पूर्वम्: २।१।५१
अनन्तरम्: २।१।५३
 
प्रथमावृत्तिः

सूत्रम्॥ कुत्सितानि कुत्सनैः॥ २।१।५२

पदच्छेदः॥ कुत्सितानि १।३ कुत्सनैः ३।३ ५३ समानाधिकरणेन ३।१ ४८ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
कुत्सितानि कुत्सनैः २।१।५३

कुत्सितवाचीनि सुबन्तानि कुत्सनवचनैः सुबन्तैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति। शब्दप्रवृत्तिनिमित्तकुत्सायाम् अयं समास इष्यते। विशेषणं विशेष्येण बहुलम् २।१।५६ इति परनिपाते प्राप्ते विशेष्यस्य पूर्वनिपातार्थ आरम्भः। वैयाकरणखसूचिः। निष्प्रतिभः इत्यर्थः। याज्ञिककितवः। अयाज्ययाजनतृष्णापरः। मीमांसकदुर्दुरूढः। नास्तिकः। कुत्सितानि इति किम्? वैयाकरणश्चौरः। न ह्यत्र वैयाकरणत्वं कुत्स्यते। कुत्सनैः इति किम्? कुत्सितो ब्राह्मणः।
न्यासः
कुत्सितानि कुत्सनैः। , २।१।५२

कुत्सितशब्दोऽयमिह रूढिमाचष्टे। तथा च निष्ठा भूतकालं नोपादत्ते। कुत्सनशब्देन च कुत्साहतुर्धर्मो गृह्रते-- कुत्स्यते गह्र्रतेऽनेनेति कृत्वा। बहुवचननिर्देशस्तु स्वरूपविधेर्निरासार्थः। तेन कुत्सितवादिना कुत्सनवचनैः सह समासो विज्ञायते, न तु कुत्सितशब्दस्य कुत्सनशब्देन। अत आह-- "कुत्सितवाचीनि" इत्यादि। शब्दप्रवृत्तिनिमित्तकुत्सायामयं समासो वेदितव्यः। कुतः पुनरेतल्लभ्यते? प्रत्यासत्तेः। शब्दस्य हि प्रवृत्तिनिमित्तं प्रत्यासन्नम्, अतस्तत् कुत्सायामेव समासेन भवितुं युक्तम्। "वैयाकरणखसूचिः" इति। वैयाकरणश्चासौ खसूचिश्चेति विग्रहः। यः पृष्टः सन् व्याकरणे खमाकाशं सूचयतीति निरीक्षते निष्प्रतिभो भवति स एवमुच्यते। अत्र हि वैयाकरणत्वं वैयाकरणशब्दस्य प्रवृत्तिनिमित्तं तत् कुत्स्यते; तत्पुनः व्याकरणाध्येतृसम्बन्धः, व्याकरणवेदितृसम्बन्धो वा।तेन हि निमित्तेन वैयाकरणशब्दो पुरुषे वत्र्तते। एवमन्यत्रापि शब्दप्रवृत्तिनिमित्तकुत्सायां समासो वेदितव्यः। "याज्ञिककितवः" इति। कितव इव कितवः। यथा हि कितवः किं तवास्तीति धनवत्तामात्रमपेक्षमाणो द्यूते प्रवत्र्तते, न तु तस्य जात्यादिकमपेक्षते; तथा याज्ञिकोऽपि याजने प्रवत्र्तमानो यस्तृष्णयाऽयाज्यस्य धनवतामात्रमपेक्षते, न तु तस्य यागार्हतां स याज्ञिककितव इत्युच्यते। अत आह- "अयाज्ययाजनतृष्णापर उच्यते" इति। "मीमांसकदुर्दुरूढः" इति। मीमांसको मीमांसाध्ययनफलमनवाप्य नास्तिको जात इति प्रतीयते। "वैयाकरणश्चौरः" इति। ननु चौरत्वेन गह्र्रमाणो वैयाकरणः कुत्सितो भवत्येव। तदभिषायी च वैयाकरणशब्दः। तत्कथमिदं प्रत्युदाहरणमुपपद्यत इत्याह-- "न ह्रत्र " इत्यादि। प्रत्यासत्तेर्हि शब्दप्रवृत्तिनिमित्तस्य कुत्सायां ससासेन भवितव्यम्। न चेह वैयाकरणशब्दस्य प्रवृत्तिनिमित्तं कुत्स्यते; यस्माच्चौरोऽपि सम्यक् व्याकरणं वेत्त्यधीते वा। तस्मान्नात्र शब्दप्रवृत्तिनिमित्तं कुत्स्यते, किं तर्हि? यत्र तद्वैयाकरणत्वं वत्र्तते स कुत्स्यते, वैयाकरणत्वन्तु तस्योपलक्षणमेव केवलम्, योऽसौ वैयाकरणः स चौरः, यथा-- यः कम्पते सोऽ()आत्थ इति। अत्र कम्पनम()आत्थस्योपलक्षणम्। "कुत्सितो बाहृणः" इति। भवत्यत्र कुत्सितशब्दः कुत्सिताभिधायी। न तु ब्राआहृणशब्दः कुत्सनवचनः॥ "पापाणकशब्दौ कुत्सनाभिधायिनौ" इत्युक्तम्। यद्येवमत्र पूर्वेणैव सिद्धः समासः, किमर्थमिदनुच्यत इत्याशङ्()क्याह-- "तयोः" इत्यादि। यदि पूर्वेण स्यात् समासः, ततः कुत्सितशब्दस्य प्रथमानिर्दिष्टत्वात् पूर्वेनिपातः स्यात्, पापापणकशब्दयोस्तु परनिपातः। तस्मात् पूर्वनिपातार्थमिदमारभ्यते। कुत्सितग्रहणं विस्पष्टार्थम्। अन्यथा पूर्वयोगादेव कुत्सित इत्यनुवर्तिष्यत इति तन्न कत्र्तव्यमेव स्यात्॥
बाल-मनोरमा
कुत्सितानि कुत्सनैः ७२२, २।१।५२

कुत्सितानि। वर्तमाने क्तः, व्याख्यानात्। तदाह--कुत्स्यमानानीति। कुत्सनैरिति करणे ल्युट्। प्राग्वदिति। समानाधिकरणेन समस्यते स तत्पुरुष इत्यर्थः। वैयाकरणखसूचिरिति। वैयाकरणश्चासौ खसूचिश्चेति विग्रहः। यः प्रक्रियां पृष्टःसन् प्रश्नं विस्मारयितुमाकाशं दर्शयति पश्यति वा स एवमुच्यते। अत्र वैयाकरणः प्रक्रियाविस्मरणान्निन्द्यः। खसूचनं निन्दाहेतुः। मीमांसकदुर्दुरूट इति। "दुल उत्क्षेपे"चुरादिः दुर्पूर्वादौणादिकाः कूटप्रत्ययः। "बहुलमन्यत्रापी"ति णेर्लुक्। रलयोरभेदाद्रः। यो मीमांसामधीत्याऽन्यथा जानानो दुराक्षेपं करोति स एवमुच्यते। विशेष्यस्य पूर्वनिपातार्थं सूत्रम्। विशेषणसमासे तु विशेषणस्य पूर्वनिपातः स्यात्।