प्रथमावृत्तिः
सूत्रम्॥
प्रसितोत्सुकाभ्यां तृतीया च॥ २।३।४४
पदच्छेदः॥
प्रसितोत्सुकाभ्याम् ३।२ तृतीया १।१ ४५ च ० सप्तमी १।१ ४३
काशिका-वृत्तिः
प्रसितौत्सुकाभ्यां तृतीया च २।३।४४
प्रसित उत्सुक इत्येताभ्यां योगे तृतीया विभक्तिर् भवति, चकारात् सप्तमी च। प्रसितः प्रसक्तः, यस् तत्र नित्यम् एव अवबद्धः स प्रसितशब्देन उच्यते। केशैः प्रसितः केशेषु प्रसितः। केशैरुत्सुकः, केशेषु उत्सुकः।
बाल-मनोरमा
प्रसितोत्सुकाभ्यां तृतीया च लुपि ६३३, २।३।४४
प्रसितोत्सुकाभ्याम्। "तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः" इत्यमरः। वैषयिकाधिकरणत्वे सम्यम्यामेव प्राप्तायामिदं वचनम्।
तत्त्व-बोधिनी
प्रसितोत्सुकाभ्यां तृतीया च ५६२, २।३।४४
प्रसितोत्सुकाभ्यां। "तत्परे प्रसिताऽऽसक्तौ" इत्यमरः। उत्सुकसाहचर्यात् प्रसितोऽपि तत्पर एवेह गृह्रते, रूढ()आ च। तेन प्राकर्षेण सितः=शुक्ल इत्यर्थे न भवति।