पूर्वम्: २।३।४२
अनन्तरम्: २।३।४४
 
प्रथमावृत्तिः

सूत्रम्॥ साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः॥ २।३।४३

पदच्छेदः॥ साधुनिपुणाभ्याम् ३।२ अर्चायां ७।१ सप्तमी १।१ ४५ अप्रतेः ६।१

काशिका-वृत्तिः
साधुनिपुणाभ्याम् अर्चायां सप्तम्यप्रतेः २।३।४३

साधु निपुण इत्येताभ्याम् योगे ऽर्चायां गम्यमानायां सप्तमी विभक्तिर् भवति, न चेत् प्रतिः प्रयुज्यते। मातरि साधुः। पितरि साधुः। मातरि निपुणः। पितरि निपुणः। अर्चायाम् इति किम्? साधुर्भृत्यो राज्ञः। तत्त्वकथने न भवति। अप्रतेः इति किम्? साधुर् देवदत्तो मातरं प्रति। अप्रत्यादिभिरिति वक्तव्यम्। साधुर्देवदत्तो मातरम् परि। मातरमनु।
न्यासः
साधुनिपुणाभ्यमर्चायां सप्तम्यप्रतेः। , २।३।४३

"{अप्रत्यादिभिरहित वक्तव्यम्" इति वृत्तौ पाठः} अप्रत्यादेरिति वक्तव्यम्" इति के पुनः प्रत्यादयः? येषां "लक्षणेत्थम्भूताख्यान" १।४।८९ इत्यादिना कर्मप्रवचनीयसंज्ञा विहिता ते प्रतिपर्यनवः इत्यादयः॥ प्रसितशब्दोऽयं गुणवचनोऽप्यस्ति-- प्रकृष्टः सितः प्रसितः, क्रियाशब्दोऽप्यस्ति-- "षिञ् बन्धने" (धा।पा।१४७७) इत्यस्य प्रपूर्वसय् निष्ठायां व्युत्पाद्यते, तत्रेहोत्सुकशब्देन क्रियाशब्देन साहचर्यात् क्रियाशब्दो विज्ञायत इत्यत आह-- "प्रसितः प्रसक्तः" इति। "यस्तत्र नित्यमेवाबद्धः स प्रसितशब्देनोच्यते" इति। आबद्ध इवाबद्धः, यो हि यत्र प्रसक्तः स तत्राबद्ध इव भवति। "केशैः प्रसितः, केशेषु प्रसितः" इत्यादि। प्रसितत्वमुत्सुकत्वञ्च केशविषयमिति "सप्तम्यधिकरणे" २।३।३६ इत्येव सिद्धा सप्तमी पक्षे तृतीयाविधानार्थ वचनम्॥
बाल-मनोरमा
साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः ६३२, २।३।४३

शादुनिपुणाभ्याम्। शेषषष्ठ()पवादः। मातरिसाधुरिति। हितकारीत्यर्थः। निपुणो वेति। मातरि कुशल इत्यर्थः। "शुश्रूषाया"मिति शेषः। निपुणो राज्ञ इति। साधुशब्दप्रयोगे तु अर्चा विनापि सप्तमी भवत्येव, "साध्वसाधुप्रयोगे चे"त्युक्तेः। इह साधुग्रहणं तु अर्चायां प्रत्यादियोगे सप्तमीनिवृत्त्यर्थम्।

अप्रत्यादिभिरिति। प्रति, परि, अनु एतैर्योगे सति साधुनिपुणाभ्यां योगेऽपि न सप्तमीति भावः।

तत्त्व-बोधिनी
साधुनिपुणभ्यामर्चायां सप्तम्यप्रतेः ५६१, २।३।४३

साधुनिपुणाभ्यामर्चायां। "पुण कर्मणि शुभे" अस्मान्निपूर्वादिगुपधलक्षणः कः। "अर्च पूजायाम्" अस्मार्द्भौवीदिकात् "गुरोश्च हलः" इत्यप्रत्यये टाप्। चौरादिकात्तु "ण्यासश्रन्थ---" इति युचि--अर्चनेति स्यात्। निपुणो राज्ञ इति। साधुशब्दप्रयोगे त्वर्चां विना सप्तमी भवत्येव, "साध्वसाधुप्रयोगे च"इति वार्तिकात्।

अप्रत्यादिभिरिति वक्तव्यम्॥ अप्रत्यादिभिरिति। "लक्षणेत्थम्---" इति सूत्रोपात्ताः प्रत्यादयः।