पूर्वम्: २।३।३७
अनन्तरम्: २।३।३९
 
प्रथमावृत्तिः

सूत्रम्॥ षष्ठी चानादरे॥ २।३।३८

पदच्छेदः॥ षष्ठी १।१ ४१ अनादरे ७।१ यस्य ६।१ ३७ ३७ भावेन ३।१ ३७ भावलक्षणम् १।१ ३७ सप्तमी १।१ ३६

काशिका-वृत्तिः
षष्ठी च अनादरे २।३।३८

पूर्वेण सप्तम्यां प्राप्तायां षष्ठी विधीयते, चकारात् सा ऽपि भवति। अनादराधिके भावलक्षने भाववतः षष्ठीसप्तम्यौ विभक्ती भवतः। रुदतः प्राव्राजीत्, रुदति प्राव्राजीत् क्रोशतः प्राव्राजीत्, क्रोशति प्राव्राजीत्। क्रोशन्तमनादृत्य प्रव्रजितः इत्यर्थः।
न्यासः
षष्ठी चानादरे। , २।३।३८

अनादरः तिरस्कारः, परिभव इत्यर्थः। "रुदतः" इति। "रुदिर् अश्रुविमोचने" (धा।पा।१०६७) शतृप्रत्ययः॥
बाल-मनोरमा
षष्ठी चाऽनादरे ६२७, २।३।३८

षष्ठी चानादरे। चातसप्तमीत्यनुकृष्यते। अनादरे इति विषयसप्तमी। यस्य चेति पूर्वसूत्रमनुवर्तते। अनादरे गम्यमाने सति यस्य क्रियया क्रियान्तरं लक्ष्यते ततः षष्ठी सप्तमी चेत्यर्थः। फलितमाह--अनादराधिक्ये इति। अनादरोऽधिको यस्मादिति विग्रहः। रुदति रुदत इति। "कदा संन्यस्तवा"निति प्रश्ने उत्तरमिदम्। अत्र लक्षकत्वं षष्ठीसप्तम्योरर्थः। अनादरविशिष्टं प्रव्रजनं धात्वर्थः। षष्ठीसप्तम्यौ तात्पर्यग्राहिके। अनादरश्च लक्षकक्रियाश्रयपुत्रादिविषयः। वर्तमानरोदनक्रियाविशिष्टपुत्रादिज्ञाप्यमनादरविशिष्टं प्रव्रजनमित्यर्थः।

तत्त्व-बोधिनी
षष्ठी चाऽनादरे ५५८, २।३।३८

षष्ठी चानादरे। अनादर इति। "यस्य च भावेन" इत्यनेन सप्तमी। अनादरे सति यो भावं लक्षयतीति। तदेत्फलितमाह अनादराधिक्य इति। केवलभावलक्षणे सप्तम्येव, अनादराधिक्ये तु षष्ठीसप्तम्याविति निष्कर्षः।