पूर्वम्: ५।४।७१
अनन्तरम्: ५।४।७३
 
सूत्रम्
पथो विभाषा॥ ५।४।७२
काशिका-वृत्तिः
पथो विभाषा ५।४।७२

नञः परो यः पथिन्शब्दः, तदन्तात् तत्पुरुषात् समासान्तो विभाषा न भवति। पुर्वेण नित्यः प्रतिसेधः प्राप्तो विकल्प्यते। अपथम्, अपन्थाः।
न्यासः
पथो विभाषा। , ५।४।७२

अपथम्()" इत्यत्र पूर्ववदकारः। "अपथं नपुंसकम्()" २।४।३० इति नपुंसकलिङ्गता॥
बाल-मनोरमा
पथोविभाषा ९६९, ५।४।७२

पथो विभाषा। पथ इति। पथिन्शब्दादित्यर्थः। अपथिमिति। न पन्था इति विग्रहे नञ्तत्पुरुषः।"ऋक्पूः" इत्यप्रत्यये सति "नस्तद्धिते" इति टिलोपः। "पथः सङ्ख्याव्ययादे"रिति नपुंसकत्वम्। अपन्था इति। अप्रत्ययाऽभावे रूपम्। तत्पुरुषादित्येवेति। अनुवर्तत एवेत्यर्थः। अपथो देश इति। अविद्यमानः पन्था यस्येति विग्रहः। बहुव्रीहित्वात् "ऋक्पू"रित्यप्रत्ययस्य न पाक्षिकोऽपि निषेधः।

*****इति बालमनोरमायाम् समासान्तप्रकरणम्।*****

अथ समासाश्रयविधिः।

----------------

तत्त्व-बोधिनी
पथोविभाषा ८२५, ५।४।७२

अपथं वर्तत इति। अर्थाऽभावेऽव्ययीभाव।

इति सकलसमाससाधारणाः समासान्ताः।

इति तत्त्वबोधिन्यां समासान्तप्रकरणम्॥