पूर्वम्: २।१।६५
अनन्तरम्: २।१।६७
 
प्रथमावृत्तिः

सूत्रम्॥ युवा खलतिपलितवलिनजरतीभिः॥ २।१।६६

पदच्छेदः॥ युवा १।१ खलतिपलितवलिनजरतीभिः ३।३ समानाधिकरणेन ३।१ ४८ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
युवा खलतिपालितवलिनजरतीभिः २।१।६७

खलत्यादिभिः। समानाधिकरणैः सह युवशब्दः समस्यते, तत्पुरुषश्च समासो भवति। जरतीभिः इति स्त्रीलिङ्गेन निर्देशः, प्रातिपादिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहनम् इति ज्ञापकार्थः। युवा खलतिः युवखलतिः। युवतिः खलती युवखलती। युवा पलितः युवपलितः। युवतिः पलिता युवपलिता। युवा वलिनः युववलिनः। युवतिर्वलिना युववलिना। युवा जरन् युवजरन्। युवतिर्जरती युवजरती।
न्यासः
युवा खलतिपलितवलिनजरतीभिः। , २।१।६६

"खलत्यादिभिः समानाधिकरणैः" इत्यादि। यद्येवम्, किमर्थं जरतीभिरिति स्त्रीलिङ्गेन निर्देशः, जरद्भिरित्येवं नाम निर्देशः कत्र्तव्यः स्यात्, न हि जरतीशब्देन स्त्रीलिङ्गेन युवशब्दस्य पुंलिङ्गस्य सामानाधिकरण्यमुपपद्यत इत्याह-- "जरतीभिरिति स्त्रीलिङ्गेन निर्देशः" इत्यादि। कथं पुनरनेन निर्देशेनैषा परिभाषा शक्यते ज्ञापयितुम्? यद्येषा न स्यात् तदा जरतीभिरित्येवं निर्देशोऽनर्थकः स्यात्। तथा च समानाधिकरणाधिकारात् समानाधिकरणेन जरतीशब्देनायं समासो विज्ञायते। न च तेन स्त्रीलिङ्गेन पुंसि वत्र्तमानस्य युवशब्दस्य सामानाधिकरण्यं भवति, तदेष निर्देशः कथमर्थवान् भवति? यद्येषा परिभाषाऽवतिष्ठते ! तस्यां हि सत्यां युवशब्दस्य ग्रहणे युवतिशब्दस्य ग्रहणं भवतीत्युपपद्यते। युवतिजरतीशब्दयोः सामानाधिकरण्यम्, त()स्मश्च सति तयोः समासः। तेदवं जरतीभिरिति निर्देशो ज्ञापयति-- एषा परिभाषाऽस्तीति। नन्वेवमपि जरत्या समास उच्यमाने जरता न प्राप्नोति-- युवजरन्निति? नैष दोषः; वृत्त्यन्तरे हि जरद्भिरिति पठ()ते। उभयथाऽप्याचार्येण शिष्याः प्रतिपादिता इत्युभयं सिध्यति॥
बाल-मनोरमा
युवा खलतिपलितवलिनजरतीभिः ७३८, २।१।६६

युवा खलति। युवन्शब्दः खलत्यादिभिः समानाधिकरणैः समस्यते, स तत्पुरुष इत्यर्थः। विशेषणसमासेन सिद्दे किमर्थमिदमित्यत आह--पूर्वेति। युवन्शब्दस्य खलत्यादिशब्दानां च गुणवाचित्वाद्विशेषणत्वे कामचारात्पूर्वनिपातस्याऽनियमे प्राप्ते तन्नियमार्तमिदं सूत्रमित्यर्थः। खलतिः=केशहीनशिराः। "पलितं जरसा शौक्लयं" "वलिनो वलिभः समौ" इत्यमरः। युवखलतिरिति। अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वान्नलोपः। ननु युवेति पुंलिङ्गनिर्देशात् कथं युवतिशब्दस्य समास इत्यत आह--लिङ्गविशिष्टेति। युवखलतीति। "पुंवत्कर्मधारये"ति पुंवत्त्वम्। युवजरतीति। जरती=वृद्धा। युवतिश्चासौ जरती चेति विग्रहः। "पुंवत्कर्मधारये"ति पुंवत्त्वम्। ननु युवतिः कतं जरती स्यादित्यत आह--युवत्यामेवेति।

तत्त्व-बोधिनी
युवा खलतिपलितवलिनजरतीभिः ६५३, २।१।६६

युवखलतीति। "कृदिकारादक्तिनः"इति ङीष्। "पुंवत्कर्मधारये"ति युवतिशब्दस्य पुंवद्भावः। जरतीति। "जीर्यतीति। "जीर्यतेरतृन्"ुगितश्चे"ति ङीष्। एवं युवपलितः युववलिन इत्युदाहार्यम्। वलिनशब्दः पामादिः।