पूर्वम्: २।२।८
अनन्तरम्: २।२।१०
 
प्रथमावृत्तिः

सूत्रम्॥ याजकादिभिश्च॥ २।२।९

पदच्छेदः॥ याजकादिभिः ३।३ षष्ठी १।१ तत्पुरुषः १।१ २।१।२१ विभाषा १।१ २।१।११ सह २।१।४ सुपा ३।१ २।१।४ समासः १।१ २।१।३ सुप् १।१ २।१।२

काशिका-वृत्तिः
याजकाऽदिभिश् च २।२।९

पूर्वेण समासः सिद्ध एव, तस्य कर्तरि च २।२।१६ इति प्रतिषेधे प्राप्ते वचनम् इदम् आरभ्यते प्रतिप्रसवार्थम्। याजकादिभिः सह षष्ठी समस्यते, तत्पुरुषश्च समासो भवति। ब्राह्मणयाजकः। क्षत्रिययाजकः। याजक। पूजक। परिचारक। परिषेचक। स्नातक। अध्यापक। उत्सादक। उद्वर्तक। होतृ। पोतृ। भर्तृ। रथगनक। पत्तिगणक। तत्स्थैश्च गुणैः षष्ठी समस्यते इति वक्तव्यम्। चन्दनगन्धः। कपित्थरसः। गुणात्तरेण तरलोपश्चेअ ई वक्तव्यम्। सर्वेषां श्वेततरः सर्वश्वेतः। सर्वेषां सहत्तरः सर्वमहान्। न निर्धारणे २।२।१० इति प्रतिषेधे प्राप्ते वचनम् इदम्। सर्वशुक्ला गौः।
न्यासः
याजकादिभिश्च। , २।२।९

चकारोऽनुक्तसमुच्चयार्थः। तेन "तत्स्थैश्च गुणैः षष्टी समस्यत इति वक्तव्यम्" (इति) इति न वक्तव्यं भवति;अनेनैव सिद्धत्वात्। तस्मिन् स्थिताः = तत्स्थाः। प्रकृतस्यान्यस्याभावात् तदित्यनेन गुणा एव प्रत्यवमृश्यन्ते। तेन गुणात्मन्येव ये गुणा वत्र्तन्ते , न कदाचिद्द्रव्यात्मनि, तैः षष्ठी समस्यते। यद्यपि नास्त्येव हि स गुणो यो द्रव्ये न वत्र्तते, सर्वनस्य गुणस्य द्रव्याश्रितत्वात्; तथापि गुणशपब्दास्तु केचित् मतुब्लोपादबेदोपचाराद्वा तद्वति द्रव्ये वत्र्तमाना गुणमाधारानुगतं गमयन्ति, यथा-- शुक्लः पटः, लोहितः कम्बल इति। अपरे त्वाश्रयाद्विभक्तं द्रव्यं प्रत्यनुपसर्जनीभूतं गुणमाहुः, यथा-- चन्द्रनस्य गन्धः, कपिस्थस्य रस इति। तस्मादभिधानशक्तव्यापारापेक्षया तत्स्थैरिति विशेषणं युक्तम्। तदेतदुक्तं भवति-- ये गुणाः स्वशब्दैद्र्रव्यं प्रत्यनुपसर्जनभावापन्ना एव प्रत्याय्यन्ते, तैः सह षष्ठी समस्यत इति चन्दनस्य गन्धशब्दनगन्धः, कपित्थस्य रसः कपित्थरसः। गन्धादयो हि स्वशब्दैराधारविभक्ता एव प्रत्याय्यन्ते, न तु कदाचिदाश्रयानुगता द्रव्यं प्रति विशेषणीभूताः॥
बाल-मनोरमा
याजकादिभिश्च ६९४, २।२।९

याजकादिभिश्च। ननु "षष्ठी "ति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह तृजकाभ्यामिति। ब्राआहृणयाजक इति। ब्राआहृणस्य याजक इति विग्रहः। यजतेण्र्यन्तात्कर्तरि ण्वुल्। अकादेशः। "कर्तृकर्मणोः कृती"ति कर्मणि षष्ठी। देवपूजक इति। देवानां पूजक इति विग्रहः। पूजकशब्दो याजकादिरिति भावः। "भूभर्ते"ति तृजन्तस्योदाहार्यम्। भर्तृशब्दस्य याजकादित्वात्।

गुणात्तरेणेति। वार्तिकमिदं सर्वं गुणे"ति सूत्रे भाष्ये स्थितम्। गुणवाचकाद्विहितो यस्तरप्तदन्तेन षष्ठी वा समस्यते, तरपो लोपश्चेत्यर्थः। फलितमाह--तरबन्तं यदिति। ननु "षष्ठी"ति सूत्रेणैव सिद्धे किमर्थमिदमित्यत आह--न निर्धारणे इति। "सर्वं गुणे"ति सूत्रे भाष्ये तु "पूरणगुणेत्यस्यापवाद"इत्येवोक्तम्। सर्वशब्दानुवृत्तेः सर्वंशब्द एवेदं वार्तिकमित्यभिप्रेत्योदाहरति--सर्व()ओत इति। "वकानां गुण" इति शेषः। द्रव्यान्तरवृत्ति()ओतरूपापेक्षया सर्वेषां वकानां ()ओतगुणोऽयमधिक इत्यर्थः। "द्विवचनविभज्य" इति विभक्तव्योपपदे तरप्। अत्र सर्वेषामिति षष्ठ()न्तस्य ()ओततरशपब्देन समासे तरपो लोपे "सर्व()ओत इति रूपम्। सर्वमहानिति। "ई()आर" इति शेषः। पूर्ववत्तरप्। "सर्वेषां महत्तरः" इति विग्रहः। इतरसंबन्धिमहत्तावापेक्षया ई()आरस्य महत्त्वमधिकमित्यर्थः।

कृद्योगेति। कृता योगो यस्या इति विग्रहः। "कर्तृकर्मणोः कृतीति विहिते"ति भाष्यम्। इध्मप्रव्रश्चन इति। "कुठार" इति शेषः। प्रवृश्च्यतेऽनेनेति प्रव्रश्चनः"। करणे ल्युट्। इध्मानां प्रव्रश्चन इति विग्रहः। कर्मणि षष्ठी। "प्रतिपदविधाने"ति वक्ष्यमाणनिषेधस्यापवादोऽयम्।

तत्त्व-बोधिनी
याजकादिभिश्च ६१६, २।२।९

याजकादिभिश्च। याजक। पूजक। परिचारक। परिवेषक। स्नातक। अध्यापक। उत्पादक। होतृष। पोतृ। भर्तृ। रथगणक। पत्तिगणक। वृत्।

गुणात्तरेण तरलोपश्चेति वक्तव्यम्। गुणात्तरेणेति। एतच्च वार्तिकं "सर्वं गुणकार्त्स्न्ये"इत्यत्र पठितम्।

कृद्योगा[च] षष्ठी समस्यत इथि वाच्यम्।कृद्योगा षष्ठीति। "कर्तृकर्मणोः कृती"ति कृत्सनियोगेन कृतेत्यर्थः। यदा तु "प्रतिपदविधाने"त्यादिनिषेधवचनमारभ्यते, तदेदं तद्बाधनायारब्धव्यम्। तस्यैवाऽनारभ्यत्वमनुपदं वक्ष्यामः। इध्मव्रश्चन इति। वृक्ष्यते छिद्यतेऽनेनेति व्रश्चनः=कुठारादिति। करणे ल्युट्। इध्मानामिति कर्मषष्ठ()न्तस्यानेन समासः।