पूर्वम्: २।४।१९
अनन्तरम्: २।४।२१
 
सूत्रम्
संज्ञायां कन्थोशीनरेषु॥ २।४।२०
काशिका-वृत्तिः
संज्ञायां कन्ताउशीनरेषु २।४।२०

संज्ञायां विषये कन्थाऽनतस् तत्पुरुषो नपुंसकलिङ्गो भवति, सा चेत् कन्था उशीनरेसु भवति। सौशमिकन्थम्। आह्वरकन्थम्। संज्ञायाम् इति किम्? वीरणकन्था। उशीनरेषु इति किम्? दाक्षिकन्था। परविल्लिङ्गता पवाद इदं प्रकरनम्।
न्यासः
संज्ञायां कन्थोशीनरेषु। , २।४।२०

प्रकृते न तदन्तविधिरिति प्रकृतस्य तत्पुरुषस्य कन्यया तदन्तविधिर्वज्ञायत इत्याह-- "कन्थान्तस्तत्पुरुषः" इति। "सौशमिकन्थम्" इति। सौशमीनां कन्था इति षष्ठीसमासः। "दाक्षिकन्था" इति। अस्तीयं ग्रामस्य संज्ञा; न तूशीनरेषु किं तर्हि? ततोऽन्यत्रेति॥
बाल-मनोरमा
संज्ञायां कन्थोशीनरेषु ८१३, २।४।२०

संज्ञायां कन्थो। सुगममेव। उपज्ञा। उपज्ञायते=प्रथमं ज्ञायत इत्युपज्ञा। "स्त्रियां क्ति"न्नित्यधिकारे "आतश्चोपसर्गे" इति कर्मण्यङ्। उपक्रम्यते=आरभ्यते इत्युपक्रमः। कर्मणि घञ्। "नोदात्तोपदेशस्ये"ति वृद्धिनिषेधः। उपज्ञा चोपक्रमश्चेति समाहारद्वन्द्वः। "तत्पुरुष" इत्यस्य विशेषमिदम्। तदन्तविधिः। "स नपुंसक"मित्यतो "नपुंसक"मित्यनुवर्तते।