पूर्वम्: २।३।४१
अनन्तरम्: २।३।४३
 
प्रथमावृत्तिः

सूत्रम्॥ पञ्चमी विभक्ते॥ २।३।४२

पदच्छेदः॥ पञ्चमी १।१ विभक्ते ७।१ यतः ४१ ४१ निर्धारणम् १।१ ४१

काशिका-वृत्तिः
पञ्चमी विभक्ते २।३।४२

यतश्च निर्धरनम् इति वर्तते। षष्ठीसप्तम्यपवादो योगः। विभागः विभक्तम्। यस्मिन् निर्धारणाऽश्रये विभक्तम् अस्य अस्ति ततः पज्चमी विभक्तिर् भवति। माथुराः पाटलिपुत्रकेभ्यः सुकुमारतराः, आढ्यतराः।
न्यासः
पञ्चमी विभक्ते। , २।३।४२

"विभागो विभक्तम्" इति। "नपुंसके भावे क्तः" ३।३।११४। " यस्मिन्निर्धारणाश्रये" इति। यतो निर्धारयते स इह निर्धारणाश्रय इति सर्वस्मिन्नेव निर्धारणाश्रये विभागोस्तीति विशेषणोपादानसाथ्र्याद्विभाग एव यत्र स निर्धारणाश्रयो विज्ञायते; तेन कृष्णा गवां सम्पन्नक्षीरतमेत्यत्र न भवति। तथा हि-- गोषु निर्धार्यमाण एकदेशो यस्मात् गोत्वेनान्तर्भूतः प्रतीयते तस्मान्नास्ति विभाग इति। यदा तु कृष्णेन गुणेन पथग्भूतः प्रतीयते तदास्ति विभाग इति। नात्र निर्धारणाश्रयो विभाग एव। इह पुनर्माथुराः पाटलिपुत्रकेभ्य आढ()तरा इति माथुरत्वेन नाप्याढ()तरत्वेन माथुराणामन्तर्भावः। तस् #आदत्र विभाग एवेत्ययमस्य योगस्य विषयः। अन्ये त्वाहुः-- यत्र राशीकृत्य पृथक्करणं स पूर्वस्य योगस्य विषयः; यत्र तु पृथग्भूतस्यैव गुणान्तराविष्करणं सोऽस्य; तत्र द्वयोरप्यवस्थयोर्विभाग एवेति कृत्वा अयमपि योगः प्रपञ्चार्थ एव। विभागो हि सम्नब्धात्प्रच्युतिः। पाटलिपुत्रकाश्च सम्बन्धात् प्रच्यवमानानां माथुराणां सम्बन्धे प्रच्युतेरवधिभावमुपवान्तीत्यपादान इत्येवं पञ्चमी सिद्धा॥
बाल-मनोरमा
पञ्चमी विभक्ते ६३१, २।३।४२

पञ्चमी विभक्ते। विभागो विभक्तिमिति। भावे क्तप्रत्ययाश्रयणादिति भावः। "यतश्चनिर्धारण"मित्यनुवर्तते। निर्धारणावधिभूतानां मनुष्यादीनां निर्धार्यमाणानां द्विजानां च सामान्यात्मनाऽभेदो, विशेषात्मना भेदश्च स्थितः। एवं च निर्धारणे सर्वत्र कथंचिद्भेदस्य सत्त्वाद्विभक्त इत्यनेन भेद एवेत्यर्थो विवक्षितः। ततश्च यत्र निर्धारणावधेर्निर्धार्यमाणस्य च भेद एव, न तु केनाप्युपात्तरूपेणाऽभेदस्तत्रैवास्य प्रवृत्तिरित्यभिप्रेत्याह--निर्धार्यमाणस्येति। "निर्धारणावधे"रिति शेषः, "यतश्च निर्धारण"मित्यनुवृत्तेः। अत्रावधिव्यवृत्तधर्मवत्त्वबोधनमेव , न तु समुदायादेकदेशस्येत्यंशो विवक्षितः, असम्भवादित्यभिप्रेत्योदाहरति--माथुरा इति। अवधित्वं पञ्चम्यर्थं मथुरादेशीयाः पाटलीपुत्रदेशीयापेक्षया अतिशयेनाढ()आ धनिन इत्यर्थः। अत्र मथुरादेशीयत्वपाटलीपुत्रदेशीयत्वयोर्गोत्वाऽ()आत्ववद्विरोधात्कथञ्चिदपि तद्रूपेण नाऽभेद इति निर्धारणावधेः पञ्चमीति भावः।

तत्त्व-बोधिनी
पञ्चमी विभक्ते ५६०, २।३।४२

पञ्चमी विभक्ते। भेद एवेति। न तु शब्दान्तरोपात्तसामान्याक्रान्ततेति भावः। तत्र पञ्चमी स्यादिति। नन्वेवं माथुरा इत्यत्रापि पञ्चमी स्यात्। मैवम्। पूर्वसूत्रमिहानुवर्तते। तेन यतो निर्धार्यते तत एवेत्यर्थात् निर्धारणावधेरेव पञ्चमीप्रवृत्तेः। अनभिहिताधिकारान्माथुरा इत्यत्र नातिप्रसङ्ग इत्यन्ये। माथुरा इति। न ह्रत्र निर्धारणावधेर्निर्धार्यमाणस्य च गवां कृष्णेत्यादाविव सामान्यविशेषभावोऽस्ति, किन्तु शब्दोपात्तयोद्र्वयोर्विरोध एव। इदं च सूत्रं बुद्धि परिकल्पितापायमाश्रित्यापादानप्रकरणे भाष्ये प्रत्याख्यातम्।