पूर्वम्: २।४।२०
अनन्तरम्: २।४।२२
 
सूत्रम्
उपज्ञोपक्रमं तदाद्याचिख्यासायाम्॥ २।४।२१
काशिका-वृत्तिः
उपज्ञाउपक्रमम् तदाद्याचिख्यासायाम् २।४।२१

उप्ज्ञायते इत्युपज्ञा। उपक्रम्यते इत्युपक्रमः। उपज्जा च उपक्रमश्च उपज्ञोपक्रमम्। तदन्तस् तत्पुरुषो नपुंसकलिङ्गो भवति तदाद्याचिख्यासायाम्, तयोरुपज्ञोपक्रमयोरादेराचिख्यासायां गम्यमानायाम्। आख्यातुम् इच्छा आचिख्यासा। यद्युपज्ञेयस्य उपक्रम्यस्य च अर्थस्य आदिराख्यातुम् इष्यते तत एतद् भवति। पाणिन्युपज्ञमकालकं व्याकरणम्। पाणिनेरुपज्ञानेन प्रथम् अतः प्रणीतम् अकालकं व्याकरणम्। व्याड्युपज्ञं दशहुष्करणम्। आद्योपक्रमं प्रासादः। नन्दोपक्रमाणि मानानि। दर्शनीयोपक्रमं सुकुमारम्। उपज्ञाउपक्रमम् इति किम्? वाल्मीकिश्लोकाः। तदाद्याचिख्यासायाम् इति किम्? देवदत्तोपज्ञो रथः। यज्ञदत्तोपक्रमो रथः।
न्यासः
उपज्ञोपक्रमं तदाद्याचिख्यासायाम्। , २।४।२१

"उपज्ञायत इत्युपज्ञा" इति। "आतश्चपसर्गे" ३।३।१०६ इति कर्मण्यङ। "उपक्रम्यत इत्युपक्रमः"। अत्र "अकत्र्तरि च कारके संज्ञायाम्" ३।३।१९ इति कर्मणि घञ्। "नोदात्तोपदेशस्य" ७।३।३४ इत्यादिना वृद्धिनिषेधः। "यद्यप्युपज्ञेयस्योपक्रम्यस्य च" इत्यादि। उपज्ञेयः = परिज्ञेयः। उपक्रमः = उपक्रमितव्यः। आदिः = प्राथम्यम्। "पाणिन्युपज्ञम्" इति। षष्ठीसमासः। तेन तत्प्रथमतः प्रणीतम्। "अकालम्" इति। स स्वस्मिन् व्याकरणे कालाधिकारं न कृतवान्। "व्याड()उपज्ञं दशहुष्करणम्" इति। व्यडिरप्यत्र युगपत्कालभाविनां विधीनां मध्ये दश हुष्करणानि कृत्वा परिभाषितवान् पूर्वं पूर्वं कालमिति। वाल्मीकेः श्लोका वाल्मीकिश्लोका इति षष्ठीसमासः॥
बाल-मनोरमा
उपज्ञोपक्रमं तदाद्याचिख्यासायाम् ८१४, २।४।२१

तदाह--उपज्ञान्त उपक्रमान्तश्चेति। तच्छब्देन उपज्ञोपक्रमौ विवक्षितौ। आदिशब्दो भावप्रधानः प्राथम्ये वर्तते। तयोरादिः=प्राथम्यं--तदादिः। तस्य आचिख्यासा=आख्यातुमिच्छा। विवक्षायामिति यावत्। तदाह--तयोरादिरित्यादि। पाणिनेरुपज्ञेति। कर्तरि षष्ठी। पाणिन्युपज्ञं ग्रन्थ इति। पाणिनिना प्रथमं ज्ञायमान इत्यर्थः। इदं प्रकरणं परवलिङ्गत्वस्य विशेष्यनिघ्नत्वस्य चापवादः। नन्दोपक्रमं द्रोण इति। नन्देनारभ्यमाण इत्यर्थः। कर्तरि षष्ठ()आ समासः।

तत्त्व-बोधिनी
उपज्ञोपक्रमं तदाद्याचिख्यासायाम् ७१४, २।४।२१

उपज्ञो। उपज्ञायत इत्युपज्ञा। "आतश्चोपसर्गे"इति कर्मण्यङ्। उपक्रम्यत इत्युपकमः। कर्मणि घञ्। "नोदत्तोपदेशस्ये"ति वृद्धिप्रतिषेधः। उपज्ञा च उपक्रमश्चेति समाहारद्वन्द्वः। स चानुवर्तमानस्य तत्पुरुषस्य विशेषणम्। तच्छब्देन उपज्ञोक्रमौ परामृश्यते। तदेतत्सकलमभिप्रेत्याह---उपज्ञान्त इत्यादि। आख्यातुमिच्छा आचिख्यासेतीच्छसना इह विवक्षैव शब्दप्रवृत्तौ नियामिका, न चु वस्तुस्थितिरिति ज्ञाप्यते। तेन "त्वदुपक्रमं सौजन्य]मित्याद्यपि सिध्यति। पाणिनेरिति। कर्तरि पष्ठी। नन्दोपक्रममिति। नन्दस्योपक्रममिति विग्रहः।