं प्राग्वत्। हरिणा त्रातो हरित्रातः। नखैर्भिन्नः नखभिन्नः। (प।) कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्। नखनिर्भिन्नः॥
न्यासः
कर्त्तृकरणे कृता बहुलम्। , २।१।३१

"भिक्षाभिरुषितःट इति। हेतौ २।३।२३ तृतीया विहिता। वसेर्वच्यादिसूत्रेण ६।१।१५ सम्प्रसारणम्, "शासिवसिघसीनाञ्च" ८।३।६० इति षत्वम्, "वसतिक्षुधोः" (७।२।क५२) इतीट्। "दात्रेण धान्यं लूनवान्" इति। "ल्वादिभ्यश्च" ८।२।४४ इति निष्ठानतवम्। "पादहारकः" इति। पादाभ्यां ह्यियत इति पादाहारकः। पादाभ्यामिति पञ्चमी चतुर्थी वा। हारक इति "कृत्यल्युटो बहुलम्" ३।३।११३ इति कर्मणि ण्वुल्। "गलेचोपकः" इति। गले चुप्यत इति। "चुप मन्दायां गतौ" (धा।पा। ४०३) इत्यस्मात् पूर्ववदेव ण्वुल्। "तत्पुरुषे कृति बहुलम्" ६।३।१३ इत्युलक्॥
बाल-मनोरमा
कर्तृकरणे कृताबहुलम् ६८५, २।१।३१

कर्तृकरणे। कर्ता च करणं चेति समाहाद्वन्द्वात्सप्तमी। तृतीयेत्यनुवर्तते। प्रत्ययग्रहणपरिभाषया तदन्तग्रहणं। कृतेत्यपि तथैव। तदाहकर्तरि करणे चेति। प्राग्वदिति। समस्यते स तत्पुरुष इत्यर्थः। इह कृद्ग्रहणेन क्तप्रत्यय एव गृह्रते, बहुलग्रहणादिति भाष्यम्। अतः क्तान्तमेवोदाहरति--हरिणा त्रात इति। पालित इत्यर्थः। ननु कृदन्तस्य समर्थविशेषणत्वेऽपि समासप्रत्ययविधौ तदन्तविधिप्रतिषेधान्नखनिर्भिन्न इत्यत्र न स्यादित्यत आह--कृद्ग्रहणे इति। परिभाषेयम् "गतिरनन्तरः" इति सूत्रे भाष्ये स्थिता। पचतितरामिति। अतिशयेन पचतीत्यर्थः। "अति शायने" "तिङश्चे"त्यनुवृत्तौ "द्विवचनविभज्ये"ति तरप्। "किमेत्तिङव्ययघादाम्बद्रव्यप्रकर्षे" इत्याम्। अत्र तद्धितान्तेन समासनिवृत्त्यर्थं कृद्ग्रहणमिति भावः।

तत्त्व-बोधिनी
कर्तृकरणे कृता बहुलम् ६०७, २।१।३१

कर्तृकरणे। समाहारद्वन्द्वात्सप्तमीत्याशयेनाह-कर्तरि करणे चेति। अत्र केचित्--कर्तृकरणे इति प्रथमाद्विवचनं तृतीयया विशेष्यते, विशेषणेन च तदन्तविधिस्तेन तृतीयान्ते कर्तृकरणे कृदन्तेन समस्येते इति व्याख्यान्तरमित्याहुः। सर्वोपाधीति। कर्तरि करणे च या तृतीया तदन्तमपि बहुलग्रहणात् क्वचिन्न समस्यते। क्वचित्तु विभक्त्यन्तरमपि समस्यते, बहुलग्रहणादेवेत्यर्थः। समासाऽभावं प्रदर्शयति--दात्रेण लूनवानित्यादाविति। आदिशब्देन दात्रेण छिन्नवान्, हस्तेन कुर्वन्नित्यादि ग्राह्रम्। विभक्त्यत्यन्तरमपि समस्यत इत्यस्योदाहरणं तु--पादहारकः गलेचोपकः। ह्यियत इति हारकः। बाहुलकात्कर्मणि ण्वुल्। पादाभ्यामित्यपादानपञ्चम्यन्तस्य समासः। "चुप मन्दायां गतौ"। हेतुमण्णिजन्तात्कर्मणि ण्वुल्। "अमूर्धमस्तका"दित्यलुक्। कर्तृ[त्व]करणत्वयोः क्रियानिरूपितत्वेन क्रियासमर्पककृदन्तेनैव भवेत्समासः, "सुपा"इत्यधिकारात्तिङन्तेन तु नातिप्रसङ्ग इत्याशयेन पृच्छति-कृता किमिति। इतरस्तु तिङन्तप्रकृतिकतद्धि तान्तप्रकृतिकसुबन्तेनाऽसमासस्तत्फलिमित्याशयेन प्रत्युदाहरति--काष्ठैरिति।