पूर्वम्: २।१।२२
अनन्तरम्: २।१।२४
 
प्रथमावृत्तिः

सूत्रम्॥ द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः॥ २।१।२३

पदच्छेदः॥ द्वितीया १।१ २८ श्रितातीत-पतित-गतात्यस्त-प्राप्तापन्नैः ३।३ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
द्विदीया श्रितातीतपतितगतात्यस्तप्राप्ताऽपनैः २।१।२४

सुप् स्पा इति वर्तते। तस्य विशेषणम् एतद् द्वितीया। द्वितीयान्तं सुबन्तम् श्रितादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति। कष्टं श्रितः कष्टश्रितः। नरकश्रितः। अतीत कान्तारम् अतीतः कान्तारातितः। पतित नरकम् पतितः नरकपतितः। गत ग्रामम् गतः ग्रामगतः। अत्यस्त तरङ्गनत्यस्तः तरङ्गात्यस्तः। तुहिनात्यस्तः। प्राप्त सुखं प्राप्तः सुखप्राप्तः। आपन्न सुखम् आपन्नः सुखापन्नः। दुःखापन्नः। श्रित्तादिषु गमिगाम्यादिनाम् उपसङ्ख्यनम्। ग्रामं गमी ग्रामगमी। ग्रामम् गामी ग्रामागामी। ओद्नं बुभुक्षुः ओदनबुभुक्षुः।
लघु-सिद्धान्त-कौमुदी
द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः ९२७, २।१।२३

द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह वा समस्यते स च तत्पुरुषः। कृष्णं श्रितः कृष्णश्रित इत्यादि॥
न्यासः
द्वितीया श्रितातीतपतितगत्यास्तप्राप्तापन्नैः। , २।१।२३

"श्रितादिषु" इत्यादि। श्रितादिषु समासकारणत्वेनोपात्तेषु सत्सु गमिगाम्यादीनां समासस्योपसंख्यानं प्रतिपादनं कत्र्तव्यमित्यर्थः। एतैरपि समासः प्रतिपादयितव्यः। तत्रेदं प्रतिपादनम्-"द्वितीया" इति योगविभागः क्रियते, तेन गमिगामिप्रभृतिभिरपि समासो भवति। न चैवं श्रितादिग्रहणनर्थकम्; पूर्वविषयस्यासर्वविषयत्वज्ञापनार्थत्वात्। आदिशब्दः प्रकारवाची। गमिगामिशब्दयोरेकतरोपादानेनैव सिद्धे द्वयोरुपादानमुणादीनामन्येषाञ्च यथा स्यात्; अन्यथा यदि गमिग्रहणमेव क्रियेत तदाऽ‌ऽदिशब्दस्य प्रकारवाचित्वात् गमिप्रकाराणामुणादीनामेव ग्रहणं स्यात्। अथ गामिग्रहणमेव क्रियेत, तदा गामिप्रकाराणामुणादीनां स्यात्। तस्माद्द्वयोरपि ग्रहणं कत्र्तव्यम्। "ग्रामं गमी"इति। "गमेरिनि" (द।उ।६।५७) इतीनिप्रत्ययः। स च भविष्यत्काले; "भविष्यति गम्यादयः" ३।३।३ इति वचनात्। "ग्रामं गमी" इति। "आवश्यकाधमण्र्ययोः" ३।३।१७० इत्यावश्यमे णिनिः। "अकेनोर्भविषायदाधर्मण्र्ययोः" २।३।७० इति षष्ठीप्रतिषेधः। "ओदनं बुभुक्षुः" इति। भुजेः सन्नन्तात् "सनाशंसभिक्ष उः" ३।२।१६८ इत्युप्रत्ययः। क"न लोक " २।३।६९इत्यादिना षष्ठीप्रतिषेधः। कष्टं श्रित इत्यादावप्यनेनैव षष्ठीप्रतिषेधः।
बाल-मनोरमा
द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः ६७८, २।१।२३

द्वितीया श्रिता। द्वितीयान्तमिति। प्रत्ययग्रहणपरिभाषालभ्यस्तदन्तविधिः। ननु सुपेत्यनुवृत्तं बहुवचनान्ततया विपरिणतं प्रत्ययग्रहणपरिभाषया सुबन्तपरम्। प्रत्ययग्रहणपरिभाषालभ्यस्तदन्तविधिः। ननु सुपेत्यनुवृत्तं बहुवचनान्ततया विपरिणतं प्रत्ययग्रहणपरिभाषया सुबन्तपरम्। प्रत्ययग्रहणपरिभाषया च प्रत्ययग्रहणे प्रकृतिप्रत्ययसमुदायग्रहणं लभ्यते। तथा च "सुबन्तै"रित्यस्य सुप्-तत्प्रकृतिसमुदायैरित्यर्थः पर्यवस्यति। श्रितादिशब्दास्तु क्तप्रत्ययान्ता एव न तु सुबन्ताः, तेषां सुब्घटितसमुदायात्मकत्वाऽभावादित्यत आह-श्रितादिप्रकृतिकैः सुबन्तैरिति। श्रितादिशब्दाः श्रितादिप्रकृतिकेषु लाक्षणिका इति भावः। "गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्ते"रित्यस्य तु नायं विषयः, "कर्तृकरणे कृता" "साधनं कृते"तिवत्कारकविशेषानुपादानादिति प्रौढमनोरमायां स्थितम्। न च श्रितादीनां समर्थविशेषणत्वात्तदन्तविधौ श्रितान्तादिशब्दप्रकृतिकैरित्यर्थलाभा"त्कृष्णं परमश्रित" इत्यत्रापि समासः स्यादिति वाच्यं, समासप्रत्ययविधौ तदन्तविधिप्रतिषेधात्। कृष्णं श्रित इति। श्रयतेर्गतिविशेषार्थकत्वाद्गत्यर्थाकर्मकेति कर्तरि क्तः। "न लोके"ति कृद्योगषष्ठीनिषेधात्कर्मणि द्वितीया। समासविधौ द्वितीयेति प्रथमानिर्दिष्टत्वात्कृष्णशब्दस्य पूर्वनिपातः दुःखातीत इति। "दुःखमतीत इति विग्रहः। "इण् गतौ"। अतिपूर्वात् कर्तरि क्तः। इत्यादीति। गर्तं पतितो गर्तपतितः। "पल्लृ गतौ"। कर्तरि क्तः। तनिपतिदरिद्रातिभ्यः सनो वेट्कत्वेन "यस्य विभाषे"तीण्निषेधप्राप्तावप्यत एव निपातनादिट्। ग्रामं गतो ग्रामगतः। ग्राममत्यस्तः-अतिक्रान्तो-ग्रामात्यस्तः। ग्रामं प्राप्तः ग्रामप्राप्ताः। संशयमापन्नः संशयापन्नः।

गम्यादीनामिति। गम्यादिप्रकृतिकैः सुबन्तैरपि द्वितीयान्तं समस्यते स तत्पुरुष इति यावत्। ग्रामं गमीति। "गमेरिनिः" रित्यौणादिक इनिप्रत्ययः, स च "भविष्यति गम्यादयः" इति वचनाद्भविष्यति काले भवति। "अकेनो"रिति कृद्योगषष्ठीनिषेधात्कर्मणि द्वितीया। ग्रामं गमिष्यन्नित्यर्थः। अन्नं बुभुक्षुरिति। भुजेः सन्। "सनाशंसभिक्ष उः"। "न लोके"ति कृद्योगषष्ठीनिषेधात्कर्मणि द्वितीया। बुभुक्षुशब्दो गम्यादपठित इति भावः। स्वयं क्तेन। क्तप्रत्ययान्तप्रकृतिकसुबन्तेन स्वयमित्यव्ययं समस्यते स तत्पुरुष इत्यर्थः। अयोग्यत्वादिति। "स्वय"मित्यव्ययस्य आत्मनेत्यर्थकस्य कर्तृशक्तिप्रधानतया तृतीयाया एवोचितत्वादिति भावः। "स्वय"मित्यव्ययस्य समासेऽसमासेऽपि को भेदः?। असमासेऽपि "अव्ययादाप्सुपः" इति लुकः प्रवृत्तेरित्यत आह--स्वयंकृतस्यापत्यमिति। स्वयंकृतस्यापत्यमित्यर्थे "अत इ" ञिति स्वयंकृतशब्दात्षष्ठ()न्तत्वात्तत इञि ऋकारस्यादिवृद्धौ रपरत्वे स्वयंकार्तिरित्येव स्यादिति भावः। वस्तुतस्तु असामथ्र्यादिह न तद्धितः। स्वयंकृतशब्दस्य समासस्वरः प्रयोजनम्।

तत्त्व-बोधिनी
द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः ५९९, २।१।२३

द्वितीया श्रितातीत। श्रितादीनां गतिवशेषवाचित्वात् "गत्यर्थकर्मके"ति कर्तरि क्तः। "प्रत्ययग्रहणे तदन्तग्रहण"मित्याशयेनाह--द्वितीयान्तमिति। श्रितादिप्रकृतिकैरिति। यद्यपि संबोधने सुबन्तत्वं संभवति तथाप्यन्यत्रापि समासस्येष्टत्वात् श्रितादयस्तद्धटितसमुदाये लाक्षणिक इह गृ-ह्रन्त इति भावः। एवं "खट्वा क्षेपे" "गर्गादिभ्योय" ञित्यादावप्यूह्रम्। न हि खट्वेत्यस्य द्वितीयान्तत्वं, गर्गादीनां षष्ठ()न्तत्वं वा संभवति। स्यादेतत्---द्वितीयान्तस्य श्रितप्रकृतिकसुबन्तेन समासे काष्टश्रितेयो न सिध्येत्। श्रितशब्दाट्टपि ततः सुपि कष्टं श्रिता कषष्टश्रितेति समासे श्रिताशब्दस्यैव टाबन्तत्वात्, ततः "स्त्रीभ्यो ढ"गिति ढकि काष्टश्रैतेय इति स्यात्। "गतिकारकोपपदाना"मिति सुबत्पत्तेः प्राक्कृदन्तेन समासे तु श्रितान्तस्य टाबन्तत्वादिष्टं सिध्यतीति चेत्। मैवम्। प्रधानस्त्रीप्रत्यये तदादिनियमाऽभावेन काष्टश्रितेयस्य निर्बाधत्वात्। न च कदाचित् श्रिताशब्दादपि ढकस्यादिति वाच्यम्। जहत्स्वार्थायां वृत्तौ श्रिताशब्दस्यानर्थकत्वेनाऽपत्ययोगाऽसंभवात्। अजहत्स्वार्थायामपि न दोषः, समुदायावयवसंनिधौ समुदायस्यैव कार्यप्रयोजकत्व#आत्। अन्यथा सुन्दरदुहितुरपत्यं सौन्दरदौहित्र इत्यापत्तेरिति दिक्। कृष्णं श्रित इति। "न लोके"ति षष्ठीनिषेधः। कृष्णश्रित इति। "प्रथमनिर्दिष्ट"मिति द्वितीयान्तस्।य पूर्वनिपातः। यद्यपीह श्रितशब्दोऽपि प्रथमानिर्दिष्टस्तथापि "समासविधायके प्रथमानिर्दिष्टमुपसर्जन"मित्युक्तमिति नास्त्यतिप्रसङ्गः। नन्वेवमव्ययादीनामुपसर्जनसंज्ञार्थमव्ययं विभक्तीत्यादिना समासविधानस्यावश्यकत्वात् "सुप्सुपे"ति समास्याऽनित्यत्वे प्रागुक्ज्ञापकं न संभवत्येव, तथा चाऽव्ययीभावतत्पुरुषादिसमासाऽभावपक्षे "सुप्सुपे"ति समासप्रवृत्त्या "अप विष्णोः""परि विष्णोः" "कृष्णं श्रितः" "राज्ञः पुरुष"इत्यादिविग्रहवाक्यानि न सिध्द्येरन्निचि चेत्। अत्राहुः--पुनः समासविधानं न केवलमुपसर्जनसंज्ञार्थं, तस्याः प्रकारान्तरेणापि सिद्धेः। तथा हि--"प्राक्कडारात्समासः"इत्यनन्तरं "प्रथमानिर्दिष्टमुपसर्जनम्", "एकविभक्ति चापूर्वनिपाते"इति पठित्वा समासाधिकारे प्रथमानिर्दिष्टमिति व्याख्यायामुपसर्जनसंज्ञा सिध्द्यत्येव, "विभक्त्यर्थादिषुत] विद्यमानमव्ययं सुबन्तेन चेत्समस्यते स समासोऽव्ययीभावः स्यात्, द्वितीयान्तं चेत्स समासस्तत्पुरुष"

इत्येवं व्याख्यानादव्ययीभावतत्पुरुषादिसंज्ञापि सिध्यतीति पुनः समासविधानं व्यर्थं सज्ज्ञापयतीति। ननु "अव्ययं विभक्ति--" इत्यादीनां समासविधयकत्वे सिद्धे भवदुक्तमेतत्स्यात्, तत्रैव मानं न पश्याम इति चेत्-अत्र केचित्-उक्तरीत्यैवोपसर्जनसंज्ञायां सिद्धायां "प्रथमानिर्दिष्ट"मिति सूत्रे समासग्रहणं व्यर्थं सत्समासविधायके प्रथमानिर्दिष्टमित्यर्थलाभार्थं। तेनामीषां समासविधायकत्वं सिध्यतीति। अथवा "सुप्सुपे"ति समासस्याऽनित्यत्वे आकरग्रन्थ एव प्रमाणम्, अन्यथा "सिन्नित्यसमासयोः"इति वार्तिके "नित्यग्रहणेम नार्थः, इदमपि सिद्धं भवति वाप्यम()आओ वाप्य()आ" इत्यादिप्रागुक्तभाष्यकैयटग्रन्थस्याऽसामञ्जस्यापत्तेरिति दिक्। ननु कृष्णश्रित इत्यस्य कृष्णकर्मकश्रयणकर्तेति ह्रर्थः, स च कृष्णः श्रितो येनेति कर्मणि क्तान्तेन बहुव्रीहिणापि सुलभ इति किमनेन समासारम्भेण()। मैवम्। बहुव्रीहौ श्रितकृष्म इति निष्ठान्तस्यपूर्वनिपातप्रसङ्गात्। "शेषाद्विभाषे"ति समासान्तः कप्प्रसज्येतेति दिक्। दुःखातीति इति। अतिपूर्वकादिणः कर्तरि क्तः। अवशिष्टान्यप्युदाहरणान्यूह्रानि। कूपपतितः। यद्यपि "तनिपतिदरिद्रतिभ्यः"इति विकल्पितेट्कत्वात् "यस्य विभाषे"तीण्निषेधेन भाव्यं, तथाप्यतएव निपातनादिडित्याहुः। वस्तुतस्तु चुरादावदन्तेषु पठितस्य "पत गतौ वा" इत्यस्याश्रयणेन पतितः सिध्यति, "यस्य विभाषे"त्यत्रैकाच इत्यनुवृत्तेः सर्वसंमतत्वात्। ग्रामगतः। तुहिनात्यस्तः।अत्यसो--व्यतिक्रमः। सोऽपि गतिविशेष एवेति कर्तरि क्तः। आदिकर्मणि क्तो वाऽत्राभ्युपेयः। सुखप्राप्तः। दुःखापन्नः।

गम्यादीनामुपसङ्ख्यानम्। गम्यादीनामिति। गम्यादयश्च प्रयोगतो ज्ञेयाः। ग्रामगमीति। "गमेरिनिः"इत्यौणादिक इनिः। स च "भविष्यति गम्यादयः"इति भविष्यत्काले। "अकेनो"रिति षष्ठीनिषेधात्कर्मणि द्वितीया। अयोग्यत्वादिति। "स्वय" मित्यस्यात्मनेत्यर्थकस्य कत्र्रर्थतया द्वितीयान्तत्वानुपपत्तिरिति भावः।