पूर्वम्: २।२।२३
अनन्तरम्: २।२।२५
 
प्रथमावृत्तिः

सूत्रम्॥ अनेकमन्यपदार्थे॥ २।२।२४

पदच्छेदः॥ अनेकम् १।१ अन्यपदार्थे ७।१ बहुव्रीहिः १।१ २३ विभाषा १।१ २।१।११ समासः १।१ २।१।३ सुप् १।१ २।१।२

काशिका-वृत्तिः
अनेकम् अन्यपदार्थे २।२।२४

अनेकं सुबन्तमन्यप्दार्थे वर्तमानं सुपा सह समस्यते, बहुव्रीहिश्च समासो भवति। प्रथमार्थम् एकं वर्जयित्वा सर्वेषु विभक्त्यर्थेषु बहुव्रीहिर् भवति। प्राप्तम् उदकं यं ग्रामं प्राप्तोदको ग्रामः। ऊढरथो ऽनड्वान्। उपगृतपशू रुद्रः। उद्घृतौदना स्थाली। चित्रगुर्देवदत्तः। वीरपुरुषको ग्रामः। प्रथमार्थे तु न भवति। वृष्टे देवे गतः। अनेकग्रहनं किम्? बहूनाम् अपि यथा स्यात्, सुसूक्ष्मजटकेशेन सुगजाजिनवाससा। समन्तशितिरन्ध्रेण द्वयोर् वृत्तौ न सिध्यति। बहुव्रीहिः समानाधिकरणानम् इति वक्तव्यम्। व्यधिकरणानां मा भूत्, पञ्चभिर् भुक्तमस्य। अव्ययानां च बहुव्रीहिर् वक्तव्यः। उच्चैर् मुखः। नीचैर् मुखः। सप्तम्युपमानपूर्वपदस्य उत्तरपदलोप श्च वक्तव्यः। कण्ठे स्थितः कालो ऽस्य कण्ठेकलः। उरसिलोमा। उष्ट्रस्य मुखम् इव मुखं यस्य स उष्ट्रमुखः। खरमुखः। समुदायविकारषष्ठ्याश्च बहुव्रीहिरुत्तरपदलोपश्च इति वक्तव्यम्। केशानां सङ्घातः केशसङ्घातः, केशसङ्घातः चूडा ऽस्य केशचूडः। सुवर्णस्य विकारो ऽलङ्कारो ऽस्य सुबर्णालङ्कारः। प्रादिभ्यो धतुजस्य उत्तरपदस्य लोपश्च वा बहुव्रीहिर् वक्तव्यः। प्रपतितं पर्णमस्य प्रपर्णः, प्रपतितपर्णः। प्रतितं पलाशमस्य प्रपलाशः, प्रपतितपलाशः। नञो ऽस्त्यर्थानां बहुव्रीहिर् वाचोत्तरपदलोपश्च वक्तव्यः। आविद्यमानः पुत्रो यस्य अपुत्रः, अविद्यमानपुत्रः। अभार्यः, अविद्यमानभार्यः। सुबधिकारे ऽस्तिक्षीरादीनां बहुव्रीहिर् वक्तव्यः। अस्तिक्षीरा ब्राह्मणी। अस्त्यादयो निपाताः।
लघु-सिद्धान्त-कौमुदी
अनेकमन्यपदार्थे ९६९, २।२।२४

अनेकं प्रथमान्तमन्यस्य पदस्यार्थे वर्तमानं वा समस्यते स बहुव्रीहिः॥
बाल-मनोरमा
अनेकमन्यपदार्थे ८२०, २।२।२४

अनेकमन्य। प्रथमान्तमिति। शेषग्रहणानुवृत्तिलभ्यमिदम्। एवं च सुप्सुपेति नानुवर्तते, प्रयोजनाऽभावात्। "अनेकं सुबन्त"मिति पाठेऽपि प्रथमान्तमित्यर्थः। अन्येति। उपस्थितप्रथमान्तातिरिक्तेत्यर्थः। एवंच पञ्चभिर्भुक्तमन्नं यस्य सः "पञ्चभुक्त" इति बहुव्रीहिनिवृत्त्यर्थं "बहुव्रीहिः समानाधिकरणानामिति वक्तव्य"मिति वार्तिकं यद्भाष्ये स्थितं, यच्च वृष्टे देवे यो गतः स वृष्टदेव इति बहुव्रीहिनिवृत्त्यर्थम् "अप्रथमाविभक्त्यर्थे बहुव्रीहिर्वक्तव्यः" इति वार्तिकं तदुभयमपि न कर्तव्यमित्याह--अप्रथमाविभक्त्यर्थे बहुव्रीहिरिति। समानाधिकरणानामिति च फलितमिति। "शेषग्रहणा"दिति शेषः। "शेषग्रहणात् प्रथमान्त इति लभ्यते" इति हि भाष्यम्। "पञ्चभिर्भुक्तमस्ये"त्यत्र च समस्यमानपदयोरेकस्याऽप्रथमान्तत्वान्न बहुव्रीहिरिति फलितम्। प्रथमान्तातिरिक्तस्य पदस्यार्थे वर्तमानं समस्यते इत्यर्थाश्रयणाद्वृष्टे देवे गत इत्यत्रापि न बहुव्रीहिरिति फलितम्। प्रतमान्तातिरिक्तस्य पदस्यार्थे वर्तमानं समस्यते इत्यर्थाश्रयणाद्वृष्टे देवे गत इत्यत्रापि न बहुव्रीहिरिति फलितमिति भावः।

तत्र द्वितीयार्थबहुव्रीहिमुदाहरति--प्राप्तमिति। "गत्यर्थाकर्मके"ति कर्तरि क्तः। अत्र विग्रहवाक्ये ग्रामकर्मकप्राप्तिकर्तृ उदकमित्येवं ग्रामस्य विसेषणतया, विशेष्यत्वेन तु प्राप्तस्य उदकस्य बोधः। समासे तु एकार्थीभावमहिम्ना उदककर्तृकप्राप्तिकर्मीभूतो ग्राम इत्येवं ग्रामस्य विशेष्यतया, तद्विशेषणतया तु प्राप्तस्य उदकस्य बोधः। एवमुत्तरत्रापि विशेषणविशेष्यभावव्यत्यासो ज्ञेयः। अथ तृतीयार्थबहुव्रीहिमुदाहरति--ऊढरथोऽनड्वानिति। ऊढो रथो येनेति विग्रहः। अथ चतुथ्र्यर्थबहुव्रीहिमुदाहरति--ऊढरथोऽनड्वानिति। ऊढो रथो येनेति विग्रहः। अथ चतुथ्र्यर्थबहुव्रीहिमुदाहरति--उपह्मतपशू रुद्र इति। उपह्मतः पशुर्यस्मै इति विग्रहः। अथ पञ्चम्यर्थबहुव्रीहिमुदाहरति---उद्धृतौदना स्थालीति। उद्धृत ओदनो यस्या इति बहुव्रीहिः। अथ षष्ठ()र्थंबहुव्रीहिमुदाहरति--पीताम्बरो हरिरिति। पीतमम्बरं यस्येति विग्रहः। अथ सप्तम्यर्थबहुव्रीहिमुदाहरति--वीरपुरुषको ग्राम इति। वीराः पुरुषा यस्मिन्निति विग्रहः। "शेषाद्विभाषा" इति कप्। अत्र कर्मादीनां समासेनाभिहितत्वात्प्रथमैव। प्रथमार्थे तु नेति। "अन्यपदार्थ"शब्देन प्रथमान्तातिरिक्तद्वितीयाद्यन्तार्थस्यैव विवक्षितत्वादिति भावः। व्यधिकरणानामपि नेति। "अनेकं प्रथमान्त"मित्युक्तेरिति भावः।

प्रादिभ्यः। प्रादिभ्यः परं यद्धातुजप्रकृतिकप्रधमान्तं तस्य अन्येन प्रथमान्तेन बहुव्रीहिर्वाच्यः। तत्र बहुव्रीहौ प्रादिभ्यः परस्य उत्तरपदस्य धातुजस्य लोपश्च विकल्पेन वाच्य इत्यर्थः। अत्र "बहुव्रीहि"रित्यनुवादः, लोपस्यैव विधिः। प्रपतितपर्ण इति। प्रकृष्टं पतितं--प्रपतितम्। प्रादयो गताद्यर्थे" इति समासः। प्रपतितं पर्णं यस्मादिति विग्रहः। प्रपर्ण इति। प्रपतितेति पूर्वपदे धातुजस्य उत्तरपदस्य लोपे रूपम्।

नञोऽस्त्यर्थानां। नञः परेषामस्त्यर्थवाचिना सुबन्तानां बहुव्रीहिर्वाच्यः, त[था]त्रास्त्यर्थवाचिनामुत्तरपदभूतानां लोपश्च वा वक्तव्य इत्यर्थः। अविद्यमानपुत्र इति। न विद्यमान इति नञ्समासः। नञो नलोपः। अविद्यमानः पुत्रो यस्येति विग्रहः। अपुत्र इति। अस्त्यर्थकविद्यमानशब्दस्य लोपे रूपम्। अत्रापि बहुव्रीहिरित्यनुवादः। अव्ययानां चेति। "बहुव्रीहिर्वाच्य" इति शेषः। उच्चैर्मुख इति। उच्चैरित्यस्याधिकरणशक्तिप्रधानतया सप्तम्यन्तत्वेन प्रथमान्तत्वाऽभावादप्राप्ते बहुव्रीहौ वचनम्।

सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्चेति। सप्तम्यन्तोपमानसहिते पूर्वपदे यस्य तत् सप्तम्युपमानपूर्वपदम्, तस्य समस्तपदस्य पदान्तरेण बहुव्रीहिर्वाच्यः। समस्तपदात्मके पूर्वपदे यदुत्तरपदं तस्य लोपश्च वक्तव्य इत्यर्थः। तत्र सप्तम्यन्तसहितसमस्तपूर्वपदकं बहुव्रीहिमुदाहरति--कण्ठेस्थ इत्यादि। "सुपि स्थः" इति कः। कण्ठे तिष्ठतीति कण्ठेस्थः। उपपदसमासः। "अमूद्र्धमस्तका"दिति सप्तम्या अलुक्। "कण्ठेस्थ" इति समस्तपद्रम्। तस्य कालशब्देन बहुव्रीहिरित्यनुवादः। सुपो लुक्। त्तर कण्ठेस्थेत्येतद्बहुव्रीहेः पूर्वपदं सप्तम्यन्तपदसहितं, तस्मिन् यदुत्तरपदं स्थेत्येतत्, तस्य लोपो वाचनिकः। "कण्ठेकाल" इति सप्तम्यन्तपदघटितसमासगर्भो बहुव्रीहिः। तदवयवभूतसप्तम्याः "अमूर्धमस्तका"दित्यलुक्। अथ उपमानसहितसमस्तपूर्वपदकं बहुव्रीहिमुदाहरति--उष्ट्रमुख इति। उष्ट्रस्य मुखमिवेति विग्रहे षष्ठीतत्पुरुषः। मुखशब्दो मुखसदृशे लाक्षणिक इति सूचयितुमिवशब्दः। उष्ट्रमुखिमिव मुखं यस्येति विग्रहे बहुव्रीहिरित्यनुवादः। तत्र "उष्ट्रमुखेत्येतद्बहुव्रीहेः पूर्वपदं, तस्मिन्नुत्तरपदस्य मुखशब्दस्य लोपो वाचनिकः।

सङ्घातविकारेति। षष्ठ()न्तात्परस्य उत्तरपदस्य पदान्तरेण बहुव्रीहिर्वाच्यः, षष्ठ()न्तादुत्तरपदस्य लोपश्च। केशचूड इति। सङ्घातशब्दस्यो लोपे रूपम्। सुवर्णालङ्कार इति। अत्र विकरशब्दस्य उत्तरपदस्य लोपे रूपम्।

अस्तिक्षीरादयश्चेति। अस्तिक्षीरादयो बहुव्रीहावुपसङ्ख्येया इत्यर्थः। "अस्तिक्षीरागौ"रित्यत्र अस्तीत्यस्य तिङन्ततया प्रथमाविभक्त्यन्तत्वाऽभावादप्राप्ते बहुव्रीहाविदं वचनम्। वस्तुतस्तु वचनमिदं नारब्धव्यमित्याह--अस्तीति विभक्तिप्रतिरूपकमव्ययमिति। विभक्तिप्रतिरूपकत्वेन निपातितत्वादस्तीति "स्वरादिनिपातमव्यय"मित्यव्ययं विद्यमानार्थकम्। ततः सोः "अव्ययादाप्सुपः" इति लुकि प्रत्ययलक्षणेन प्रथमान्तत्वादेव सिद्धेरिदं वचनं न कर्तव्यमिति भावः। तदुक्तं भाष्ये--"अस्तिक्षीरादिवचनं, न वाऽव्ययत्वा"दिति।

तत्त्व-बोधिनी
अनेकमन्यपदार्थे ७२०, २।२।२४

अप्रथमाविभक्त्यर्थ इति। समानेति। एतच्च शेषग्रहणाल्लब्धम्। अनेकं किं()। बहूनामपि यथा स्यात्। एतच्च मूल एव स्फुटिभविष्यति। अनिज्विधौ केवलग्रहणं ज्ञापकीकृत्याऽनेकग्रहणमिह सुत्यजमित्याहुः। अन्यग्रहणं किम्()। बहुव्रीहितत्पुरुषयोर्विषयविभागो यथा विज्ञायेत, स्वपदार्थे हि सावकाशं तत्पुरुषं परत्वादन्यपदार्थे बहुव्रीहिर्बाधते। असति त्वन्यग्रहणे "कण्ठेकाल" इत्यादौ व्यधिकरणपदे, बहूनां समुदाये च सावकाशं बहुव्राहि स्वपदार्थ इवान्यपदार्थेऽपिल "नीलोत्पलं सर " इत्यादौ समानाधिकरणे तत्पुरुषो बाधेत। पदग्रहणं किम्()। वाक्यार्थे मा भूत्। ग्राह वती नदी। इह मा स?नासीरिति वाक्यार्थो गम्यते। अर्थग्रहणं किम्()।, यावता पदेन पदान्तरस्य वृत्त्यसम्भवादेव पदार्थे भविष्यति()। अत्राहुः-- प्रकृत्यर्थविशिष्टप्रत्ययार्थाभिधानं यथा स्यात्। अन्यथा प्राधान्यात्प्रत्ययार्थमात्रं गृह्रेत। इष्टापत्तौ तु चित्रगुरित्येतत्षष्ठर्थसम्बन्धमात्रपरं स्यात्। तथा च देवदत्तादिभिः सामानाधिकरण्यं न स्यादिति। अत्रेदमवधेयम्---"सुपा"इत्यतन्नानुवर्तते। तेनाऽत्रानेकं प्रथमान्तं मिथः समस्यते इथि पर्यवसन्नोऽर्थः। एवं च द्विपदबहुव्रीहिरबाध एव। य#ए तु "सुप्सुपा"इत्यनुवत्र्य "अनेकं सुबन्तं सुपा सहे"ति व्याचक्षते, तेषां तु द्विपदबहुव्रीहिर्दुर्लभ एवेति।द्वितियादिविभक्त्यर्थक्रमेणोदाहरति----प्राप्तमित्यादि। ग्रामकर्मकप्राप्तिकर्तृ उदकं विग्रहार्थः। उदककर्तृकप्राप्तिकर्मेति समासार्थः। विग्रहवाक्ये स इति प्रयोगे तु तस्याप्ययमेवार्थः। अनडुत्कर्तृकोद्वहनकमीभूतोरथः। रथकर्मकोद्वहनकर्ता तु समासार्थः। रुद्रसंप्रादनकोपहरणकर्मीभूतः पशुः। पशुकर्मककोपहरणसंप्रदानं तु समासार्थः। स्थाल्यधिकोद्धरणकर्म ओदनः। ओदनकर्मकोद्धकरणावधिः स्थाली समासार्थ इत्यादि। इह कर्मादीनां समाससेनाभिहितत्वात्प्रथमा। ननु वाक्ये धात्वर्थं प्रति क्तप्रत्ययार्थस्य कर्त्तुः कर्मणो वा विशेष्यत्वाद्वृत्तावपि तथैवोचितेति प्राप्तोदकोढरथादौ उदककर्तृकप्राप्तीत्यादिवर्णनं [तु] न युज्यते इति चेत्। उच्यते---एकार्थीभावादिभिर्वृत्तौ विशिष्टार्थविषयकं शक्त्यान्तरमेव स्वीक्रियते, न त्ववयवशक्तिरिति नानुपपत्तिः। व्यपेक्षावादिभिस्त्वगत्या भिन्नैव व्युत्पत्तिः स्वीकार्या। किञ्च कर्तृविशिष्()टप्राप्तेः पदार्थत्वे तस्यैव नामार्थत्वादुदकस्य तदभेदो वाच्यः, स च बाधितः, न हि कर्तृविशिष्टा प्राप्तिरुदकमिति सम्भवति। अतएव " बहूनां वृत्तिधर्माणां वचनैरेव साधने। स्यान्महन्दौरवमि"त्यादिना समर्थसूत्रे एकार्थीभावपक्ष एवप्रबल इत्यवोचाम। प्रथमार्थे तु नेति। शेषपदेन वा, अन्यपदार्थ इत्यनेन वा अति प्रसङ्गवारणात् "अप्रथमाविभक्त्यर्थे"इति वचनं न कर्तव्यमिति भावः। व्यधिकरणानामित्यादि। इह शेषपदेनैव वारिकोऽतिप्रसङ्ग इति "समानाधिकरणानां बहुव्रीहि"रित्यपि न कर्तव्यमिति भावः। "यत्रान्यसमासो नोक्तः स शेषः" इति वृत्तिकारादीनां मते तु "प्रथमान्तानामेव बहुव्रीहिः" इत्यलाभात्कर्तव्यमेवेदं वचनमिति बोध्यम्।

प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः। प्रादिभ्य इति। प्रादिभ्य इति। प्रादिभ्यः परं यद्धातुजं तदन्तस्य पदान्तरेण बहुव्रीहिव्र्याख्येय इति सूत्रसिद्धान्तनुवादः। वा चेति। इदं तु वाचनिकम्। पूर्वपदान्तर्गतस्योत्तरपदस्य धातुजस्य लोपो वाच्य इत्यर्थः। एतच्च प्रादीनामेव वृत्तौ विशिष्टार्थवृत्तितामाश्रित्य सुत्यजम्।

नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः। नञोऽस्त्यर्थानामिति। नञः परेषामस्त्यर्थवाचिनां पदान्तरेण बहुव्रीहिव्र्याख्येयः, अस्त्यर्थवाचिनां तु लोप इत्यर्थः। अस्त्यर्थानां किम्()। अनुपनीतपुत्रः। नञः किम्()। निर्विद्यमानपुत्रः। नन्विह "सुपा"इत्यनुवृत्तावपि सुबित्येतदनुवर्तते, तथा चाऽस्तिक्षीरेति प्रयोगो दुर्लभ इत्याशङ्क्यं साधयति---विभक्तिप्रतिरूपकमिति।