प्रथमावृत्तिः
सूत्रम्॥
नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च॥ २।३।१६
पदच्छेदः॥
नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च ५।१ च ० चतुर्थी १।१ १३
काशिका-वृत्तिः
नमःस्वस्तिस्वाहास्वधा ऽलंवषड्योगाच् च २।३।१६
नमः स्वस्ति स्वाहा स्वधा अलम् वषटित्येतैर् योगे चतुर्थी विभक्तिर् भ्वति। नमो देवेभ्यः। स्वस्ति प्रजाभ्यः। स्वाहा अग्नये। स्वधा पितृभ्यः। अलं मल्लो मल्लाय। अलम् इति पर्याप्त्यर्थग्रहणम्। प्रभुर्मल्लो मल्लाय। शक्तो मल्लो मल्लाय्। वशडग्नये। वषडिन्द्राय। चकारः पुनरस्य एव समुचयार्थः। तेन आशीर्विवक्षायाम् अपि षष्ठीं वाधित्वा चतुर्थ्येव भवति। स्वस्ति गोभ्यो भूयात्। स्वस्ति ब्राह्मणेभ्यः।
लघु-सिद्धान्त-कौमुदी
नमस्स्वस्तिस्वाहास्वधालंवषड्योगाच्च ९०१, २।३।१६
एभिर्योगे चतुर्थी। हरये नमः। प्रजाभ्यः स्वस्ति। अग्नये स्वाहा। पितृभ्यः स्वधा। अलमिति पर्याप्त्यर्थग्रहणम्। तेन दैत्येभ्यो हरिरलं प्रभुः समर्थः शक्त इत्यादि॥ इति चतुर्थी।
न्यासः
नमःस्वस्तिस्वाहास्वधालंवषड�आगाच्च। , २।३।१६
"अलमिति पर्याप्त्यर्थस्य ग्रहणम्" इति। "तस्मै प्रभवति सन्तापादिभ्यः"
५।१।१०० इत्यलंशब्दसमानार्थेन प्रभवतिशब्देन योगे चतुर्थीनिर्देशाल्लिङ्गात्। ननु चास्माल्लिङ्गादर्थस्येदं ग्रहणम्, न तु शब्दस्येत्येषोऽर्थः प्रतीयते; न तु पर्याप्त्यर्थस्येत्येषोऽर्थः। तथा च भूषणप्रतिषेदयोरपि ग्रहणं स्यात्। एवञ्च कन्यामलंकुरुते, अलं बाले रोदनेनेत्यादावपि चतुर्थी स्यात्; नैष दोषः; सामथ्र्यात् पर्याप्त्यर्थस्यैव ग्रहणं भविष्यति,
कथम्? कन्यामलङकुरुते इत्यत्र "उपपदविभक्तेः कारकविभक्तिर्बलीयसी" (चां।प।६९) इति "कर्मणि द्वितीया"
२।३।२ इति द्वितीययैव भवितव्यम्। "अलं बाले रोदनेन" इत्यत्राप्यत एव हेतोः करणे तृतीययैव। अत्र हि रोदनं करणभावमापन्नमेव प्रतिषेधेन सम्बध्यत इति सामथ्र्यात् पर्याप्त्यर्थस्य ग्रहणं सम्पद्यते। "चकारः पुनरस्यैव समुच्चयार्थः" इति। यदेतन्नमःप्रभृतियोगे चतुर्थीविधानं तत्समुच्चयार्थश्चकारः। तेन पुनर्विध्नात् "चतुर्थी चाशिष्यायुष्य"
२।३।७३ इत्यादिनाशीर्विवक्षायां पक्षे या षष्ठी विधीयते तामपि बाधित्वा चतुर्थ्येव भवति। यद्यवम्, कारकविभक्तिमपि बाधित्वा "कन्यामलङ्कुरुते" इत्यादौ चतुर्थ्येव स्यात्, ततश्च यदुक्तम्- सामथ्र्यात् पर्याप्त्यर्थस्यैव ग्रहणं भविष्यतीति,
तन्नोपपद्यते? नैष दोषः; कारकविभक्तेर्बलीयस्त्वात्, पुनर्विधानस्य चान्यत्र चरितार्थत्वात्। अथ वा-- वक्ष्यमाणा विभाषा सिंहावलोकितन्यायेनेहाप्युपतिष्ठते। तेन "कन्यामलङ्कुरुते इत्यादौ चतुर्ती न भवति॥
बाल-मनोरमा
नमःस्वस्तिस्वाहास्वधाऽलंवषड�ओगाच्च ५७५, २।३।१६
नमःस्वस्ति। युज्यत इति योगः। कर्मणि घञ्। "नमस्" इत्यादिभिर्युक्तादित्यर्थः। फलितमाह--एभिर्योगे इति। न च तादथ्र्यचतुथ्र्या गतार्थत्वं शङ्क्यं, तादथ्र्यस्य शेषत्वविवक्षायां षष्ठीनिवारणार्थत्वात्। तादथ्र्यं हि उपकार्योपकारकभावः, तस्य यदा सम्बन्धत्वेन भानं तदा षष्ठी, यता "गुरोरिदं गुर्वर्थ"मिति भाष्ये स्पष्टम्। एवंच नमःस्वस्त्यादियोगे तादथ्र्यस्य शेषत्वविक्षायामपि चतुर्थ्येवेत्येतदर्थमिदं सूत्रम्।
ननु नमस्करोति देवानित्यत्रापि चतुर्थी स्यादित्यत आह--उपपदविभक्तेरिति। पदान्तरयोगनिमित्तिका विभक्तिः-उपपदविभक्ति, तदपेक्षया कारकविभक्तिर्बलीयसीत्यर्थः। "अन्तरान्तरेणे"ति सूत्रे भाष्ये पठितमिदं वचनम्। तच्च न्यायसिद्धम्। क्रियाकारकयोर्हि सम्बन्धः-अन्तरङ्गः। उपपदार्थेन तु यत्किञ्चित्क्रियाकारकभावमूलकः सम्बन्ध इति तन्निमित्ता विभक्तिर्बहिरङ्गेति कैयटः। अन्ये तूपपदविभक्त्या सम्बन्धसामान्यमवगम्यते, विशेषावगमस्तु प्रकरणादिपर्यालोचनया लभ्यः। कारकविभक्त्या तु कर्मत्वादिसम्बन्धविशेषो झटित्येवावगम्यत इति सा बलीयसीत्याहुः। नमस्करोति देवानिति। कारशिरःसंयोगादिना तोषयतीत्यर्थः। करशिरःसंयोगादिमात्रार्थत्वेऽकर्मकत्वापातात्। प्रजाभ्यः स्वस्तीति। प्रजासम्बन्धि कुशलमित्यर्थः। अग्नये स्वाहेति। अग्न्युद्देश्यकं द्रव्यदानमित्यर्थः। पितृभ्यः स्वधेति। पित्तुद्देश्यकं द्रव्यदानमित्यर्थः। स्वं रूपं शब्दस्य" इति अलशब्दस्यैव ग्रहणे "कुमारीणामलङ्कार" इत्यत्रातिव्याप्तिः। किंच दैत्येभ्यो हरिरलमित्यत्रैव स्यात्, "दैत्येभ्यो हरिः प्रभु"रित्यादौ न स्यादित्यत आह--अलमितीति। वार्तिकमेतत्। अलमित्यनेन पर्याप्त्यर्थकशब्दानां ग्रहणमित्यर्थः। तेनेति। पर्याप्त्यर्थग्रहणेनेत्यर्थः। इत्यादीति। आदिना "कुमारीणामलङ्कार" इत्यत्रातिव्याप्तिनिराससङ्ग्रहः। ननु "प्रभुर्बुभूषुर्भुवनत्रयस्ये"त्यादौ कथं षष्ठीत्यत आह--प्रभ्वादियोगे षष्ठीति। कुत इत्यत आह--स एषां ग्रामणारात निर्देशादिति। नन्वेवं सति "दैत्येभ्यः प्रभु"रिति चतुर्थी न स्यात्। अलंशब्दस्तु पर्याप्तीतरार्थक एव भविष्यतीत्यत आह--तस्मै प्रभवतीति। वषडिन्द्रायेति। इन्द्रोद्देश्यकं हविर्दानमित्यर्थः। ननु स्वस्ति गोभ्यो भूयादित्याशीर्वाक्ये चतुर्थ्येवेष्यते। तत्र "चतुर्थी"चाशिष्यायुष्ये"त्यादिना परत्वात्पक्षे षष्ठीप्रसङ्गः इत्यत आह--चकारः पुनर्विधानार्थ इति। तेनेति। पुनर्विधानसामर्थ्येनेत्यर्थः।