पूर्वम्: २।४।१५
अनन्तरम्: २।४।१७
 
सूत्रम्
विभाषा समीपे॥ २।४।१६
काशिका-वृत्तिः
विभाषा समीपे २।४।१६

अधिकरणएतावत्त्वस्य समीपे विभाषा द्वन्द्वः एकवद् भवति। उपदशं दन्तोष्ठम्, उपदशाः दन्तोष्ठाः। उपदशं मार्दङ्गिकपाणविकम्, उपदशा मार्दङ्गिकपाणविकाः। अव्ययस्य सङ्ख्यया अव्ययीभावो ऽपि विहितः, बहुव्रीहिरपि। तत्र एकवद्भावपक्षे ऽव्ययीभावो ऽनुप्रयुज्यते, इतरत्र बहुव्रीहिः।
न्यासः
विभाषा समीपे। , २।४।१६

अधिकरणैतावत्त्वस्य प्रकृतत्वात् तदपेक्षयैव समीपत्वं विज्ञायत इत्यत आह-- "अधिकरणैतावत्त्वस्य समीपे" इति। "उपदशं दन्तौष्ठम्िति। अत्राधिकरणैतावत्त्वं दशसंख्या, तत्समीपं नवैकादश वा। तत्र दशशब्द एतावत्त्वमाचष्टे। उपशब्दः सामीप्यम्। कथं पुनद्र्वन्द्वैकवद्भावो विकल्प्यमानोऽनुप्रयोगस्य लभ्यत इत्यत आह-- "अव्ययस्य" इत्यादि। यद्यप्यर्थातिदेशादनुप्रयोगस्यापि विकल्पो लभ्यते, तथापि परीहारान्तरमप्यस्तीति दर्शनार्थमस्योपन्यासः। तत्राव्ययस्य संख्याया अव्ययीभावो विहितः--"अव्ययं विभक्ति" २।१।६ इत्यादिना। बहुव्रीहिरपि विहितः-- "संख्यायाव्ययासन्न" २।२।२५ इत्यादिना। अत्रैकवद्भावपक्ष एकार्थस्य द्वन्द्वस्यैकार्थ एवाव्ययीभावोऽनुप्रयुज्यते। एकार्थत्वं पुनस्तस्य सामीप्यप्रधानसत्वात्। यद्यप्यव्ययीभावोऽव्ययम्, तथाप्यभेदैकत्वं भेदाभावलक्षणं तस्यास्त्येव सामानाधिकरण्यम्। इतरत्र तु बह्वर्थस्य द्वन्द्वस्य बह्वर्थ एव बहुव्रीहिरनुप्रयुज्यते। बह्वर्थं पुनर्बहुव्रीहेः समीपिनः प्राधान्यात्। बहुव्रीहिर्हि समीपी प्रधानत्वाद्भेदसंख्यामुपादत इति बह्वर्थो भवति। "उपदशम्" इति। "अव्ययीभावे शरत्प्रभृतिभ्यः" ५।४।७ इत्यनुवत्र्तमाने "अनश्च" ५।४।१०८ इति टच् समासान्तः। "नस्तद्धिते" ६।४।१४४ इति टिलोपोः। "उपदशाः" इति। बहुव्रीहौ संख्येये डजबहुगणात्" ५।४।७३ इति डच्॥
बाल-मनोरमा
विभाषा समीपे ९१०, २।४।१६

विभाषा समीपे। "अधिकरणैतावत्त्वे" इत्यनुवर्तते। "समीपे" इत्यस्य सामीप्येन परिच्छिन्ने सतीत्यर्थः। फलितमाह--अधिकरणेति। उपदशं दन्तोष्ठमिति। दशानां समीपे इत्यर्थेऽव्ययीभावः। उक्तरीत्याऽसामर्थ्येऽपि वचनसामथ्र्यात्समाहारद्वन्द्वः। समानलिङ्गवचनत्वादव्ययीभावस्यैवाऽनुप्रयोग इति भाष्यम्। अत एवोपदशं दन्तोष्ठेनेत्यादि सिद्धम्। समीपसमीपिनोरभेदविवक्षायां सामानाधिकरण्यम्। नवत्वसङ्ख्ययदन्तोष्ठसमूहः, एकादशत्वसङ्ख्यदन्तोष्ठसमूह इति वा बोधः। उपदशा दन्तोष्ठा इति। इतरेतरयोगद्वन्द्वोऽयम्। दशानां समीपे ये सन्ति ते उपदशा इति बहुव्रीहिः। नव एकादश वेत्यर्थः। "बहुव्रीहेरेवात्राऽनुप्रयोगः, समानलिङ्गवचनत्वा"दिति भाष्यम्।

तत्त्व-बोधिनी
विभाषा समीपे ७८६, २।४।१६

विभाषा समीपे। यद्यपीह "समाहारद्वन्द्व एवे"ति व्याख्यानेऽपि न क्षतिस्तथापि पूर्वसूत्रे नियमनिषेधस्योक्तत्वात्तदनुरोधेनाह नियमो वा स्यादिति। उपदसं दन्तोष्ठमिति। एकवद्भावपक्षेऽव्ययीभावस्यैवानुप्रयोगः। यदि तु बहुव्रीहिस्तदा "उपदशस्य दन्तोष्ठस्ये"ति षष्ठी स्यात्, "उपदशं दन्तोष्ठस्ये"त्येवेष्यत इत्याकरः। "दन्तोष्ठस्य दश"मित्यभिप्रायेण षष्ठ()आं कृतायामपि उपदशशब्देन षष्ठी नेष्यते। अतो बहुव्रीहेर्नानुप्रयोगः, किं त्वव्ययीभावस्यैवेति तदाशयः।