पूर्वम्: २।१।५४
अनन्तरम्: २।१।५६
 
प्रथमावृत्तिः

सूत्रम्॥ उपमितं व्याघ्रादिभिः सामान्याप्रयोगे॥ २।१।५५

पदच्छेदः॥ उपमितं १।१ व्याघ्रादिभिः ३।३ सामान्याप्रयोगे ७।१ समानाधिकरणेन ३।१ ४८ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
उपमितं व्याघ्राऽदिभिः सामान्याप्रयोगे २।१।५६

उपमेयम् उपमितं , तद्वाचि सुबन्तं व्याघ्राऽदिभिः सामर्थ्यादुपमानवचनैः सह सामस्यते, तत्पुरुषश्च समासो भवति, न चेत् सामान्यवाची शब्दः प्रयुज्यते। विशेषणं विशेष्येण बहुलम् २।१।५६ इति परनिपाते प्राप्ते विशेष्यस्य पूर्वनिपातार्थ आरम्भः। पुरुषो ऽयं व्याघ्र इव पुरुषव्याघ्रः। पुरुषसिंहः। सामान्याप्रयोगे इति इम्? पुरुषो ऽयं व्याघ्र इव शूरः। व्याघ्र। सिंह। ऋक्ष। ऋषभ। चन्दन। वृक्ष। वराह। वृष। हस्तिन्। कुञ्जर। रुरु। पृषत। पुण्डरीक। बलाहक। अकृतिगनश्च अयम्, तेन इदम् अपि भवति मुखपद्मम्, मुखकमलम्, करकिसलयम्, पार्थिवचन्द्रः इत्येवम् आदि।
न्यासः
उपमितं व्याघ्रादिभिः सामान्याप्रयोगे। , २।१।५५

"सामथ्र्यादुपमानवचनैः" इति। यद्यपि "उपमानवचनैः" इति सूत्रे नोपात्तं, तथाप्युपमेयमानापेक्षमित्युपमितशब्दः सम्बन्धिशब्दत्वादुपमानत्वं व्याघ्रदीनां गमयति। तेन विशेषानभिधानेऽपि सामथ्र्यादुपमानवचनैस्तैः समासो विज्ञायते। "न चेत्सामान्यवाची शब्दः प्रयुज्यते" इति। उपमानोपमेययोः साधारणो धर्मः, शौर्यादि, सामान्यम्ष यदि तद्वाची शब्दो न प्रयुज्यते, एवं सति समासो भवति; नान्यथा। ननु च सामान्यस्य समासेऽन्तर्भूत्तवात् त्दवाचिनां शब्दानां प्रयोगो नास्ति, त()त्क प्रतिषेधेन? नैतदस्ति; साधारणधर्मः सामान्यं हि समासेऽन्तर्भूतम्, न तु तद्विशेषः। तत्रासति प्रतिषेधे विशिष्टसाधारणधर्मवाचिनः प्रयोगः स्यादेवेति कत्र्तव्यः प्रतिषेधः? न कत्र्तव्यः,कथम्? सामान्यशब्दप्रयोगे हि सति तदपेक्षत्वेन सापेक्षमसमर्थ भवतीत्यसामथ्र्यादेव समासो न भविष्यति। एं तह्र्रेतज्ज्ञापयति-- "भवति हि प्रधानस्य सापेक्ष्यस्यापि समासः" इति। पुरुषाश्चात्रोपमेयत्वात् प्रधानः, उपमानन्तु व्याघ्रादि तदर्थत्वादप्रधानम्। किमेतेन ज्ञापकेन प्रयोजनम्? "राजपुरुषः शोभनः" इत्येवमादि सिद्धं भवति। "विशेषणं विशेष्येणेति प्राप्ते" इति। ननु च विशेषणस्य विशेष्येण समानाधिकरणेन समासं वक्ष्यति, उपमानोपमेययोश्च भेदाद्वैयधिकरण्यम्, तत्कुतो विशेषणं विशेष्येणेति प्राप्तिः? एवं मन्यते-- पुरुषादावुपमेये वत्र्मानैव्र्याघ्रादिभिरुपमानशब्दैरयं समासो भवति। यथा चोपमानशब्दानामुपमेयवृत्तित्वे सामानाधिकरण्यं तथा पूर्वसूत्र एव व्याख्यातम्॥
बाल-मनोरमा
उपमितं व्याघ्रादिभिः सामान्याऽप्रयोगे ७२५, २।१।५५

उपमितम्। प्राग्वदिति। समानाधिकरणैः समस्यते स तत्पुरुष इत्यर्थः। अत्रोपमितस्य नित्यमुपमानाकाङ्क्षत्वादुपमानभूतव्याघ्रादिभिरित्यर्थसिद्धम्। ननु विशेषणसमासेनैव सिद्धे किमर्थमिदं सूत्रमित्यत आह-विशेष्यस्येति। उपमानोपमेयसमभिव्याहारे उपमानस्यैव विशेषणत्वात्पूर्वनिपाते प्राप्ते विशेष्यस्य पूर्वनिपातनार्थमिदमित्यर्थः। पुरुषव्याघ्र इति। पुरुषो व्याघ्र इवेति विग्रहः। अत्र सादृश्योपपादकः शौर्यात्मकः साधारणधर्मः, स इह नोपात्त इति भवति समासः। पुरुषोव्याघ्र इव शूर इति। शौर्येण व्याघ्रसदृश इति यावत्। अत्र शौर्यस्योपमानोपमेयसाधारणधर्मस्य प्रयोगान्न समास इति भावः। "भाष्याब्धिः क्वातिगम्भीरः" इति कैयटप्रयोगस्तु मयूरव्यंसकादित्वात्समाधेयः। बाष्यमेवाब्धिरिति रूपकं वा। न च पुरुषशब्दस्य शूरशब्दसापेक्षत्वादसामथ्र्यादेवात्र समासस्य न प्रवृत्तिः, अतः "सामान्याऽप्रयोगे" इति व्यर्थमिति वाच्यं, समस्यमानेष्वप्रधानस्यैव हि सापेक्षत्वं सामथ्र्यविघातकं न तु प्रधानस्य। तथाचाऽत्र पुरुषस्य प्रधानतया तस्य शूरापेक्षत्वेऽपि अस्त्येव सामथ्र्यमिति समासप्रवृत्तेः, तन्निवृत्त्यर्थं सामान्याऽप्रयोग इति वचनम्। इदमेव "प्रधानस्य सापेक्षत्वेऽपि न सामथ्र्यविघातकत्व"मिति ज्ञापयति। तेन "राजपुरुषः सुन्दर" इत्यादौ समासः सिद्धो भवतीति भाष्ये स्पष्टम्।

तत्त्व-बोधिनी
उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ६४३, २।१।५५

उपमितम्। उपमेयमुपमितम्। भूतकालोऽत्र न विवक्षितः। तच्च संबन्धिशब्दादुपमानमाक्षिपति। तथा चोपमानभूतैव्र्याघ्रादिभिरित्यर्थः। पुरुषो व्याघ्रा इव शूर इति। तत्र हि शूरसापेक्षस्यापि पुरुषस्य प्रधानत्वात् "राजपुरषः सुन्दरः"इतिवदत्रापि समासः स्यात्स मा भूदिति "सामान्याऽप्रयोगे"इत्युक्तमिति भावः। कथं तर्हि "भाष्याब्धिः क्वातिगम्भीरः" इति कैयटः, सामान्यप्रयोदसत्त्वेनाऽस्याऽप्राप्तेः। अत्र केचित्--प्रमाद एवायमित्याहुः। इह गम्भीर्येण सादृश्यं न विवक्षितं, किंतु विततदुरवगाहत्वादिना। तस्य हि विततत्वादेरप्रयोगोऽस्त्येवेति निर्बाधः समास इति मनोरमायां स्थितम्।