पूर्वम्: २।३।४६
अनन्तरम्: २।३।४८
 
प्रथमावृत्तिः

सूत्रम्॥ सम्बोधने च॥ २।३।४७

पदच्छेदः॥ सम्बोधने ७।१ प्रथमा १।१ ४६

काशिका-वृत्तिः
सम्बोधने च २।३।४७

आभिमुख्यकरणं, तदधिके प्रातिपदिकार्थे प्रथमा न प्राप्नोति इति वचनम् आरभ्यते। सम्बोधने च प्रथमा विभक्तिर् भवति। हे देवदत्त। हे देवदत्तौ। हे देवदत्ताः।
लघु-सिद्धान्त-कौमुदी
सम्बोधने च ८९२, २।३।४७

प्रथमा स्यात्। हे राम। इति प्रथमा।
न्यासः
सम्बोधने च। , २।३।४७

सम्बोधनम् = अभिमुखीकरणम्, "तदधिके प्रातिपदिक्रथा" इति। अभिमुखीकरणस्य क्रियापरत्वात् प्रातिपदिकार्थे तस्यान्तर्भावो नास्ति, त्सयातदात्मकत्वात्, तस्मात तेनाधिकः प्रातिपदिकार्थो भवति। अथ कथमिह प्रथमा-हे-पचनम्, हे पचमानेति? कथञ्च न स्यात्? शतृशानज्भ्यामुक्तत्वात् सम्बोधनस्य। एतावपि "सम्बोधने च" इति सम्बोधन एव वक्ष्यते। मा भूदनेन, पूर्वसूत्रेण भविष्यति? सम्बोधनार्थस्येह "कृत्तद्धितसमासाश्च" १।२।४६ इत्यनेन प्रातिपदिकार्थत्वात्। योगविभाग उत्तरार्थः॥
बाल-मनोरमा
सम्बोधने च ५२६, २।३।४७

संबोधने च। इहेति। संबोधनेऽधिके गम्येऽपि प्रथमा स्यादित्यर्थः। संबोधमभिमुखीकृत्य ज्ञापनम्। हे रामेति। "मां पाही"ति शेषः। इह रामं प्रति मद्रक्षणं ज्ञाप्यम्। नच "हे राजन्सार्वभौमो भव" इत्यत्र सार्वभौमशब्दादपि संबोधने प्रथमा स्यादिति वाच्यं, सम्यग्बोधनमेव हि संबोधनं, समित्युपसर्गबलात्। श्रोतरि विसिष्य राजत्वादिना ज्ञाते सत्येव तं प्रति कश्चिदर्थौ ज्ञापयितुं शक्यः, नान्यथा। ततश्च संबोधनविभक्तिरियमनुवाद्यविषयैवेति लभ्यते। न तु विधेयविषया। तथाच सार्वभौमत्वस्य विधेयस्य इदानीमसिद्धत्वेन अनुवाद्यत्वाऽभावान्न सार्वभौमशब्दात्संबोधनविभक्तिरिति मञ्जूषायां विस्तरः। [इति प्रथमा]।

तत्त्व-बोधिनी
सम्बोधने च ४७३, २।३।४७

सम्बोधने च। मात्रग्रहणात्तत्प्रत्याख्यानपक्षेऽपि प्रातिपदिकार्थे एव प्रथमेति नियमाद्वा सम्बोधनाधिक्येऽप्राप्तावस्यारम्भः। इह सम्बोधनं प्रकृत्यर्थं प्रति विशेष्यं, क्रिया प्रति विशेषणम्। तथा च "व्रजानि देवदत्त"इत्यादौ "एकत्ङ् वाक्य"मिति वाक्यत्वे सिद्धे "आमन्त्रतस्य चे"ति निघातो भवति, क्रियां प्रत्यविशेषणत्वे तु भिन्नवाक्यत्वान्नैतत्सिद्धेत्, "समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः"इति वार्तिकात्। तथा चोक्तं---"संबोधनपद"यच्च तत् क्रियाया विशेषणम्। व्रजानि देवदत्तेति निघातोऽत्र तथा सति" इति। एवं च "राम मां पाही"ति वाक्यस्य रामसम्बन्धिसम्वोधनविषयो मत्कर्तृकं रक्षणमर्थः। "व्रजानि देवदत्ते त्यत्र तु देवदत्तसम्बन्धिसंबोधनविषयो मत्कर्तृकं गमनमर्थः। इति प्रथमा।