पूर्वम्: २।२।११
अनन्तरम्: २।२।१३
 
प्रथमावृत्तिः

सूत्रम्॥ क्तेन च पूजायाम्॥ २।२।१२

पदच्छेदः॥ क्तेन १।३ १३ पूजायाम् ७।१ १० षष्ठी १।१ तत्पुरुषः १।१ २।१।२१ सह २।१।४ सुपा ३।१ २।१।४ समासः १।१ २।१।३ सुप् १।१ २।१।२

काशिका-वृत्तिः
क्तेन च पूजायाम् २।२।१२

मतिबुद्धिपूजाऽर्थेभ्यश्च ३।२।१८८ इति वक्ष्यति, तस्य इदं ग्रहणम्। पूजाग्रहणम् उपलक्षणार्थम्। क्तो यः पूजायां विहितस्तेन षष्ठी न समस्यते। राज्ञां मतः। राज्ञां बुद्धः। राज्ञां पूजितः। पूजायाम् इति किम्? छात्रस्य हसितम् छात्रहसितम्।
न्यासः
क्तेन च पूजायाम्। , २।२।१२

""मतिबुद्धिपूजार्थेभ्यश्च" इति वक्ष्यति"इति। क्तमिति वाक्यशेषः। "तस्येदं ग्रहणम्" इति। "मतिबुद्धि" ३।२।१८८ इत्यादिना सूत्रेण यो विहितः क्तः, तस्य पूजायामन्यत्र च सर्वस्य विहितस्येदं ग्रहणम्। न केवलं पूजायां यो विहितस्त्सयैवेष्यत इत्यभिप्रायः। अत एवाह-- "पूजाग्रहणमुपलक्षणार्थम्" इति। कस्योपलक्षणार्थम्? "मतिबुद्धि" ३।२।१८८ इत्यादौ सूत्रे निर्दिष्टार्थस्य यः क्तो विधीयते तस्य मत्यादेः। तेन न केवलं पूजायां यः क्तो विहितस्तेन षष्ठीसमासप्रतिषेधो भवति, अपि तु मतिबुद्धयोरपि यो विहितस्तेनापि। "राज्ञां मतः" इति। "क्तस्य च वत्र्तमाने" २।३।६७ इति षष्ठी। पूजायां किम्? छात्रस्य हसितं छात्रहसितम्। "नपुंसके भावे क्तः" ३।३।११४ शेषलक्षणा षष्ठी॥
बाल-मनोरमा
क्तेन च पूजायाम् ६९७, २।२।१२

क्तेन च। अत्र पूजाग्रहणं "मतिबुद्धिपूजार्थेभ्यश्चे"ति सूत्रोपलक्षणं। तदाह--मतिबुद्धीति सूत्रेणेति। राज्ञा मतो बुद्धः पूजितो वेति। राज्ञा इष्यमाणो ज्ञायमानः पूज्यमान इति क्रमेणार्थः। "मतिबुद्धिपूजार्थेभ्यश्चे"ति वर्तमाने क्तः। "क्तस्य च वर्तमाने" इति षष्ठी। नन्वेवं सति "राजपूजितः" "राजमतः" "राजबुद्ध" इति कथं समास इत्यत आह-राजपूजित इत्यादाविति।

तत्त्व-बोधिनी
क्तेन च पूजायाम् ६१९, २।२।१२

क्तेन पूजायाम्। सूत्रे उपलक्षणं पूजाग्रहणं, व्याख्यानादित्याह--मतिबुद्धीति। राज्ञामिति। "क्तस्य च वर्तमाने"इति कर्तरि षष्ठी। भूत इति। न च तक्रकौण्डिन्यायेन मत्यादिब्यः क्तस्य वर्तमानकालो भूतकालतां बाधत इति वाच्यं, "तेनैकदि"दित्यतः "तेन" इत्याधिकारे "उपज्ञाते"इति निर्देशेन भूतकालस्याऽबाधज्ञापनात्। "उपज्ञाते"इत्यत्र हि भूते क्तो, न तु वर्तमाने। अन्यथा "क्तस्य च वर्तमाने"इति षष्ठीविधानादुपज्ञतशब्दस्य तेनेति। तृतीयायोगो न स्यात्। न चैवमपि ज्ञानार्थेष्वेव ज्ञापकत्वमस्त्विति वाच्यं, "पूजितोः यः सुरासुरैः"इति प्रयोगानुरोधेन सामान्यविषयज्ञापकत्वस्यैव न्याय्यत्वात्। अन्ये तु कारकषष्ठ()आ एव समासनिषेधोऽयम्, शेषषष्ठ()आ तु समासः स्यादेवेत्याहुः। एतेन "कलहं स राममहितः कृतवा"निति सभट्टिप्रयोगो व्याख्यातः। "राममहितः स, कलहं कृतवा"नित्यन्वयः।