पूर्वम्: २।१।४१
अनन्तरम्: २।१।४३
 
प्रथमावृत्तिः

सूत्रम्॥ कृत्यैर्ऋणे॥ २।१।४२

पदच्छेदः॥ कृत्यैः ३।३ ऋणे ७।१ सप्तमी १।१ ३९ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
कृत्यैरृणे २।१।४३

सुप्तमी इति वर्तते। कृत्यप्रत्ययान्तैः सह सप्तम्यन्तं समस्यते, तत्पुरुषश्च समासो भवति ऋणे गम्यमाने। यत्प्रत्ययेन एव इष्यते। मासे देयमृणम् मासदेयम्। संवत्सरदेयम्। व्यहदेयम्। ऋणग्रहणं नियोगोपलक्षणार्थं, तेन इह अपि समासो भवति, पूर्वाह्णे गेयं साम पूर्वाह्णगेयम्। प्रातरध्येयो ऽनुवाकः। ऋणे इति किम्? मासे देया भिक्षा।
न्यासः
कृत्यैरृणे। , २।१।४२

"यप्रत्ययान्तेनैव समास इष्यते" इति। कथं पुनर्यत्प्रत्ययेनैव लभ्यते? अल्पश इत्यनुवृत्तेः, "मासदेयम्" इति। पूर्ववद्यत्, ईत्त्वञ्च। सप्तमी ह्रत्रौपश्लेषिकेऽधिकरणे वेदितव्या। मासे ह्रतीते योऽन्तरो दिवसः स मासं प्रत्युपश्लिष्टो भवति, "यस्य च भावेन भावलक्षमम्" २।३।३७ इत्यनेन वा। मासातिक्रमणभावेन हि ऋणदानभावो लक्ष्यते। अथ ऋण इत्युच्यते, तत्रेदं न सिध्यति-- पूर्वोह्णेगेयं साम, प्रातरध्येयोऽनुवाकः, इत्यत आह-- "ऋणम्" इत्यादि। ऋणं हि नियोगतो निर्यातयितव्यमिति नियोगसहचरितम्। अतः साहचर्यात् तेन नियोगोऽवश्यम्भाव उपलक्ष्यते। एतच्च "कृत्यैः" इति बहुवचनन्रिदेशाल्लिङ्गाद्गम्यते। कथम्? "कृत्यैः" इति बहुवचनमत्र विवक्षितम्, तच्च ऋणग्रहणस्य नियोगोपलक्षणार्थत्वे प्रकृतिभेदेन। भिद्यमाने कृत्ये सति प्रसज्यते, न त्वन्यथा। यत्प्रत्ययस्यैकत्वात् तेनैव समासस्येष्टत्वात्॥
बाल-मनोरमा
कृत्यैरृणे ७११, २।१।४२

कृत्यैरृणे। "सप्तमी"त्यनुवर्तते। कृत्यग्रहणेन प्रत्ययग्रहणपरिभाषया कृत्यसंज्ञकप्रत्ययान्तग्रहणम्। "ऋणपदमावस्यकोपलक्षण"मिति भाष्यम्। तदाह--,प्तम्यन्तमित्यादि। मासे इति। सामीप्याधिकरणत्वे सप्तमी। मासाऽव्यवहितोत्तरकाले प्रत्यर्पणीयमृणमित्यर्थः। ऋणपदस्यावश्यकोपलक्षणतायाः प्रयोजनमाह--पूर्वाह्णेगेयमिति। "तत्पुरुषे कृती"त्यलुक्। यत्प्रत्यय एव कृत्योऽत्र विवक्षित इति भाष्यम्। तेनेह न-पूर्वाह्णे दातव्या भिक्षेति।

तत्त्व-बोधिनी
कृत्यैरृणे ६३१, २।१।४२

कृत्यैः। यत्प्त्र्ययान्तेनैव समास इष्यते। "अल्पशः" इत्यनुवृत्तेः। बहुवचनं तु प्रकृतिभेदाभिप्रायम्। तथैवोदाहरति--मासेदेयमिति। तत्पुरुषे कृती"त्यलुक्। ने--मासे दातव्यम्। नियोगोपलक्षणार्थमिति। नियोगो--निर्धारणम्। आवश्यकोपलक्षमार्थमित्यर्थः। नित्यसमासोऽयमिति।अतएव "पुरुषोत्तमः"इति स्वपदविग्रहोऽसङ्गत इत्यवोचाम।

तत्त्व-बोधिनी
कुत्सितानि कुत्सनैः ६४०, २।१।४२

कुत्सितानि। "कुत्स अवक्षेपणे" कर्मणिक्तः। स च "मतिबुद्धी"ति सूत्रे चकारस्याऽनुक्तसमुच्चयार्थत्वाद्वर्तमाने विहित इत्याशयेनाह--कुत्स्यमानानीति। तत्प्रतिपादकानित्यर्थः। उभयत्र बहुवचननिर्देशः स्वरूपविधिनिरासार्थः। वैयकरणखसूचिरिति। सूचयतेः "अच इः"। यः पृष्टः सन् प्रश्नं विस्मारयितुं खं सूचयत्यभ्यासवैधुर्यात्स एवमुच्यते, न तु वस्तुतो व्याकरणं, तदध्ययनं वा कुत्सितम्, वेदाङ्गत्वेन तस्य प्रशस्तत्वात्। तथापि तस्य प्रतिभानाऽभावेन निष्फलत्वात्कुत्स्यते। दुर्दुरूढ इति। "दुल उत्क्षेपे"दुर्पूर्वः। औणादिक कूटप्रत्ययः। "बहुलमन्यत्रापी"ति णेर्लुक्। रलयोरेकत्वस्मरणाल्लस्य रः। विशेषस्यस्य पूर्वनिपातनियमार्थं सूत्रम्। शब्दप्रवृत्तिनिमित्तकुत्सायामेवाऽयं, संनिधानात्। तेनेह न--नैयायिको दुराचारः।