पूर्वम्: २।२।२२
अनन्तरम्: २।२।२४
 
प्रथमावृत्तिः

सूत्रम्॥ शेषो बहुव्रीहिः॥ २।२।२३

पदच्छेदः॥ शेषः १।१ बहुव्रीहिः १।१ २८

काशिका-वृत्तिः
शेषो बहुव्रीहिः २।२।२३

उपयुकतादन्यः शेषः। षेशः समासो बहुव्रीहिसंज्ञो भवति। कश्च शेषः समासो न उक्तः। वक्ष्यति अनेकम् अन्यपदार्थे २।२।२४ चित्रगुः। शबलगुः। कृष्णोत्तरासङ्गः। शेषः इति किम्? उन्मत्तगङ्गम्। लोहितगङ्गम्। बहुव्रीहिप्रदेशाः न बहुव्रीहौ १।१।२८ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
शेषो बहुव्रीहिः ९६८, २।२।२३

अधिकारोऽयं प्राग्द्वन्द्वात्॥
न्यासः
शेषो बहुव्रीहिः। , २।२।२३

"उपयुक्ताद्योऽन्यः" इति। अभिहितादन्य इत्यर्थः। "यद्यान्यः समासो नोक्तः" इति। यत्रान्या समाससंज्ञा न विहितेत्यर्थः। "चित्रगुः" इति। अत्र बहुव्रीहित्वे सति "बहुव्रीहौ प्रकृत्या पूर्वपदम्" ६।२।१ इत्येष विधिर्भवति। "उन्मत्तगङ्गम्" इति। "अन्यपदार्थे च संज्ञायाम्" २।१।२० इत्यव्ययीभावः। असति हि शेषग्रहण इहापि बहुव्रीहिः स्यात्। ननु च बहुव्रीहौ प्राप्तेऽव्ययीभावस्त्वारभ्यमाणस्तस्यैव बाधको भविष्यति, तत्कुतो बहुव्रीहिप्रसङ्गः? "प्राक्कडारात् परं कार्यम्" इत्यस्मिन् पक्ष इदं प्रत्युदाहरणमुपन्यस्तम्। तत्र हि पक्षे कयदि शेषग्रहणं न क्रियेत, ततः अन्यपदार्थेच संज्ञायाम्" २।१।२० इति वचनप्रामाण्यदव्ययीभावः स्यात्। परत्वाद्बहुव्रीहिरित्येके। अयन्तु पक्षो वृत्तिकारेण नाश्रित इत्ययुक्तमेतत्। तस्मात् "आकडारादेका संज्ञा" १।४।१ इत्यस्मिन् पक्षे "व्यक्तिः पदार्थः" इत्येद्दर्शमाश्रित्येदं प्रत्युदाहरणमुपन्यस्तम्। व्यक्तौ हि पदार्थे प्रतिलक्ष्ये लक्षणं प्रवत्र्तते। अत्रासति शेषग्रहणे यदेसद्विषयं लक्षणं तदकृतार्थमित्यवश्यं तेन प्रवर्त्तितव्यम्। एकसंज्ञाधिकाराच्च योगपद्यं न सम्भवतीति वचनप्रामाण्यादुभयप्रसङ्गः, उभे अपि पर्यायेण स्यातामित्यपरे॥
बाल-मनोरमा
शेषो बहुव्रीहिः ८१९, २।२।२३

शेषो बहुव्रीहिः। त्रिकस्येति। विभक्तेरित्यर्थः। ननु "द्वितीया श्रिते"ति "तृतीया तत्कृते"ति "चतुर्थी तदर्थे"ति "पञ्चमी भयेने"ति, "षष्ठी"ति, "सप्तमी शौण्डै"रिति च द्वितीयादिविभक्तीनां षण्णां समासो विहितः। "विशेषणं विशेष्येणे"त्यादिना तु प्रथमाया अपि समासो विहितः, अतः शेषविभक्तिर्दुर्लभेत्यत आह--विशिष्येति। विशेषणसमासस्य वस्तुतः प्रथमाविभक्तौ प्रवृत्तावपि प्रतमाविभकिं()त विशिष्य उच्चार्य विधानाऽभावात्समासविधिषु विसिष्यनिर्दिष्टद्वितीयादिविभक्तिषट्कापेक्षया शेषः प्रथमाविभक्तिरित भावः। तदाह--प्रथमान्त इत्यर्थ इति। एतच्च भाष्ये स्पष्टम्।

तत्त्व-बोधिनी
शेषो बहुव्रीहिः ७१९, २।२।२३

शेषो बहुव्रीहिः। "शिष् असर्वोपयोगे" कर्मणि घञ्। अत्र वृत्तिकृत्---, "यत्रान्यः समासो नोक्तः स शेष" इत्याह। "येषां पदानां यस्मिन्नर्थेऽव्ययीभावादिसंज्ञकः समासो न विहितः स शेष इत्यर्थ"इति हरदत्तो व्याख्यात्। एतच्च "प्राक्कडारात्परं कार्य"मिति पाठाभिप्रायेण बोध्यम्। अस्मिस्तु पक्षे शेषग्रहणाऽभावे उन्मत्तगङ्गमित्यत्र परत्वाद्बहुव्राहिः स्यात्, निरवकाशत्वाच्चाऽव्ययीभाव इत्युन्मत्तगङ्ग इत्याद्यनिष्टं पक्षे प्रसज्यते। "आ कडारादेके"ति पाठाभ्युपगमपक्षे त्वेकसंज्ञाऽधिकारेणावेन्मत्तगङ्गमित्यादिसिद्धेः शेषग्रहणं व्यर्थम्। निरवकाशतयाऽव्ययीभावसंज्ञया बहुव्रीहिसंज्ञाया बाधात्। अतस्तत्रापि प्रयोजनमाह--द्वितीया श्रितेत्यादिनेति। सेषधिकारस्थबहुव्रीहेरेव "शेषाद्विभाषे"ति कप्प्रत्ययो नान्यस्माद्बहुव्रीहोरित्येतल्लाभार्थमपि शेषग्रहणमावश्यकमिति बोध्यम्। यस्य त्रिकस्येति। यद्यपि "प्रादयो गताद्यर्थे प्रथमये"त्युक्तम्, तथापि "द्वितीया श्रितादिभिः"इतिवत् "प्रथमा केनचित्सह समस्यते"इति नोक्तमित्यर्थः। वार्तिककृता प्रथमयेत्युक्तावपि सूत्रकृता नोक्तमिति वा। प्रथमान्तमिति। "कण्ठेकाल"इत्यादिबहुव्रीहिस्तु ज्ञापकसाध्य इति भावः। अन्यस्य पदस्यार्थ इति। समस्यमानपदातिरिक्तस्य पदस्याऽर्थ इत्यर्थः। पदेन हि प्रकृत्यर्थोपसर्जनकः प्रत्ययार्थः कर्मकत्र्रादिरभिधीयते। प्रथमान्तेन तु प्रातिपदिकार्थमात्रम्। यद्यपि त्रिकपक्षे सङ्ख्या प्रत्ययार्थस्तथापि तस्याः प्रकृत्यर्थं प्रति विशेषणत्वान्न प्रकृत्यर्थोपसर्जनकः प्रत्ययार्थः प्रथमान्तस्यास्ति। एवं च "द्वितीयान्ताद्यर्थे"इति फलितम्।