पूर्वम्: २।३।३५
अनन्तरम्: २।३।३७
 
प्रथमावृत्तिः

सूत्रम्॥ सप्तम्यधिकरणे च॥ २।३।३६

पदच्छेदः॥ सप्तमी १।१ ४१ अधिकरणे ७।१ दूरान्तिकार्थेभ्यः ५।३ ३५ अनभिहिते ७।१

अर्थः॥

अनभिहिते अधिकरणे सप्तमी विभक्तिः भवति, चकारात् दूरान्तिकार्थेभ्यः च।

उदाहरणम्॥

कटे आस्ते। शकटे आस्ते। स्थाल्यां पचति॥ दूरान्तिकार्थेभ्यः - दूरे ग्रामस्य। विप्रकृष्टे ग्रामस्य। अन्तिके ग्रामस्य। अभ्याशे ग्रामस्य॥
काशिका-वृत्तिः
सप्तम्यधिकरने च २।३।३६

सप्तमी विभक्तिर् भवत्यधिकरणे कारके, चकाराद् दूरान्तिकार्थेभ्यश्च। कटे आस्ते। शकटे आस्ते। स्थाल्यां पचति। दूरान्तिकार्थेभ्यः खल्वपि दूरे ग्रामस्य। अन्तिके ग्रामस्य। अभ्याशे ग्रामस्य। दूरन्ति कार्थेभ्यश्चतस्रो विभक्तयो भवन्ति, द्वितीयातृतीयापञ्चमीसप्तम्यः। सप्तमीविधाने क्तस्येन्विषयस्य कर्मण्युपसङ्ख्यानम्। अधीती व्याकरणे। परिगणिती याज्ञिके। आम्नाती छन्दसि। साध्वसाधुप्रयोगे च सप्तमी वक्तव्या। साधुर्देवदत्तो मातरि। असाधुः पितरि। कारकार्हाणां च कारकत्वे सप्तमी वक्तव्या। ऋद्धेषु भुञ्जानेषु दरिद्रा आसते। ब्राह्मणेषु तरत्सु वृषला आसते। अकारकार्हाणां चाकरकत्वे सप्तमी वक्तव्या। दरिद्रेष्वासीनेषु ऋद्धा भुञ्जते। वृषलेष्वासीनेषु ब्राह्मणास् तरन्ति। तद्धिपर्यासे च सप्तमी वक्तव्या। ऋद्धेष्वासीनेषु दरिद्रा भुञ्जते। ब्राह्मणेष्वासीनेषु वृषलास् तरान्ति। निमित्तात् कर्मसंयोगे सप्तमी वक्तव्या। चर्मणि द्वीपिनं हन्ति दन्तयोर् हन्ति कुञ्जरम्। केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः।
लघु-सिद्धान्त-कौमुदी
सप्तम्यधिकरणे च ९०६, २।३।३६

अधिकरणे सप्तमी स्यात्, चकाराद्दूरान्तिकार्थेभ्यः। औपश्लेषिको वैषयिको ’ भिव्यापकश्चेत्याधारस्त्रिधा। कटे आस्ते। स्थाल्यां पचति। मोक्षे इच्छास्ति। सर्वस्मिन्नात्मास्ति। वनस्य दूरे अन्तिके वा॥ इति सप्तमी।इति विभक्त्यर्थाः॥
लघु-सिद्धान्त-कौमुदी
अथ समासाः ९०६, २।३।३६

लघु-सिद्धान्त-कौमुदी
तत्रादौ केवलसमासः। समासः पञ्चधा। तत्र समसनं समासः। स च विशेषसंज्ञा विनिर्मुक्तः केवलसमासः प्रथमः १ प्रायेण पूर्वपदार्थप्रधानोऽव्ययीभावो द्वितीयः २ प्रायेणोत्तरपदार्थप्रधानस्तत्पुरुषस्तृतीयः तत्पुरुषभेदः कर्मधारयः। कर्मधारयभेदो द्विगुः ३ प्रायेणान्यपदार्थप्रधानो बहुव्रीहिश्चतुर्थः ४ प्रायेणोभयपदार्थप्रधानो द्वन्द्वः पञ्चमः ५ ९०६, २।३।३६

न्यासः
सप्तम्यधिकरणे च। , २।३।३६

"दूरान्तिकार्थेभ्यश्चतरुआओ विभक्तयो भवन्ति" इति। पूर्वसूत्रेण द्वितीयादयस्तिरुआः, अनेन सप्तमी। "सप्तमीविधाने क्तस्येन्विषयस्य" इत्यादि। इन्विषयो यः क्तस्तदीये कर्मणि सप्तमी। विधेया। कश्चेन्विषः क्तः? यस्तदन्तस्तेनैव सह प्रयुज्यत इत्यर्थः। अनन्यत्रभावार्थत्वादत्र विषयशब्दस्य। "अधीती व्याकरणे" इति। अधीतं व्याकरणमनेनेति। "श्राद्धमनेन भुक्तम्" ५।२।८४ इत्यतोऽनेनेत्यनुवत्र्तमाने "पूर्वादीनिः" ५।२।८५ इत्यत इनिरित्यनुवत्र्तमाने च "इष्टादिभ्यश्च" ५।२।८७ इतीनिप्रत्ययः। अत्र यद्यपि कर्मण्येव क्तो विहितस्तथापि तद्धित उत्पन्नेऽधीतव्याकरणोरभिसम्बन्धो निवत्र्तते। अस्ति च धात्वर्थस्य व्याकरणेन सम्बन्ध इति कर्मैव व्याकरणं भवतीत्यतो द्वितीया स्यात्, यथा-- कृतपूर्वी कटमिति। तस्मात् सप्तम्या उपसंख्यानम् = प्रतिपादनं कत्र्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम्()-- योऽसावधीती कत्र्ता तस्य व्याकरणं विषमत्वेन विवक्ष्यते। तस्मादधिकरण इत्येवं सिद्धा सप्तमी॥ "साध्वसाधुप्रयोगे" इत्यादि। अनर्चार्थमिह साधुशब्दस्य ग्रहणम्। अर्चायां हि "साधुनिपुणाभ्यामर्चायाम्" २।३।४३ इत्यनेनैव सिद्धा सप्तमी। "साधुर्देवदत्तो मातरि" इत्यादि। अत्राप्यधिकरण एव सप्तमी। तथा ह्रत्र मातृस्थासु क्रियासु मातृशब्दो वर्तते, पितृस्थासु क्रियासु पितृशब्दः; तासाञ्च क्रियाणां साध्वसाधुतां प्रति विषयभावोऽस्तीति वैषयिकाधिकरण एव सप्तमी। वक्तव्यशब्दस्तु व्याख्येय इत्यर्थे वत्र्तते। एवमुत्तरत्रापि। "कारकार्हाणाञ्च" इत्यादि। भावप्रधानोऽत्र कारकशब्दः। क्रियां प्रति येषां कारकत्वं साधनत्वं न्याय्यं ते कारकार्हाः, तेषां कारकार्हत्वे सप्तमी वक्तव्या। "ऋद्धेषु" इत्यादि। ऋद्धा हि भुजिक्रियां प्रति साधनभावमर्हिन्ति। तेषामेव चेह कारकत्वं विवक्षितम्। एतदनुसारेण कारकार्हाणाञ्चाकारकत्व इत्येवमादेरर्थो वेदितव्यः। अत्रापि सर्वत्र "यस्य च भावेन भावलक्षणम्" २।३।३७ इत्येनैव सिद्धा सप्तमी। तथा हि-- ऋद्धादिसम्बन्धिना भुजिक्रियादिलक्षणेनात्र भावेन दरिद्रादिसम्बन्ध्यासनादिभावो लक्ष्यते। "चर्मणि द्वीपिनं हन्ति" इत्यत्र द्वीपिननस्य निमित्तं चर्म, तस्य द्वीपिना कर्मणा सह संयोगः। अत्रापि चकारस्यानुक्तसमुच्चयार्थत्वात् सिद्धा सप्तमी। ननु च दूरान्तिकार्थानुकर्षणार्थश्चकारःच नार्थस्तदनुकर्षणार्थेन चकारेण, सप्तमीति योगविभगादेव दूरान्तिकार्थेभ्यः सप्तममी भविष्यति। अथ वा-- उत्तरसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात् सप्तमी वेदितव्या॥
बाल-मनोरमा
सप्तम्यधिकरणे च ६२५, २।३।३६

सप्तम्यधिकरणे च। चकाराद्दूरेति। "दूरान्तिकार्थेभ्यो द्वितीया चे"ति पूर्वसूत्रात् "दूरान्तिकार्थेभ्यः" इत्यस्य चकारेणानुकर्षणादिति भावः। औपश्लेषिक इति। उपश्लेषः=संयोगादिसंबन्धः, तत्प्रयोज्य आधारः प्रथम इत्यर्थः। वैषयिक इति। विषयतासंबन्धकृत आधारो द्वितीय इत्यर्थः। अभिव्यापक इति। सकलावयवव्याप्तिकृत आधारस्तृतीय इत्यर्थः। तत्र औपश्लेषिकं कर्तृद्वारकमाधारमुदाहरति--कटे आस्ते इति। "देवदत्तः" इति शेषः। तत्र साक्षाद्देवदत्तात्मककर्तृगतामासनक्रियां प्रति कटस्य संयोगसम्बन्धं पुरस्कृत्य देवदत्तद्वारा तदाधारत्वादधिकरणत्वम्। अथ कर्मद्वारकमौपश्लेषिकमाधारमुदाहरति-स्थाल्यां पचतीति। "तण्डुला"निति शेषः। अत्र साक्षात्तण्डुलात्मककर्मगतां पाकक्रियां प्रति स्थाल्याः संयोगसम्बन्धं पुरस्कृत्य तण्डुलद्वारा आधारत्वादधिकरणत्वम्। रूपे रूपत्वमस्ति, शरीरे चेष्टास्तीत्यादौ समवायेन औपश्लेषिकमाधारत्वमित्यादि ज्ञेयम्। अथ वैषयिकमाधारमुदाहरति--मोक्षे इच्छास्तीति। अत्र कर्तृभूतेच्छागतां सत्ताक्रियां प्रति मोक्षस्य विषयतासम्बन्धपुरस्कारेण इच्छाद्वाराऽ‌ऽधारत्वादधिकरणत्वम्। अथाऽभिव्यापकमाधारमुदाहरति--सर्वस्मिन्नात्मास्तीति। अत्र आत्मरूपकर्तृगतां सत्ताक्रियां प्रति कृत्स्नव्या()प्त पुरस्कृत्य आत्मद्वारा सत्ताधारत्वात्सर्वस्याधिकरणत्वम्। अथ चकारानुकृष्टदूरान्तिकार्थेभ्य उदाहरति--वनस्य दूरे अन्तिके वेति। दूरमन्तिकमित्यर्थः। प्रातिपदिकार्थमात्रे विधिरयम्। विभक्तित्रयेणेति। द्वितीयापञ्चमीतृतीयाभिरित्यर्थः। वस्तुतस्तु उप समीपे श्लेषः संबन्धः, तत्कृतमौपश्लेषिकमिति व्युत्पत्त्या सामीपिकमेवाधारत्वमौपश्लेषिकम्। अत एव "अधिकरणं नाम त्रिप्रकारं, व्यापकमोपश्लेषिकं वैषयिकमिति। शब्दस्य तु शब्देन कोऽन्योऽभिसंबन्धो भवितुमर्हति अन्यदत उपश्लेषात्। "इको यणचि" अच्युपश्लिष्टस्ये"ति "संहितायाम्" इत्यत्र भाष्यं सङ्गच्छते। अच्युपश्लिष्टस्य=अच्समीपोच्चारितस्येत्यर्थ इति कैयटः। अत एव मासेऽतिक्रान्ते दीयत इत्यत्र मास औपश्लेषिकमधिकरणमिति "तत्र च दीयते कार्यं भववत्" इत्यत्र भाष्यं सङ्गच्छते। अत एव च "तदस्मिन्नधिकमिति दशान्ताड्डः" इत्यत्र एकादश भाषा अधिक अस्मिन् कार्षापणशते इत्यत्राधिकानां एकादशानां कथं शतरुआधिकरणमित्याक्षिप्य व्यापकवैषयिकाधिकरणसंभवादौपश्लेषिकमधिकरणं विज्ञायत इति भाष्यं सङ्गच्छते। एवंच "कटे आस्ते" इत्यादौ औपश्लेषिकाधारोदाहरणं मूलोक्तमनुपपन्नमेव, उक्तभाष्यविरोधात्। एवंच "कटे आस्ते" इत्यादौ एकदेशव्याप्त्या गौणमभिव्यापकाधारत्वम्। सर्वावयवव्याप्तिकृताधिकरणत्वमेव मुख्यम्, वैषयिकमौपश्लेषिकं च गौणमित्यर्थस्य भाष्यसंमतत्वात्। अत एव "स्वरितेनाधिकारः" इति सूत्रे "साधकतमं करण"मिति सूत्रे च भाष्ये "अधिकरणमाचार्यः किं मन्यते?। यत्र कृत्स्नमाधारात्मा व्याप्तो भवति। तर्हि इहैव सप्तमी स्यात्-तिलेषुतैलं, दध्निसर्पिरिति। गङ्गायां घोषः, कूपे गर्गकुलमित्यत्र तु न स्यात्, मुख्य एव कार्यसंप्रत्यया"दित्याशङ्क्य स्वरितेनाधिकं कार्यं भवतीति वचनात्तमब्ग्रहणाच्च न दोष इति समाहितम्। एवंच "कटे आस्ते, गङ्गायां घोषः" इत्यादौ गौणमप्यधिकरणं सप्तम्यर्थं एव। यदि तु "गङ्गायां घोषः" इत्यादौ सामीपिकमधिकरणत्वं न विवक्ष्यते तदा लक्षणेति बोध्यम्। विस्तरस्तु शब्देन्दुशेखरे द्रष्टव्यः। क्तस्येन्विषयस्येति। न च "कृतपूर्वी कट"मित्यत्रापि सप्तमी शङ्क्या, इन्प्रत्ययान्तो यः क्तप्रत्ययान्तस्तस्य कर्मणीत्यर्थाभ्युपगमात्। कर्तरीनिरिति। भावक्तान्तादधीतशब्दात् कर्तरीनिप्रत्यये कृते अधीतीत्यस्याधीतवानित्यर्थः पर्यवस्यति। किम् अधीतवानिति कर्मविशेषजिज्ञासायां व्याकरणमध्ययने कर्मत्वेनान्वेति। तच्च व्याकरणकर्मत्वं न केनाप्यभिहितमिति कृतपूर्वी कटमितिवत् द्वितीयायां प्राप्तायामनेन सप्तमीति भावः।

साध्वसाधुप्रयोगे चेति। "सप्तमी वक्तव्ये"ति शेषः। साधुरिति। हितकारीत्यर्थः। असाधुरिति। अहितकारीत्यर्थः। उभयत्र शेषषष्ठ()पवादः। "साधुनिपुणाब्यामर्चाया"मित्येव सिद्धे इह साधुग्रहणमनर्चार्थम्। यथा साधुर्मृत्यो राजनि। इह तत्त्वकथने तात्पर्यम्। साधुनिपुणाभ्यामित्यत्र साधुग्रहणमस्य प्रयोजनं वक्ष्यते।

निमित्तादिति। कर्मयोगे हेतुवाचकाच्छब्दात् सप्तमी वाच्येत्यर्थः। ननु "जाड()एन बद्ध" इत्यत्रापि सप्तमी स्यादित्यत आह--निमित्तमिह फलमिति। फलमेवेत्यर्थः। इष्टसाधनताज्ञानस्य प्रवर्तकतया फलस्यापि हेतुत्वं बोध्यम्। जन्यजन्कत्वादिसंबन्धं व्यावर्तयितुमाह--योगः संयोगेति। अयुतसिद्धयोः संबन्धः समवायः। अन्ययोस्तु संयोगः। चर्मणीति। चर्मार्थं व्याघ्रं हन्तीत्यर्थः। अत्र द्वीपिना कर्मणा चर्मणः समवाय एव, अवयवावयविनोरयुतसिद्धत्वात्। दन्तयोरिति। दन्तार्थमित्यर्थः। अत्र कुञ्जरेण कर्मणा दन्तयोः समवाय एव। केशेष्विति। केशार्थमित्यर्थः। चमरी-मृगविशेषः। सीम्नीति। सीमार्थमित्यर्थः। हेतुतृतीया प्राप्तेति। तादथ्र्यचतुथ्र्यपीति बोध्यम्। सीमा अण्डकोश इति। "सीमा घट्टस्थितिक्षेत्रे()आण्डकोशेषु च स्त्रियाम्" इति मेदिनी। पुष्कलको गन्धमृग इति। "अथ पुष्कलको गन्धमृगे क्षपणकीलयोः" इति मेदिनी। अत्रापि पुष्कलकेन कर्मणा सीम्नः समवाय एव। हरदत्तस्तु-सीमा ग्रामादिमर्यादा, तस्या ज्ञानार्थं पुष्कलकः=शङ्कुर्हतः=निखात इति व्याचष्ट। अत्र पुष्कलकेन कमणा सीम्नः संयोगो बोध्यः। वेतनेनेति। अत्र वेतनं भृतिद्रव्यम्, तदर्थमित्यर्थः। अत्र वेतनस्य लूयमानस्य धान्यस्य च तादथ्र्यमेव संबन्धो, न तु संयोगः, नापि समवाय इति भावः।