पूर्वम्: २।४।२९
अनन्तरम्: २।४।३१
 
सूत्रम्
अपथं नपुंसकम्॥ २।४।३०
काशिका-वृत्तिः
अपथं नपुंसकम् २।४।३०

अपथशब्दो नपुंसकलिङ्गो भवति। अपथम् इदम्। अपथानि गाहते मूढः। इह कस्मान् न भवति, अपथो देशः, अपथा नगरी? तत्पुरुषः इति वर्तते।
न्यासः
अपथं नपुंसकम्। , २।४।३०

"अपधम्" इति। "पथो विभाषा" ५।४।७२ इति यदा समासान्तप्रतिषेधो नास्ति तदा "ऋक्पूरब्धूपथामानक्षे" ५।४।७४ इत्यकारः समासान्तः। समासान्तनिर्दशाद्यदा समासान्तो नास्ति तदा पुंल्लिङ्गतैव भवति-- अपन्था इति॥
बाल-मनोरमा
अपथं नपुंसकम् ८०५, २।४।३०

अपथं नपुंसकं। न-पन्था इति विग्रहे नञ्समासे नञो नस्य लोपे "ऋक्पूः" इत्यप्रत्यये टिलोपे अपथशब्दः, स नपुंसकमित्यर्थः। परवल्लिङ्गतापवादः। तत्पुरुष इत्येवेति। "परवल्लिङ्ग"मित्यतस्तदनुवृत्तेरिति भावः। द्वन्द्वग्रहणं तु नानुवर्तते, अयोग्यत्वात्। अन्यत्र त्विति। बहुव्रीहावित्यर्थः। अपन्था इति। "पथो विभाषा" इति समासान्तविकल्पः। "पथः संख्याव्ययादेः" इति वक्ष्यमाणवार्तिकेन गतार्थमेवेदं सूत्रम्।

तत्त्व-बोधिनी
अपथं नपुंसकम् ७०७, २।४।३०

अपथं नपुंसकम्। तत्पुरुष इत्येवेति। द्वन्द्व ग्रहणं तु नानुवर्तते, अयोग्यत्वादिति भावः। अपन्था इति। "पथो विभाषा" इति समासान्तविकल्पः। इदं सूत्रं शक्यमकर्तुम्। "पथः सङ्ख्याव्ययादेः"इति वक्ष्यमाणवार्तिकेन गतार्थत्वात्। प्रसङ्गादाह--।