पूर्वम्: २।४।१४
अनन्तरम्: २।४।१६
 
सूत्रम्
अधिकरणैतावत्त्वे च॥ २।४।१५
काशिका-वृत्तिः
अधिकरनएतावत्त्वे च २।४।१५

न इति वर्तते। अधिकरणं वर्तिपदार्थः। स हि समासस्य अर्थस्य अधारः। तस्य एतावत्त्वे परिमाणे गम्यमाने द्वन्द्वो न एकवद् भवति। यथायथम् एकवद् भावः प्राप्तः प्रतिषिध्यते। दश दन्तोष्ठाः। दश मार्दङ्गिकपाणविकाः।
न्यासः
अधिकरणैतावत्त्वे च। , २।४।१५

अधिकरणं वर्त्तिपदार्थः" इति। वत्र्तन वर्त्तः = समासः। भावे घञ्। वर्तोऽस्यास्तीति वर्ति = समासावयवभुतम। वर्त्तिश्च तत् पदञ्चेति वर्त्तिपदं तस्य पदस्यार्थोऽधिकरणमित्युच्यते। कथं पुनस्तस्याधिकरणत्वामित्यत आह-- "स हि" इत्यादि। आधारो ह्रधिकरणम्। वर्त्तिपदार्थश्च समासार्थस्याधारो भवति; तत्र तस्य समवायात्। वर्त्तिपदार्थैह्र्रवयवैरवयवी समासार्थ आरभ्यते, अवयवी चावयवेषु कसमवैति। "तस्य " इति। वर्त्तिपदार्थस्य। "दश {इमे नास्ति--काशिका, पदमञ्जरी च} इमे दन्तौष्ठाः}" इति। "द्वन्द्वश्च" २।४।२ इत्यादिना प्राप्तिः॥
बाल-मनोरमा
अधिकरणैतावत्त्वे च ९०९, २।४।१५

अधिकरणैतावत्त्वे च। अधिकरणं-द्रव्यं, तस्य एतावत्त्वम्-इयत्ताविशेषः। तदाह--द्रव्यसङ्ख्यावगमे इति। समस्यमानपदार्थस्येयत्ताविसेषे पदान्तरसमभिव्याहारगम्ये इत्यर्थः। नियमो नेति। "ब्राहृप्रजापती" इत्यादौ समाहार एव द्वन्द्व #इति नियमस्य प्रकृतस्याऽप्रवृत्तेरेकवत्त्वनिषेधः पूर्वसूत्रे आश्रितः। इह तु बाधकाऽभावात्प्रकृतस्य नियमस्यैव निषेध आश्रित इति भावः। दश दन्तोष्ठा इति। दन्ताश्च ओष्ठाश्चेति विग्रहः। इतरेतरयोगद्वन्द्वोऽयं, न तु समाहार द्वन्द्वः। समासार्थसमाहारविशेषणीभूतसमस्यमानपदार्थानां पदान्तरलभ्यदशत्वसापेक्षत्वेनाऽसामथ्र्यात्। इतरेतरयोगद्वन्द्वस्तु भवत्येव, तत्र समस्यमानपदार्थानामेव प्रधानत्वात्। "उपमितं व्याघ्रादिभिः" इति सूत्रभाष्ये प्रदानस्य सापेक्षत्वेऽपि समासाभ्युगमात्। ततश्चात्रैकवदेवेति नियमाऽभावे सति असामथ्र्यात्समाहारत्वे निवृत्ते परिशेषादितरेतरयोगत्वमेवावतिष्ठते। यदि त्वेकवन्न स्यादित्येव व्याख्यायेत, तर्हि समाहारद्वन्द्वो नेत्यर्थः पर्यवस्येत्। तथा सति "दश दन्तोष्ठाः" इतीतरेतरयोगद्वन्द्वो न स्यात्, "द्वन्द्वश्च प्राणितूर्ये"ति तन्निषेधात्। तताच वाक्यमेव स्यात्। किंच समाहारद्वन्द्वनिषेधोऽयं व्यर्थ एव, उक्तरीत्या सापेक्षत्वेनाऽसामथ्र्यादेवऽप्राप्तेः। अत एकवदिति नियमो न स्यादित्येव व्याख्ययेम्। एवं च प्राण्यङ्गनिबन्धनस्य एकवदेव स्यादिति नियमस्य इतरेतरयोगद्वन्द्वनिवृत्तिफलकस्याऽनेन निषेधे सति इतरेतरयोगद्वन्द्वस्यावस्थितिः फलतीति पदमञ्जर्या स्पष्टम्।

तत्त्व-बोधिनी
अधिकरणैतावत्त्वे च ७८५, २।४।१५

नियमो न स्यादिति। न चेह प्राण्यङ्गत्वात्प्राप्तस्य "एकवदेवे"ति नियमस्य प्रतिषेधेऽपि "चार्थे द्वन्द्वः"इति समाहारेद्वन्द्वः स्यादिति वाच्यं, "सविशेषणानां वृत्तिर्ने"त्यभ्युपगमेन समाहारेद्वन्द्वस्य प्राप्तयभावात्। न चोक्तन्यायेनेतरयोगद्वन्द्वोऽपि न स्यादिति वाच्यं, "सामान्याऽप्रयोगे"इति लिङ्गत्प्राधानस्य सापेक्षत्वेऽपि तदभ्युपदमात्। उक्तं हि भाष्ये--भवति वै प्रधानस्य सावेक्षस्यापि वृत्तिः"इति। स्यादेतत्--समाहारद्वन्द्वस्याऽत्र प्राप्त्यभावे "द्वन्द्वश्च प्राणितूर्ये"ति नियमाऽप्रवृत्त्या इतरेतरयोगद्वन्द्वो निर्बाध एवेति सूत्रमिदमकिंचित्करमिति चेदत्राहुः--"नियमसूत्राणां निषेधमुखेन प्रवृत्ति"रिति पक्षे "द्वन्द्वश्च प्राणितूर्ये"ति सूत्रं केवलमितरेतरयोगद्वन्द्वनिषेधपरम्। तथा चेतरेतरयोगनषेधस्य निषेधद्वारा इतरेतरयोगद्वन्द्वप्रापणार्थमिदमिति। एवं च निषेधमुखप्रवृत्तिपक्षस्य ज्ञापनायेदमिति फलितमिति दिक्।