पूर्वम्: २।३।१९
अनन्तरम्: २।३।२१
 
प्रथमावृत्तिः

सूत्रम्॥ येनाङ्गविकारः॥ २।३।२०

पदच्छेदः॥ येन ३।१ अङ्गविकारः १।१ तृतीया १।१ १८

काशिका-वृत्तिः
येन अङ्गविकारः २।३।२०

अङ्गशब्दो ऽत्र अङ्गसमुदाये शरीरे वर्तते, येन इति च तदवयवो हेतुत्वेन निर्दिश्यते। येन अङ्गेन विकृतेन अङ्गिनो विकारो लक्ष्यते, ततस् तृतीया विभक्तिर् भवति। अक्ष्णा काणः। पादेन खञ्जः। पाणिना कुन्ठः। अवयवधर्मेण समुदयो व्यपदिश्यते। अङ्गविकारः इति किम्? अक्षि काणमस्य।
न्यासः
येनाङ्गविकारः। , २।३।२०

अयमङ्गशब्दोऽवयवे प्रसिद्धः। स यदि तत्रैव वत्र्तमान इह गृह्रते तदाऽत्रैव स्यात्-- अक्षि काणमस्येति; अत्र ह्रक्ष्णः शरीरावयवस्य विकारः काणेन गुणेन द्योत्यत इति। इह तु न स्यात्-- अक्ष्णा काण इति। न ह्रत्रावयवस्याक्ष्णो विकारो लक्ष्यते, किं तर्हि? अङ्गनः समुदायस्येत्यत आह-- "अङ्गशब्दोऽत्र"इत्यादि। अङ्गमस्यास्तीत्यङ्गः, अर्श आदित्वादच्प्रत्ययान्तोऽङ्गशब्द उपात्त इति दर्शयति; अङ्गिनोऽङ्गापेक्षत्वात्। यदपेक्षयाऽङ्गिनोऽङ्गित्वं तदेव येनेत्यनेन निर्दिश्यत इति दर्शयितुमाह-- "येन" इत्यादि। विकृतेनेति सामथ्र्याल्लब्धमर्थं दर्शयति। न ह्रविकृतेनाङ्गनिनोऽङ्गेन विकारो लक्ष्यते। "लक्ष्यते" इति। द्योत्यत इत्यर्थः। "अक्ष्णा काणः" इति। अत्राक्ष्णाऽवयवेन विकृतेनाङ्गिनो देवदत्तस्य विकारो लक्ष्यत इति तत्सतृतीया। विभक्तिर्भवति। कथं पुनरवयवेन विकृतेन समुदायस्तथा व्यपदिश्यत इत्याह-- "अवयवधर्मेण" इत्यादि। याथाऽढ()मिदं नगरमित्यवयवधर्मेणाढ()त्वेनात्र समुदायो व्यपदिश्यते, तथेहाप्यवयवेन विकृतन समुदायो व्यपदिश्यत इति। कथं पुनरत्राक्षिशब्दस्य प्रयोगः क्रियते, यावता विनाऽपि तेन काणत्वं गुणः समुदायस्य प्रत#ईयत एव? सत्यमेतत्; लौकिके शब्दप्रयोगे गुरुलाघनं प्रत्यनादरात्। यस्तु तदाद्रियते सोऽक्षिशब्दं न प्रयुङ्क्त एव। "अक्षि काणमस्य" इति। अत्रासत्यङ्गग्रहणे काणशब्दात् तृतीया स्यात्। लक्ष्यते हि काणत्वेन गुणेनाक्ष्णो विकारः समुदायस्यावयवस्य॥
बाल-मनोरमा
येनाङ्गविकारः ५५७, २।३।२०

येनाङ्गविकारः। अङ्गान्यस्य सन्तीत्यङ्गं=शरीरम्। अर्शाअद्यच्। तस्य विकार इति विग्रहः। येनेत्यनेन प्रकृत्यर्थभूतमङ्गं परामृश्यते। नह्रविकृतेन अङ्गेन अङ्गिनो विकारः संभवति। तदाह--येनाङ्गेनेत्यादिना। अक्ष्णा काण इति। काणशब्दः काणत्ववति वर्तते। संबन्धस्तृतीयार्थः। स च काणत्वेऽन्वेति। तदाह--अक्षिसंबन्धीति। संबन्धश्च विकारप्रयुक्तत्वरूपः। अक्षिविकारप्रयुक्तकाणत्ववानिति यावत्। यद्यपि एकमक्षि विकलं काणमित्युच्यते, तथाप्यवयवधर्मस्य शरीरे तदवच्छिन्नात्मनि व्यवहारो निरूढः। द्वौ विप्रावितिवत् अक्ष्णेति पदस्य प्रयोगः समर्थ्यः।

तत्त्व-बोधिनी
येनाङ्गविकारः ४९९, २।३।२०

येनाङ्गेति। येनेति सर्वनाम्ना प्रकृत्यर्थभूतोऽवयव एव गृह्रते, संनिधानात्। स चाऽर्थाद्विकृत एव। न ह्रविकृकेनावयवेन शरीरस्य विकारः संभवति, तदेतदाह--येनाङ्गेन विकृतेनेति। अङ्गिन इति। सूत्रेऽङ्गशब्दोऽर्शाअद्यजन्त इति भावः।

तत्त्व-बोधिनी
येनाङ्गविकारः ५०२, २।३।२०

येनाङ्गेति। येनेति सर्वनाम्ना प्रकृत्यर्थभूतोऽवयव एव गृह्रते, संनिधानात्। स चाऽर्थद्विकृत एव। न ह्रविकृतेनावयवेन शरीरस्य विकारः संभवति, तदेतदाह--येनाङ्गेन विकृतेनेति। अङ्गिन इति। सूत्रेऽङ्गशब्दोऽर्शाअद्यजन्त इति भावः।