पूर्वम्: २।३।४९
अनन्तरम्: २।३।५१
 
प्रथमावृत्तिः

सूत्रम्॥ षष्ठी शेषे॥ २।३।५०

पदच्छेदः॥ षष्ठी १।१ ७३ शेषे ७।१ ७३

काशिका-वृत्तिः
षष्ठी शेषे २।३।५०

कर्माऽदिभ्यो ऽन्यः प्रातिपदिकार्थव्यतिरेकः स्वस्वामिसम्भन्धाऽदिः शेषः, तत्र षष्ठी विभक्तिर् भवति। रज्ञः पुरुषः। पशोः पादः। पितुः पुत्रः।
लघु-सिद्धान्त-कौमुदी
षष्ठी शेषे ९०४, २।३।५०

कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिः संबन्धः शेषस्तत्र षष्ठी। राज्ञः पुरुषः। कर्मादीनापि संबन्धमात्रविवक्षायां षष्ठ्येव। सतां गतम्। सर्पिषो जानीते। मातुः स्मरति। एधोदकस्योपस्कुरुते। भजे शम्भोश्चरणयोः॥ इति षष्ठी।
न्यासः
शेषे षष्ठी। , २।३।५०

कर्मादीनां प्रकृतत्वात् तदपेक्षया शेषत्वं विज्ञायत इत्याह-- "कर्मादिभ्यो योऽन्यः" इति। कर्मादयः कारकविशेषास्तस्य सम्बन्धस्य हेतुभूताः, स तु फलभूतः। हेतुफलयोश्च प्रसिद्धमन्यत्वमिति तेभ्योऽन्यो भवति। प्रातिपदिकार्थ{व्यतिरिक्तः-काशिका।पदमञ्जरी च} व्यतिरेकः। व्यतिरेकः = आधिक्यम्। अथ वा-- येन प्रातिपदिकार्थो व्यतिरिच्यते = व्यतिरेकीक्रियते स व्यतिरेकः। प्रातिपदिकार्थस्य व्यतिरेकः = प्रातिपदिकार्थव्यतिरेकः। स शेषः। कः पुनरसवित्याह-- "स्वस्वामिकसम्बन्धादिः" इति। आदिशब्देनोवयवावयविप्रभृतेः सम्बन्धस्य ग्रहणम्। सम्बन्धश्च यद्यपि द्विष्ठस्तथापि तस्यैकत्वादेकत एव सम्बन्धिन उत्पद्यमानया षष्ठ()आ विभक्त्याऽभिहितत्वात् द्वितीयासम्बन्धिनःषष्ठी न भवति। एकस्मादुत्पद्यमानाऽपि षष्ठी विशेषणादेव भवति ; न विशेष्यात्। विशेष्यात्तु प्रथमैव भवति; यस्माच्छेषशब्दोऽयंयथा प्रकृतादन्यविशेषणमाचष्टे तथा परार्थमपि। एवं ह्रभियुक्ताः पुरुषा उपदिशन्ति-- शेषः परार्थ इति। राज्ञा पुरुष इति स्वस्वामिकसम्बन्दस्योदाहरणम्। अत्र पुरुषस्य प्रादान्यम्, विशेष्यत्वात्। राज्ञोऽप्राधान्यम्, विशेषणत्वात्। विशेषणस्य परार्थत्वात् शेषभाव इति ततः षष्ठी भवति। यदा तु द्वावपि विशेषणभूतौ तृतीये सम्बन्धिन्यपेक्षितौ भवतः, तदा द्वाभ्यामपि षष्ठी भवति "राज्ञः पुरुषस्य गृहम्" इति। "पशोः पादः" इति। अत्रावयवावयिसम्बन्धे षष्ठी। "पितुः पुत्रः" इत्यत्र जन्यजनकसम्बन्धे षष्ठी। अथ शेषग्रहणं किमर्थम्, यावता "कर्मणि द्वितीया" २।३।२ इत्येवमादौ प्रत्यनियमोऽर्थनियमश्चेति द्वावपि पक्षौ। तत्र प्रत्ययनियमपक्षे यदि शेषग्रहमं न क्रियेत तदा कर्मण्येव द्वितीयेति कर्मानियतम्, द्वितीया तु नियता; अतस्तत्रापि षष्ठी स्यादिति शेषग्रहणं कत्र्तव्यम्। शेष एव यथा स्यादन्यत्र माभूदिति अर्थनियमपक्षे तु शेषग्रहमं शक्यमकर्त्तुम्। यावता कर्मणि द्वितीयैवैति कर्म नियतम्, द्वितीया त्वनियता; तस्यामन्यत्रापि प्राप्तायां षष्ठीत्युच्यमानं सूत्रमिदं नियमार्थं भविष्यति-- यत्र षष्ठी चान्या च प्राप्नोति तत्र षष्ठ()एव भवति। एवमन्यत्रापि वेदितव्यम्॥
बाल-मनोरमा
षष्ठी शेषे ५९८, २।३।५०

अथ षष्ठी। षष्ठी शेषे। उक्तादन्यः शेषः। "कर्मणि द्वितीया" इत्यादिसूत्रेषु द्वितीयादिविधिषु हि कर्मकर्तृकरणसंप्रदानापादानाधिकरणकारकाण्यनुक्रान्तानि। प्रथमाविधौ प्रातिपदिकार्थोऽनुक्रान्तः। एतेभ्योऽन्यः स्वस्वामिभावादिसंबन्धः शेषपदार्थ इत्यर्थः। तत्राऽसति बाधके संबन्धो विशेषरूपेण सामान्यरूपेण च भासते, "न हि निर्विशेषं सामान्यमि"ति न्यायात्। सति तु बाधके "मातुः स्मरती"त्यादौ संबन्धत्वेनैव भानम्। कर्मत्वादिविशेषरूपेणापि भाने द्वितीयादिप्रसङ्गादिति स्थितिः। "राज्ञ पुरुष" इत्यत्र स्वस्वामिभावरूपविशेषात्मना संबन्धत्वरूपसामान्यात्मना च संबन्धः षष्ठ()र्थः। राजाश्रितस्वामित्निरूपितस्वत्वात्मकसंबन्धाश्रयः पुरुष इति बोधः। आश्रयत्वादि तु संसर्गमर्यादया भासते। तत्र पुरुषो मुख्यं विशेष्यम्। संबन्धस्त्वाधेयतया पुरुषविशेषणम्। राजा तु आश्रयतया संबन्धविशेषणम्। संबन्धस्त्वाधेयतया राजानं प्रति विशेष्यं, "प्रधानप्रत्ययार्थवचनमि"ति वचनेन प्रत्ययार्थस्य प्रकृत्यर्थं प्रति प्राधान्यावगमात्। अत एव पुरुषशब्दादपि न षष्ठी, राजनिरूपितसंबन्धाश्रयः पुरुष इति बोधे संबन्धस्य प्रकृत्यर्थपुरुषं प्रति विशेषणत्वेन विशेष्यत्वेन च भानानुपपत्तेः। यदा तु पुरुषगतस्वत्वनिरूपितस्वामित्यरूपसंबन्धाश्रयो राजेति बोधः, तदा पुरुषस्य राजेति पुरुषशब्दात् षष्ठी भवत्येवेत्यन्यत्र विस्तरः। सतां गतमित्यादौ कर्तृतृतीयादिकमाशङ्क्याह--कर्मादीनामपीति। कर्मत्वकर्तृत्वादीनामपि संबन्धत्वसामान्यात्मना विवक्षायां षष्ठ()एव, नतु कारकविभक्तय इत्यर्थः। तथाच "क्तस्य च वर्तमाने" इति सूत्रे भाष्यं--"कर्मत्वादीनामविवक्षा शेषः" इति। सतांगतमिति। भावे क्तः। सत्संबन्धि गमनमित्यर्थः। कर्तृत्वविवक्षायां तु सद्भिर्गतमिति तृतीया भवत्येव। कृद्योगलक्षणा षष्ठी तु न भवति, "न लोके"ति निषेधात्। सर्पिषो जानीते इति। करणत्वविवक्षायां सर्पिषा उपायेन प्रवर्तते इत्यर्थः। करणत्वस्य संबन्धत्वविवक्षायां तु षष्ठी, कत्र्राश्रिता सर्पिःसम्बन्धिनी प्रवृत्तिरिति बोधः। मातुः स्मरतीति। कर्मत्वविवक्षायां मातरं स्मरतीत्यर्थः। कर्मत्वस्य शेषत्वविवक्षायां तु देवदत्तकर्तृकं मातृसम्बन्धि स्मरणमित्यर्थः। एधो दकस्योपस्कुरुते इति। एधशब्दोऽकारान्तः पुंलिङ्गः, "कारके" इति सूत्रे "एधाः पक्ष्यन्ते" इति भाष्यप्रयोगात्। एधाश्च उदकानि चेति द्वन्द्वात् षष्ठी। "जातिरप्राणिना"मित्येकद्भावः। कर्मत्वविवक्षायां एदोदकं शोषणगन्धद्रव्याधानादिना परिष्कुरुते इत्यर्थः। कर्मत्वस्य शेषत्वविवक्षायां तु एधोदकसम्बन्धि परिष्करणमिति बोधः। एधश्शब्दः सकारान्तोऽप्यस्ति नपुंसकलिङ्गः। "काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित् स्त्रियाम्" इति कोशात्। "यथैधांसि समिद्धोऽग्निः" इत्यादिदर्शनाच्च। तथा सति "एधः-दकस्ये"तिच्छेदः। उदकशब्दसमावेशे एध उदकस्येत्यापत्तेः। उदकशब्दपर्यायो दकशब्दोऽप्यस्ति, "भुवनममृतं जीवनं स्याद्दकं च" इति हलायुधकोशात्। तथाच एधः कर्तृ उदकं परिष्कुरुते इत्यर्थः। कर्मत्वस्य शेषत्वविवक्षायां तु षष्ठी, निम्बकरञ्जादिकाष्ठविशेषप्रज्वलिताग्नितप्तोदकस्य गुणविशेषो वैद्यशास्त्रप्रसिद्धः। भजे शम्भोश्चरणयोरिति। अत्र चरणयोः कर्मत्वस्य शेषत्वविवक्षायां षष्ठी। शम्भुचरणसंबन्धि भजनमित्यर्थः। फलानां तृप्त इति। अत्रापि करणत्वस्य शेषत्वविवक्षायां षष्ठी। फलसंबन्धिनी तृप्तिरिति बोधः।

तत्त्व-बोधिनी
षष्ठी शेषे ५३६, २।३।५०

षष्ठी शेषे। उक्तादन्यः शेषः। कर्मादयश्च प्रातिपदिकार्धपर्यन्ता उक्ताः, तत्र द्वितीयादीनां विधानात्, अतो प्रति प्राधान्यादप्रधानादेव षष्ठी। प्रत्ययार्थस्त्विह पुरुषविशेषणम्। राजनिरूपितसेवकत्वसम्बन्धवान् पुरुष इत्यर्थविवक्षायां प्रधानात्पुरुषशब्दान्न षष्ठी, उक्तन्यायविरोधात्, शेषत्वाऽभावाच्च। "राज्ञः पुरुषस्तिष्ठकती"त्यादौ पुरुषशब्दो हि प्रातिपदिकार्थमात्रवृत्तिः। "राज्ञः पुरुषेण कृत"मित्यादौ तु कारकार्थकः। यदा तु पुरुषनिरूपित सेव्यत्वसम्बन्धवान् राजेत्यर्थविवक्षा तदा पुरुषशब्दादपि षष्ठी भवत्येव पुरुषय राजेति। यत्तु "अप्रधानं शेष"इति कैश्चिदुक्तम्। तन्न। प्रातिपदिकार्थमात्रे शुक्लः पटः श्यामो घट इत्यादौ विशेषणे षष्ठीप्रसङ्गात्। न च प्रथमाया बाधः, तस्याः प्रधाने चरितार्थत्वात्। कर्मादीनामपीति। यथा विशेषाऽविवक्षायां रूपवानिति प्रयुज्यते, विशेषविवक्षायां तु नीलः पीत इत्यादि, तथेदमपि न्यायसिद्धमिति भावः। सतां गतमिति। सत्पुरुषसम्बन्धि गमनमित्यर्थः। सन्तो गच्छन्तीत्यत्र त्वाख्यातेन कर्तृत्वसम्बन्धस्योक्तत्वात्सम्बन्धमात्रविवक्षां कर्तुं न शक्यते इति षष्ठीह न भवति, किंन्तु प्रातिपदिकार्थम#आत्रे प्रथमैवेत्याहुः। सर्पिषो जानीते इति। वस्तुतः करणस्य सम्बन्धमात्रविवक्षायां षष्ठी। सर्पिः--सम्बन्धि प्रवर्तनमित्यर्थः। "अकर्मकाच्च" "अनुपसर्गाज्ज्ञः" इत्यनेन वा जानातेस्तङ्। अन्ये तु व्याचख्युः--कर्मणः शेषत्वविवक्षाया षष्ठी। सर्पिःसम्बन्धि ज्ञानमित्यर्थ इति। एधोकस्येति। एधाश्च उदकं चैषां समाहार एधोदकम्।"जातिरप्राणिनाम्" इत्येकवद्भावः। यद्वा च दकं चेति विग्रहे पूर्ववदेकवद्भावः। यद्वा एधांसि च दकं चेति वुग्रहे पूर्ववदेकवद्भावः। उदकपर्यायो दकशब्दोऽप्यस्ति। तथा च हलायुधः---"भुवनममृतं जीवनीयं दकं चे"ति। उपस्कुरुते इति। गन्धनादिसूत्रेणात्मनेपदम्। "उपात्प्रतियत्ने"ति सुट्। नचैवं "ज्ञोऽविदर्थस्य करणे", "अधीगर्थदयेशां कर्मणि", "कृञः प्रतियत्ने", "रुजार्थानां भाववचनानामज्वरेः", "आशिषि नाथः", "जासिमिप्रहणनाटक्राथपिषां हिंसायाम्","व्यवह्मपणोः समर्थयोः", "कृत्वोर्थप्रयोगे कालेऽधिकरणे" इति शेषषष्ठीविधानार्थेयमष्टसूत्री निष्फला स्यादिति वाच्यम्, "सर्पिषो ज्ञान"मित्यादौ तस्याः समासनिवृत्तिफलकत्वात्। तथा हि "ज्ञोऽविदर्थस्य--" इत्यादौ "शेषे" इत्यनुवर्तते, शेषत्वेन विवक्षते तु करणादौ षष्ठी सिद्ध#ऐव। तदमर्थः--इह षष्ठ()एव न तु तल्लुक्। तथा च लुकः प्रयोजकीभूतः समास एव न भवतीति। न चाष्टसूत्र्या लुङ्बात्रनिवृत्तिफलकत्वमेवास्तु, समासस्तु स्वीक्रियतामिति वाच्यम्। इष्टानुरोधेन समास एव न भवतीति व्याख्यानस्योचितत्वात्। तथा च वार्तिकं"प्रतिपदविधाना षष्ठी न समस्यते" इति। हरिश्चाह---"कारकैव्र्यपदिष्टे च श्रूयमाणक्रिये पुनः। प्रोक्ता प्रतिपदं षष्ठी समासस्य निवृत्तये" इति। एवं च शेषत्वविवक्षायां सर्पिषो ज्ञानं, मातुः स्मरणमित्यादीन्यसमस्तान्येव साधूनि। "हरिस्मरण"मित्यादीनि तु शेषत्वाऽविवक्षायां कृद्योगषष्ठ()आ समासे बोध्यानि। तत्र च कारकपूर्वकत्वात् "गतिकारक---" इत्यादिना कृदुत्तरपदप्रकृतिस्वरेण मध्योदात्तत्वं भवति। शेषषष्ठ()आ समासे तु अन्तोदात्तत्वं स्यात्तच्चाऽनिष्टम्। तथा च स्वरार्थेयमष्टसूत्रीति निष्कर्षः। किं च "मातुः स्मृत" मित्यादौ समासाऽभावोऽपि फलम्, न हि तत्र कारकषष्ठी लभ्यते, "न लोके" ति निषेधात्। आह च--" निष्ठायां कर्मविषया षष्ठी च प्रतिषिध्यते। शेषलक्षणया षष्ठ()आ समासस्तत्र नेष्यते" इति। एतच्च मनोरमायां स्थितम्।