पूर्वम्: २।३।४७
अनन्तरम्: २।३।४९
 
प्रथमावृत्तिः

सूत्रम्॥ साऽ‌ऽमन्त्रितम्॥ २।३।४८

पदच्छेदः॥ सा १।१ आमन्त्रितम् १।१ ४९ प्रथमा १।१ ४६

काशिका-वृत्तिः
सा आमन्त्रितम् २।३।४८

सम्बोधने या प्रथमा तदन्तं शब्दरूपम् आमन्त्रितसंज्ञं भवति। तथा च एव उदाहृतम्। आमन्त्रितप्रदेशाः आमन्त्रितं पूर्वम् अविद्यमानवत् ८।१।७२ इत्येवम् आदयः।
न्यासः
साऽ‌ऽमन्त्रितम्। , २।३।४८

"तदन्तं शब्दरूपम्" इति। ननु च "संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति" (पु।प।वृ।८१) इति ज्ञापितमेतत् "सुप्तिङन्तं पदम्" १।४।१४ इत्यत्रान्तग्रहणेन। इह च संज्ञाविधौ प्रत्ययग्रहणम्, तत् कथं तदन्तस्य संज्ञा विधीयते? नैतदस्ति; यद्यपि संज्ञाविधौ प्रत्ययग्रहणमिह, तथाऽपि तदन्तस्यैवेयं संज्ञा विधीयते। यदीह प्रत्ययमात्रस्य संज्ञाग्रहणं स्यात् तदा प्रदेशेषु तस्यैव ग्रहणं स्यात्, तथा च संज्ञाकरणमनर्थकं स्यात्। प्रदेशेषु सम्बोधन इत्येवं ब्राऊयात्। एवमपि प्रत्ययमात्रस्य ग्रहणं लभ्यत एव। तस्यैव सम्बोधने विहितत्वात्। तस्मात् संज्ञाकरणादेव तदन्तस्य संज्ञा लभ्यते। सेति वचनं पूर्वसूत्रेणापि सम्बोधने या विहिता तस्या अपीयं संज्ञा यथा स्यात्-- हे पचन्, हे पचमानेत्यत्र। असति त्वस्मिन् "अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा" (व्या।प।१९) इति पूर्वसूत्रेणैव या विहिता तस्या एव स्यात्; सेत्येतदुच्यमानं सर्वनामपदं सामान्येन प्रवत्र्तत इति कृत्वा। अतः सम्बोधनमात्रे या प्रथमा तां प्रतिपादयति, तेन सर्वत्र संज्ञा सिद्धा भवति। आमन्त्रितसंज्ञायां सत्यां हे देवदत्त इत्यादौ "आमन्त्रितस्य" ६।१।१९२ इत्याद्युदात्तत्वं भवति। "आमन्त्रितम्" इति महत्याः संज्ञायाः करणं वैचित्र्यार्थम्॥
बाल-मनोरमा
सामन्त्रितम् , २।३।४८

सामन्त्रितं। प्रातिपदिकार्तसूत्रोपात्ता प्रथमा "सा" इत्यनेन परामृश्यते। "संबोधने चे"त्यतः "संबोधने" इत्यनुवर्तते। तदाह-संबोधने इत्यादिना। "तदन्त"मिति प्रत्ययग्रहणपरिभाषालभ्यम्। महासंज्ञाकरणात्संज्ञाविधावपि तदन्तग्रहणम्। अत एव हे है भो इत्यादीनामपि संज्ञा सिद्धा।

तत्त्व-बोधिनी
सामन्त्रितम् ३६२, २।३।४८

सामन्त्रितम्। "सम्बोधने चे"त्यतः "सम्बोधने"इत्यनुवर्तते। "से"त्यनेन प्रथमा निर्दिश्यते। महासंज्ञाकरणसामथ्र्यात्संज्ञाविधावपरि तदन्तग्रहणम्। आमन्त्रणमामन्त्रितम्। उपचारात्तत्साधने वृत्तिः। विभक्त्यन्तेन चामन्त्र्यते न केवलया विभक्त्येत्याशयेनाह---तदन्तमिकि।