पूर्वम्: २।४।३१
अनन्तरम्: २।४।३३
 
सूत्रम्
इदमोऽन्वादेशेऽशनुदात्तस्तृतीयाऽ‌ऽदौ॥ २।४।३२
काशिका-वृत्तिः
इदमो ऽन्वादेशे ऽशनुदात्तस् तृतीयाऽअदौ २।४।३२

आदेशः कथनम्। अनवादेशो ऽनुकथनम्। इदमो ऽन्वादेशविषयस्य अशादेशो भवत्यनुदात्तः, तृतीयादौ विभक्तौ परतः। आभ्यां छात्राभ्यं रात्रिरधीता, अथो आभ्यामहरप्यधीतम्। अस्मै छात्राय कम्बलं देहि, अथो ऽस्मै शाटकम् अपि देहि। अस्य छात्रस्य शोभनं शीलम्, अथो ऽस्य प्रभूतं स्वम्। अशादेशवचनं साकच्कार्थम्। इमकाभ्यां छात्राभ्यां रात्रिरधीता, अथो आभ्यामहरप्यधीतम्। नेह पश्चादुच्चारणमात्रम् अन्वादेशः। किं तर्हि? एकस्य एव अभिधेयस्य पूर्वं शब्देन प्रतिपादितस्य द्वितीयं प्रतिपादनम् अन्वादेशः। तेन इह न भवति, देवदत्तं भोजय, इमं च यज्ञदत्तम् इति।
न्यासः
इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ। , २।४।३२

"आदेशः कथनम्" इति। प्रथमतः प्रतिपादनम्, शब्देन। "अनवादेशोऽनुकथम्" इति। पश्चात्प्रतिपादनम्। तच्च यादृशमिहाभिप्रेतं तादृशं पश्चाद्वक्ष्यति। "आभ्यां छात्राभ्याम्" इत्यादि। आदेश एषः। "अथो आभ्याम्" इत्याद्यन्वादेशः एषः। अथोशब्देनात्रान्वादेश उच्यते। ननु च त्यादाद्यत्वे कृते हलि लोपे ७।२।११३ चाथो आभ्यामित्यादिरूपं सिध्यत्येव, तस्मादनुदात्तमेव केवलं विधेयम्, आदेशवचनं त्वनर्थकमित्यत आह-- "आदेशवचनम्" इत्यादि। "अव्ययसर्वनाम्नामकच् प्राक् टेः" ५।३।७१ इत्यकरच्प्रत्यये कृते सत्यपि "अनाप्यकः" ७।२।११२ इत्यधिकारादिद्रूपस्य लोपो नास्तीत्यस्तयादेशवचने रूपं न सिध्यति। ननु च "हलि लोपः" (७।२।११३) इत्यनेन हलादाविद्रूपस्य लोपेऽनेनाजादौ यथा स्यादित्यवेवमर्थं कस्मान्न भवति? नैतदस्ति; सामथ्र्याद्धि हलादावेव भवितव्यम्, तत्र स्मैभावादिषु कृतेषु। तस्मात् साकच्कार्थमादेशवचनम्। साकच्कार्थे चास्मिन्नारब्धे शित्करणं सर्वादशार्थम्; अन्यथा ह्रलोऽन्त्स्य स्यात्। प्रयोजनाभावान्न भविष्यतीति चेत्, न; अकारस्य त्वकारवचनं दीर्घादेशनिवृत्त्य्रथं विज्ञायते। अथानुदात्तवचनं किमर्थम्, यावता "ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः" ६।१।१६५ इति विभक्तेरुदात्तत्वे कृते "आनुदात्तं पदमेकवर्जम्" (६।१।१५८) इति प्रकृतेरनुदात्तत्वं भविष्यति? नैतदस्ति; सविभक्त्यर्थमनुदात्तवचनम्, सविभक्तिकस्यानुदात्तत्वं यथा स्यात्। तेन सर्वानुदात्तमेवाभ्यामिति पदमन्वादेशे भवति। यदि पश्चादुच्चारणमात्रमन्वादेशस्तदेह कस्मान्न भवति-- देवदत्तं भोजय, इमञ्च यज्ञदत्तमिति? अस्ति ह्रत्राप्यन्वादेशः, ततश्च "द्वितीयाटौस्स्वेनः" २।४।३४ इत्येनादेशः प्राप्नोतीत्यत आह-- "नेह पश्चादुच्चारणमात्रम्" इत्यादि। "तेनेह न भवति" इति। न ह्रत्रैकस्याभिधेयस्य पूर्वं शब्देन प्रतिपादितस्य द्वितीयं प्रतिपादनम्, किं तर्हि? अभिधेयान्तरस्य। तथाहि पूर्वं देवदत्तस्य प्रतिपादनम्, उत्तरकालं यज्ञदत्तस्य। कथं पुनरयं विशेषो लभ्यते, यावतापश्चादुच्चारणमात्रेऽन्वादेशशब्दः प्रसिद्धः, न च सामान्यशब्दः शब्दान्तसन्निधानादिकरमन्तेरण विशेषेऽवतिष्ठते? नैष दोषः; यस्मात् "विभाषा सेना" २।४।२५ इत्यतो विभाषाग्रहणमनुवत्र्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेनैवंविधविषय एवान्वादेशोऽत्र ग्रहीतव्यः, नान्वादेशमात्रम्। तसमाद्विशिष्टस्यान्वादेशस्य ग्रहणं युक्तमिति भावः। यदपि च वक्ष्यति तत्र-- "यत्र किञ्चिद्विधाय" इत्यादि, तदपीममेव न्यायं ह्मदि कृत्वेति बोद्धव्यम्॥
तत्त्व-बोधिनी
इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ ३१०, २।४।३२

इदमोऽन्वादेशे। नन्विदमोऽनुदात्तमात्पविधावपि हलि लोपेन "आभ्या"मित्यादि समीहितरूपं सिध्यति, "एनयो"रित्यत्र तु विशिष्यैनादेशो विहितः, किमनेनाऽ()आचनेनेत्यत आह--साकच्कार्थमिति। यद्यपीह शित्करणं व्यर्थम्, अकारस्याऽकारविधानसामथ्र्यादेव सर्वादेशासिद्धेः, तथाप्यनुदात्तत्वार्थंमेवाऽकारविधानमित्याशङ्का स्यात्तन्निवारणाय शित्करणमित्याहुओः। "अ--अ"इति प्रश्लिष्य निर्देशे त्वनेकाल्वादेव सर्वादेशसिद्धेः सिद्ग्रहणं त्युक्तं शक्यमित्याकरः।