पूर्वम्: २।२।३७
अनन्तरम्: २।३।१
 
प्रथमावृत्तिः

सूत्रम्॥ कडाराः कर्मधारये॥ २।२।३८

पदच्छेदः॥ कडाराः १।३ कर्मधारये ७।१ वा ३७ पूर्वम् १।१ ३०

काशिका-वृत्तिः
कडाराः कर्मधारये २।२।३८

गुनशब्दानां विशेषनत्वात् पूर्वनिपाते प्राप्ते विकल्प उच्यते। कडारादयः कर्मधारये समासे वा पूर्वं। प्रयोक्तव्याः। कडारजैमिनिः, जैमिनिकडारः। कडार। गुडुल। काण। खञ्ज। कुण्ठ। खञ्जर। खलति। गौर। वृद्ध। भिक्षुक। पिङ्गल। तनु। वटर। कर्मधरये इति किम्? कडारपुरुषो ग्रामः। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्य द्वितीय पादः। द्वितीयाध्यायस्य तृतीयः पादः
न्यासः
कडाराः कर्मधारये। , २।२।३८

कडारादयो ये गुणशब्दास्तेषां विशेषणत्वं भवतीत्याह-- "गुणशब्दानाम्" इत्यादि। गतार्थम्॥ इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायां द्वितीयाध्यायस्य द्वितीयः पादः ------------------ अथ द्वितीयाध्यायस्य तृतीयः पादः