पूर्वम्: २।३।७२
अनन्तरम्: २।४।१
 
प्रथमावृत्तिः

सूत्रम्॥ चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः॥ २।३।७३

पदच्छेदः॥ चतुर्थी १।१ आशिषि ७।१ आयुष्यमद्रभद्रकुशलसुखार्थहितैः ३।३ अन्यतरस्याम् ७२ षष्ठी १।१ ५० शेषे ७।१ ५०

काशिका-वृत्तिः
चतुर्थी च आशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः २।३।७३

आशिषि गयमानायाम् आयुष्य मद्र भद्र कुशल सुख अर्थ हित इत्येतैर् योगे चतुर्थी विभक्तिर् भवति। चकारो विकल्पानुकर्षणार्थः। शेषे चतुर्थीविधानात् तया मुक्ते षष्ठी विभक्तिर् भवति। अत्र आयुष्याऽदीनां पर्यायग्रहणं कर्तव्यम्। आयुष्यं देवदत्ताय भूयात्, आयुष्यं देवदत्तस्य भूयात्। चिरं जीवितं देवदत्ताय देवदत्तस्य वा भुयात्। मद्रं देवदत्ताय देवदत्तस्य वा भूयात्। भद्रं देवदत्ताय, भद्रं देवदत्तस्य। कुशलं देवदत्ताय, कुशलं देवदत्तस्य। निरामयं देवदताय, निरामयं देवदत्तस्य। सुखं देवदत्ताय, सुखं देवदत्तस्य। शं देवदत्ताय, शं देवदत्तस्य। अर्थो देवदत्ताय, अर्थो देवदत्तस्य। प्रयोजनं देवदत्ताय, प्रयोजनं देवदत्तस्य। हितं देवदताय, हितं देवदत्तस्य। पथ्यं देवदत्ताय, पथ्यं देवदत्तस्य। आशिषि इति किम्? आयुष्यं देवदत्तस्य तपः। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्य तृतीयः पादः। द्वितीयाध्यायस्य चतुर्थः पादः।
बाल-मनोरमा
चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः ६२३, २।३।७३

चतुर्थी च। एतदर्थैरिति। आयुष्य, मद्र भद्र, कुशल, सुख, अर्थ, हित-एतदर्थकैरित्यर्थः। पक्षे षष्ठीति। चकारेण तत्समुच्चायावगमादिति भावः। आयुष्यपर्यायश्चिरञ्जीवितमिति। कुशलं निरामयमिति मद्रभद्रपर्यायौ। शमिति सुखपर्यायः। प्रयोजनमित्यर्थपर्यायः। पथ्यमिति हितपर्यायः। "हितयोगे चे"ति नित्यचतुर्थी तु नाशिषि ज्ञेया। ननु "स्वं रूपमि"ति परिभाषया आयुष्यादिशब्दानामेव ग्रहणमुचितमित्यत आह--व्याख्यानादिति। ननु मद्रभद्रयोः पृथग्ग्रहणादेतदर्थैरिति व्याख्यानमयुक्तमित्यत आह--मद्रभद्रयोरिति। इति षष्ठी।

तत्त्व-बोधिनी
चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुकार्थहितैः ५५५, २।३।७३

हितमिति। "हितयोगे च" इत्यनाशिषि चरितार्थमित्याशिष्ययं विकल्प इथि भावः। व्याख्यानादिति। सूत्रेऽर्थशब्दोऽपि पृथङ् निमित्तं, तथा च द्वन्द्व एवाऽयं न त्वर्थशब्देन बहुव्रीहिरिति भावः। इति षष्ठी।