पूर्वम्: २।२।३३
अनन्तरम्: २।२।३५
 
प्रथमावृत्तिः

सूत्रम्॥ अल्पाच्तरम्॥ २।२।३४

पदच्छेदः॥ अल्पाच्तरम् १।१ द्वन्द्वे ७।१ ३२ पूर्वम् १।१ ३०

काशिका-वृत्तिः
अल्पाच्तरम् २।२।३४

द्वन्द्वे इति वर्तते। अल्पाच्तरं शब्दरूपं द्वन्द्वे समासे पूर्वं प्रयोक्तव्यम्। प्लक्षश्च न्यग्रोध्श्च प्लक्षन्यग्रोधौ। धवखदिरपलाशाः। बहुष्वनियमः शङ्खदुन्दुभिवीणाः, वीणाशङ्खदुन्दुभयः। ऋतुनक्ष्त्राणामानुपूर्व्येण समानक्षरानां पूर्वनिपातो वक्तव्यः। हेमन्तशिशिरवसन्ताः। चित्रास्वाती। कृत्तिकारोहिण्यौ। समानाक्षराणाम् इति किम्? ग्रीष्मवसन्तौ। लघ्वक्षरं पूर्वं निपतति इति वक्तव्यम्। कुशकाशम्। शरशादम्। अभ्यर्हितं च पूर्वं निपतति इति वक्तव्यम्। मातापितरौ। श्रद्धमेधे। दीक्षातपसी। वर्णानामानुपूर्व्येण पूर्वनिपातः। ब्राह्मणक्षत्रियविट्शूद्राः। समानाक्षराणाम् इत्यत्र न अस्ति। भ्रातुश्च ज्यायसः पूर्वनिपातो वक्तव्यः। युधष्ठिरार्जुनौ। सङ्ख्याया अल्पीयस्याः पूर्वनिपातो वक्तव्यः। द्वित्राः। त्रिचतुराः। नवतिशतम्।
लघु-सिद्धान्त-कौमुदी
अल्पाच्तरम् ९९२, २।२।३४

शिवकेशवौ॥
न्यासः
अल्पाच्तरम्। , २।२।३४

"ऋतुनक्षत्राणाम्" इत्यादि। ऋतूनामानुपूव्र्य प्रादुर्भावकृतम्, नक्षत्राणामुदयकृतम्। ऋतुनक्षत्राणामित्यत्रैव वर्णग्रहणं कस्मान्न कृतमिति पर्यनुयोगदोषमाशङ्क्याह-- "समानाक्षराणाम्" इत्यादि। असमानाक्षराणामपि वर्णानामानुपूव्र्येण पूर्वनिपात इष्यत इति पृथग्वचनम्। आनुपूव्र्यञ्च वर्णानां जन्मकृतमिति लोकव्यवहारे प्रसिद्धम्। प्रसिद्धिश्च श्रुतिकृता। श्रुतौ हि पठ()ते "मुखते ब्राआहृणमसृजत्, बाहुभ्यां राजनयम्, ऊरुभ्यां वैश्यम्, पद्भ्यां शूद्रम्" इति। "संख्याया अल्पीयस्याः" इति द्वन्द्वे चेति वक्तव्यम्। "द्वित्राः,त्रिचतुराः" इति बहुव्रीहिः। "नवतिशतम्" इति द्वन्द्वः॥
बाल-मनोरमा
अल्पाच्तरम् ८९५, २।२।३४

अल्पाच्तरम्। अल्पः=अल्पसङ्ख्योऽच्यस्य तदल्पाच्, तदेवाऽल्पाच्तरम्। अत एव निपातनात्स्वार्थे तरप्, कुत्लाऽभावश्च। अल्पसङ्ख्याऽच्कं पदं द्वन्द्वे पूर्वं प्रयोज्यमित्यर्थः। शिवकेशवाविति। हरिहरयोरन्यतरोत्कर्षवादस्य पाषण्जवादत्वादिति भावः। यदि तु "द्विवचनविभज्य" इत्यादिशयार्थे तरप्स्यात्, तदा "धवखदिरपलाशा" इत्यत्र बहुषु न स्यादिति प्राञ्चः। शब्देन्दुशेखरे तु प्रकर्षार्थक एवायं तरबिति स्थितम्।

ऋतुनक्षत्राणामिति ष समानसङ्ख्याऽच्कानाम् ऋतूनां नक्षत्राणां च द्वन्द्वे आनुपूव्र्येण=क्रमेण पूर्वनिपातो वक्तव्य इत्यर्थः। हेमन्तशिशिरबसन्ता इति। त्रयाणामृतूनामानुपूर्व्यं लोकप्रसिद्धम्। एवं कृत्तिकादिनक्षत्राणामपि। ग्रीष्मवसन्ताविति। विषमाक्षरत्वान्न वसन्तस्य पूर्वनिपातः, किंतु अल्पाच्त्वाद्ग्रीष्मस्य पूर्वनिपातः।

लघ्वक्षरं पूर्वं। लघु अक्षरमच् यस्य तद्द्वन्द्वे पूर्वं प्रयोज्यमिति वक्तव्यमित्यर्थः। कुशकाशमिति। समाहारद्वन्द्वोऽयम्।

अभ्यर्हितं चेति। श्रेष्ठः पूर्वं प्रयोज्य इति वक्तव्यमित्यर्थः। तापसपर्वताविति। पर्वतस्य स्थावरजन्मतया तापसस्य तदपेक्षया अभ्यर्हितत्वं बोध्यम्। भाष्ये तु मातापितरावित्युदाह्मतम्। "गर्भधारणपोषाभ्यां पितुर्माता गरीयसी"त्यादिस्मृतेरिति तदाशयः।

वर्णानामानुपूव्र्येणेति। एषां क्रमेण पूर्वनिपातः। "ब्राहृक्षत्रियविट्छूद्वा वर्णाः" इत्यमरः। तेषामानुपूर्व्यं तु "प्रजापतिरकामयत प्रजायेयेति, स मुखतस्त्रिवृत्तं निरमिभीते"त्यादितैत्तिरीयब्राआहृणादिसिद्धम्।

भ्रातुज्र्यायस इति। ज्येष्ठभ्रातुः पूर्वनिपात इत्यर्थः। "अत्र "द्वन्द्वे घि" "अजाद्यदन्त"मिति विधिद्वयम् "अल्पाच्तरं" "लघ्वक्षरं पूर्वम्", "ऋतुनक्षत्राणाम्", "अभ्यर्हितं च" "भ्रातुज्र्यायसः" इति विधिभिः परत्वाद्बाध्यते। भाष्ये तु "सर्वत एवाभ्यर्हितं पूर्वं निपतती"ति मतान्तरं स्थितम्।

तत्त्व-बोधिनी
अल्पाच्तरम् ७७२, २।२।३४

अल्पाच्तरम्। अतएव निपातनात्स्वार्थे तरप्, कुत्वचुत्वयोरभावश्च। यदि तु प्रकर्षे तरप् स्यात्तदाद्वयेरेव नियमः स्यात्, द्विवचनान्तोपपदत्वविषय एव तरपो विधानात्।ततश्च "धरवदिरपलाशा"इत्यादौ बहुषु नियमो न स्यात्। ऋतुक्षत्राणामिति। ऋतूनामानुपूर्व्यं प्रादुर्भावकृतं, नक्षत्राणां तूदयकृतम्।

अभ्यर्हितं च। अभ्यर्हितं च। "वासुदेवार्जुनाभ्यां वुनि"ति निर्देशेनेदं ज्ञाप्यत इति चतुर्थे भाष्यम्। "अल्पाच्तरम्" "अजाद्यदन्त"मिति सूत्राभ्यामर्जुनस्य पूर्वनिपाते प्राप्ते तमकुर्वन् ज्ञापयति "सर्वतोऽभ्यहितं पूर्व"मिति तत्रैव सूत्रे वक्ष्यते।

भ्रातुज्र्यायसः। युधिष्ठिरार्जुनाविति। इन्द्रपुत्रत्वाद्विष्णोरंशत्वाच्छूरत्वाद्वाऽभ्यर्हितत्वमर्जुनेऽप्यस्तीति न तेन नियमः सिध्यतीति भावः।