पूर्वम्: २।१।३९
अनन्तरम्: २।१।४१
 
प्रथमावृत्तिः

सूत्रम्॥ सिद्धशुष्कपक्वबन्धैश्च॥ २।१।४०

पदच्छेदः॥ सिद्धशुष्कपक्वबन्धैः ३।३ सप्तमी १।१ ३९ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
सिद्धशुष्कपक्वबन्धैश् च २।१।४१

सप्तमी इति वर्तते। सिद्ध शुष्क पक्व बन्ध इत्येतैः सह सप्तम्यन्तं समस्यते, तत्पुरुषश्च समासो भवति। साङ्काश्यसिद्धः। काम्पिल्यसिद्धः। शुष्क आतपशुष्कः। छायाशुष्कः। पक्व स्थालीपक्वः। कुम्भीपक्वः। बन्ध चक्रबन्धः। बहुलग्रहणस्य एव अयम् उदाहरणप्रपञ्चः।
न्यासः
सिद्धशुष्कपक्वबन्धैश्च। , २।१।४०

बाल-मनोरमा
सिद्धशुष्कपक्वबन्धैश्च ७०९, २।१।४०

सिद्धशुष्क। "सप्तमी"त्यनुवर्तते। तदाह--एतैः सप्तम्यन्तमिति। साङ्काश्यसिद्ध इति। सङ्खाशेन निर्वृत्तं नगरं साङ्काश्यम्। तत्र सिद्धः=उत्पन्नो ज्ञातो वेत्यर्थः। आतशुष्क इति। आतपे शुष्क इति विग्रहः। स्थालीपक्व इति। स्थाल्यां पक्व इति विग्रहः। "चक्रबन्ध इति। चक्रे बन्ध इति विग्रहः। शौण्डादिगणे एतेषां पाठाऽभावात्पृथगुक्तिः।