पूर्वम्: २।२।२९
अनन्तरम्: २।२।३१
 
प्रथमावृत्तिः

सूत्रम्॥ उपसर्जनं पूर्वम्॥ २।२।३०

पदच्छेदः॥ उपसर्जनम् १।१ ३१ पूर्वम् १।१ ३८ समासः १।१ २।१।३

काशिका-वृत्तिः
उपसर्जनं पूर्वम् २।२।३०

समासे इति वर्तते। उपसर्जनसंज्ञकं समासे पूर्वं प्रयोक्तव्यम्। पूर्ववचनं परप्रयोगनिवृत्त्यर्थम्। अनियमो हि स्यात्। द्वितीया कष्टश्रितः। तृतीया शङ्कुलाखण्डः। चतुर्थी यूपदारु। पञ्चमी वृकभयम्। षष्ठी राजपुरुषः। सप्तमी अक्षशौण्डः।
लघु-सिद्धान्त-कौमुदी
उपसर्जनं पूर्वम् ९१३, २।२।३०

समासे उपसर्जनं प्राक्प्रयोज्यम्। इत्यधेः प्राक् प्रयोगः। सुपो लुक्। एकदेशविकृतस्यानन्यत्वात्प्रातिपदिकसंज्ञायां स्वाद्युत्पत्तिः। अव्ययीभावश्चेत्य व्ययत्वात्सुपो लुक्। अधिहरि॥
न्यासः
उपसर्जनं पूर्वम्। , २।२।३०

"पूर्ववचनं परप्रयोगनिवृत्त्यर्थम्" इति। ननु च परप्रयोगविपर्ययो लोके न दृष्ट एव; तत्कथं परप्रयोगनिवृत्त्यर्थेन पूर्वग्रहणेनेत्यत आह-- "अनियमो हि स्यात्" इति। सम्भावनायां लिङ। एवं मन्यते-- यद्यपि परप्रयोगविपर्ययो न दृष्टः, तथाप्यसति नियामके वाक्ये पुरुषापराधाद्विपरीतप्रयोगोऽपि सम्भाव्येत। येषाञ्च वाक्यमेव समासीभवतीति दर्शनम्, तेषां वाक्यस्यानितयतक्रमत्वात् तद्विकारोऽपि समासोऽनियतक्रमः स्ादिति सूत्रारम्भः॥
बाल-मनोरमा
उपसर्जनं पूर्वम् ६४६, २।२।३०

उपसर्जनं पूर्वम्। प्राक्कडारात् समास इत्यदिकृतम्। समास इति प्रथमान्तं योग्यतया सप्तम्यन्तं विपरिणम्यते। तदाह--समासे उपसर्जनं प्राक् प्रयोज्यमिति। पूर्वमित्यस्य पूर्वं प्रयोज्यमित्यर्थ इति भावः। एवंच प्रकृते अपेत्यस्य पूर्वं प्रयोगनियमः सिद्धः। अप दिशा इति स्थितम्।